वेदान्त परिभाषा - उपमानम्

धर्मराज अध्वरीन्द्र विरचित वेदान्त परिभाषा ग्रंथ वेद जाणून घेण्यासाठी उत्तम आहे.


अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानम् । तथा हि -नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवेयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः "अयं पिण्डो गोसदृशः " इति । तदनन्तरं च भवति निश्चयः "अनेन सदृशी मदीया "गौः "इति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं करणम् गोनिष्ठगवयसादृश्यज्ञानं फलम् । न चेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात् । नाप्यनुमानेन गवयनिष्ठगोसादृश्यस्य अतल्लिङ्गत्वात् । नापि मदीया गौरेतद्गवयसदृशी एनन्निष्ठसादृश्यप्रतियोगित्वात् यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः यथा मैत्रनिष्ठसादृश्यप्रतियोगी चत्रो मैत्रसदृशः - इत्यनुमानात् तत्सम्भवैति वाच्यम् । एवंविधानुमानानवतारेऽपि "अनेन सदृशी मदीया गौः "इति प्रतीतेरनुभवसिद्धत्वात् "उपमिनोमि "इत्यनुव्यवसायाच्च । तस्मादुपमानं मानान्तरम् ।
इति वेदान्तपरिभाषायामुपमानपरिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP