संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|द्वितीयः स्कन्धः| अध्यायः ५ द्वितीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ द्वितीय स्कन्धः - अध्यायः ५ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ५ Translation - भाषांतर ब्रह्मोवाचवाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवःहव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य चसर्वासूनां च वायोश्च तन्नासे परमायणेअश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोःरूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणीकर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोःतद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम्त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हिरोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतःकेशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम्बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम्विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य चसर्वकामवरस्यापि हरेश्चरण आस्पदम्अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेःपुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेःपायुर्यमस्य मित्रस्य परिमोक्षस्य नारदहिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतःपराभूतेरधर्मस्य तमसश्चापि पश्चिमःनाड्यो नदनदीनां च गोत्राणामस्थिसंहतिःअव्यक्तरससिन्धूनां भूतानां निधनस्य चउदरं विदितं पुंसो हृदयं मनसः पदम्धर्मस्य मम तुभ्यं च कुमाराणां भवस्य चविज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम्अहं भवान्भवश्चैव त इमे मुनयोऽग्रजाःसुरासुरनरा नागाः खगा मृगसरीसृपाःगन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाःपशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाःअन्ये च विविधा जीवाजलस्थलनभौकसःग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवःसर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत्तेनेदमावृतं विश्वं वितस्तिमधितिष्ठतिस्वधिष्ण्यं प्रतपन्प्राणो बहिश्च प्रतपत्यसौएवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान्सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्महिमैष ततो ब्रह्मन्पुरुषस्य दुरत्ययःपादेषु सर्वभूतानि पुंसः स्थितिपदो विदुःअमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसुपादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमाःअन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतःसृती विचक्रमे विश्वम्साशनानशने उभेयदविद्या च विद्या च पुरुषस्तूभयाश्रयःयस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकःतद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवातपन्यदास्य नाभ्यान्नलिनादहमासं महात्मनःनाविदं यज्ञसम्भारान्पुरुषावयवानृतेतेषु यज्ञस्य पशवः सवनस्पतयः कुशाःइदं च देवयजनं कालश्चोरुगुणान्वितःवस्तून्योषधयः स्नेहा रसलोहमृदो जलम्ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तमनामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि चदेवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रमेव चगतयो मतयश्चैव प्रायश्चित्तं समर्पणम्पुरुषावयवैरेते सम्भाराः सम्भृता मयाइति सम्भृतसम्भारः पुरुषावयवैरहम्तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम्ततस्ते भ्रातर इमे प्रजानां पतयो नवअयजन्व्यक्तमव्यक्तं पुरुषं सुसमाहिताःततश्च मनवः काले ईजिरे ऋषयोऽपरेपितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम्नारायणे भगवति तदिदं विश्वमाहितम्गृहीतमायोरुगुणः सर्गादावगुणः स्वतःसृजामि तन्नियुक्तोऽहं हरो हरति तद्वशःविश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्इति तेऽभिहितं तात यथेदमनुपृच्छसिनान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम्न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिःन मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिःसोऽहं समाम्नायमयस्तपोमयः प्रजापतीनामभिवन्दितः पतिःआस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवःनतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम्यो ह्यात्ममायाविभवं स्म पर्यगाद्यथा नभः स्वान्तमथापरे कुतःनाहं न यूयं यदृतां गतिं विदुर्न वामदेवः किमुतापरे सुराःतन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महेयस्यावतारकर्माणि गायन्ति ह्यस्मदादयःन यं विदन्ति तत्त्वेन तस्मै भगवते नमःस एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजःआत्मात्मन्यात्मनात्मानं स संयच्छति पाति चविशुद्धं केवलं ज्ञानं प्रत्यक्सम्यगवस्थितम्सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम्ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाःयदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम्आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्चद्रव्यं विकारो गुण इन्द्रियाणि विराट्स्वराट्स्थास्नु चरिष्णु भूम्नःअहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्चस्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाःगन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाःये वा ऋषीणामृषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राःअन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाःयत्किञ्च लोके भगवन्महस्वदोजःसहस्वद्बलवत्क्षमावत्श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम्प्राधान्यतो यानृष आमनन्ति लीलावतारान्पुरुषस्य भूम्नःआपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान्सुपेशान् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP