संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्रीमद् भागवत पुराण|द्वितीयः स्कन्धः| अध्यायः ४ द्वितीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ द्वितीय स्कन्धः - अध्यायः ४ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ४ Translation - भाषांतर नारद उवाचदेवदेव नमस्तेऽस्तु भूतभावन पूर्वजतद्विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम्यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभोयत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतःसर्वं ह्येतद्भवान्वेद भूतभव्यभवत्प्रभुःकरामलकवद्विश्वं विज्ञानावसितं तवयद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकःएकः सृजसि भूतानि भूतैरेवात्ममाययाआत्मन्भावयसे तानि न पराभावयन्स्वयम्आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमःनाहं वेद परं ह्यस्मिन्नापरं न समं विभोनामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतःस भवानचरद्घोरं यत्तपः सुसमाहितःतेन खेदयसे नस्त्वं पराशङ्कां च यच्छसिएतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वरविजानीहि यथैवेदमहं बुध्येऽनुशासितः ब्रह्मोवाचसम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम्यदहं चोदितः सौम्य भगवद्वीर्यदर्शनेनानृतं तव तच्चापि यथा मां प्रब्रवीषि भोःअविज्ञाय परं मत्त एतावत्त्वं यतो हि मेयेन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम्यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाःतस्मै नमो भगवते वासुदेवाय धीमहियन्मायया दुर्जयया मां वदन्ति जगद्गुरुम्विलज्जमानया यस्य स्थातुमीक्षापथेऽमुयाविमोहिता विकत्थन्ते ममाहमिति दुर्धियःद्रव्यं कर्म च कालश्च स्वभावो जीव एव चवासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तत्त्वतःनारायणपरा वेदा देवा नारायणाङ्गजाःनारायणपरा लोका नारायणपरा मखाःनारायणपरो योगो नारायणपरं तपःनारायणपरं ज्ञानं नारायणपरा गतिःतस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनःसृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितःसत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयःस्थितिसर्गनिरोधेषु गृहीता मायया विभोःकार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाःबध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाःस एष भगवांल्लिङ्गैस्त्रिभिरेतैरधोक्षजःस्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरःकालं कर्म स्वभावं च मायेशो मायया स्वयाआत्मन्यदृच्छया प्राप्तं विबुभूषुरुपाददेकालाद्गुणव्यतिकरः परिणामः स्वभावतःकर्मणो जन्म महतः पुरुषाधिष्ठितादभूत्महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात्तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकःसोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधावैकारिकस्तैजसश्च तामसश्चेति यद्भिदाद्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभोतामसादपि भूतादेर्विकुर्वाणादभून्नभःतस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोःनभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलःपरान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम्वायोरपि विकुर्वाणात्कालकर्मस्वभावतःउदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत्तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम्रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात्विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत्परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितःवैकारिकान्मनो जज्ञे देवा वैकारिका दशदिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाःतैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन्ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौश्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवःयदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाःयदायतननिर्माणे न शेकुर्ब्रह्मवित्तमतदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताःसदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदःवर्षपूगसहस्रान्ते तदण्डमुदके शयम्कालकर्मस्वभावस्थो जीवो ञ्जीवमजीवयत्स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतःसहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान्यस्येहावयवैर्लोकान्कल्पयन्ति मनीषिणःकट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिःपुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवःऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायतभूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितःहृदा स्वर्लोक उरसा महर्लोको महात्मनःग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात्मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनःतत्कट्यां चातलं कॢप्तमूरुभ्यां वितलं विभोःजानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम्महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम्पातालं पादतलत इति लोकमयः पुमान्भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितःस्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP