वेदान्त परिभाषा - अनुमानम्

धर्मराज अध्वरीन्द्र विरचित वेदान्त परिभाषा ग्रंथ वेद जाणून घेण्यासाठी उत्तम आहे.


अथानुमानं निरूप्यते । अनुमितिकरणमनुमानम् । अनुमितिश्च व्याप्तिज्ञानत्वेन व्याप्तिज्ञानजन्या । व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन तज्जन्यत्वाभावान्नानुमितित्वम् । अनुमितिकरणं च व्याप्तिज्ञानम् । तत्संस्कारोऽवान्तरव्यापारः । न तु तृतीयलिङ्गपरामर्शोऽनुमितौ करणम् तस्यानुमितिहेतुत्वासिद्ध्या तत्करणत्वस्य दूरनिरस्तत्वात् । न च संस्कारजन्यत्वेनानुमितेः स्मृतित्वापत्तिः स्मृतिप्रागभावजन्यत्वस्य संस्कारमात्रजन्यत्वस्य वा स्मृतित्वप्रयोजकतया संस्कारध्वंससाधारणसंस्कारजन्यत्वस्य तदप्रयोजकत्वात् । न च यत्र व्याप्तिस्मरणादनुमितिस्तत्र कथं संस्कारोहेतुरिति वाच्यम् व्याप्तिस्मृतिस्थलेऽपि तत्संस्कारस्यैवानिमितिहेतुत्वात् । नहि स्मृतेः संस्कारनाशकत्वनियमः स्मृतिधारादर्शनात् । न चानुबुद्धसंस्कारादप्यनुमित्यापत्तिः तदुद्बोधस्यापि सहकारित्वात् । एवं च "अयं धूमवान् "इति पक्षधर्मताज्ञाने "धूमो वह्निव्याप्यः "इत्यनुभवाहितसंस्कारोद्बोधे च सति "वह्निमान् " इत्यनुमितिर्भवति । न तु मध्ये व्याप्तिस्मरणम् तज्जन्यं "वह्निव्याप्यधूमवानयम् "इत्यादि विशिष्टज्ञानं वा हेतुत्वेन कल्पनीयम् गौरवान्मानाभावाच्च । तच्च व्याप्तिज्ञानं वह्निविषयकज्ञानांश एव करणम् न तु पर्वतविषयकज्ञानांश इति "पर्वतो वह्निमान् "इति ज्ञानस्य वह्न्यंश एव अनुमितित्वम् न पर्वतांशे तदंशे प्रत्यक्षत्वस्योपपादितत्वात् । व्याप्तिश्चाशेषसाधनाश्रयाश्रितसाध्यसामानाधिकरण्यरूपा । सा च व्यभिचारादर्शने सति सहचारदर्शनेन गृह्यते । तच्च सहचारदर्शनं भूयोदर्शनं सकृद्दर्शनं वेति विशेषो नादरणीयः सहचारदर्शनस्यैव प्रयोजकत्वात् । तच्चानुमानमन्वयिरूपमेकमेव । न तु केवलान्वयि सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः । नाप्यनुमानस्य व्यतिरेकिरूपत्वम् साध्याभावे साधनाभाव- निरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगात् । कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्ति- ज्ञानादनुमितिः । अर्थापत्तिप्रमाणादिति वक्ष्यामः । अत एवानुमानस्य नान्वयव्यतिरेकिरूपत्वम् व्यतिरेकव्याप्तिरूपत्वम् व्यतिरेकव्याप्तिज्ञानस्य अनुमित्यहेतुत्वात् । तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थन्तूक्तमेव परार्थन्तु न्यायसाध्यम् । न्यायो नामावयवसमुदायः । अवयवश्च त्रय एव - प्रतिज्ञाहेतूदाहरणरूपाः उदाहरणोपनयनिगमनरूपा वा । न तु पञ्च अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधिकवयव- द्वयस्य व्यर्थत्वात् । एवमनुमाने निरूपिते तस्माद् ब्रह्मभिन्ननिखिलप्रपञ्चस्य मिथ्यात्वसिद्धिः । तथाहि -ब्रह्मभिन्नं सर्वं मिथ्या ब्रह्मभिन्नत्वात् यदेवं तदेवम् यथा शुक्तिरूप्यम् । न च दृष्टान्तसिद्धिः तस्य साधितत्वात् । न चाप्रयोजकत्वम् शुक्तिरूप्यरज्जुसर्पादीनां मिथ्यात्वे ब्रह्मभिन्नत्वस्यै लाघवेन प्रयोजकत्वात् । मिथ्यात्वं च स्वाश्रयत्वेनाभिमत-यावन्निष्ठात्यन्ताभावप्रतियोगित्वम् । 'अभिमत '-पदं वस्तुतः स्वाश्रयाप्रसिद्ध्याऽसम्भववारणाय 'यावत् '-पदमर्थान्तरवारणाय । तदुक्तम् - "सर्वेषामपि भावाना् स्वाश्रयत्वेन सम्मते । प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता ॥"इति । यद्वा अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात् पटान्तरवत् -इत्याद्यनुमानं मिथ्यात्वे प्रमाणम् । तदुक्तम् - "अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः । अंशित्वादितरांशीव दिगेषैव गुणादिषु ॥"इति । न च घटादेर्मिथ्यात्वे "सन् घटः "इति प्र्त्यक्षेण बाधः अधिष्ठानब्रह्मसत्तयास्तत्र विषयतया घटादेः सत्यत्वासिद्धेः । न च नीरूपस्य ब्रह्मणः कथं चाक्ष्षादिज्ञान्विषयतेति वाच्यम् नीरूपस्यापि रूपादेः प्रत्यक्षविषयत्वात् । न च नीरूपस्य द्रव्यस्य चक्षुराद्ययोग्यत्वमिति नियमः मन्मते ब्रह्मणो द्रव्यत्यासिद्धेः । गुणाश्रयत्वं समवायिकारणत्वं वा द्रव्यत्वम् इति तेऽभिमतम् । न हि निर्गुणस्य ब्रह्मणो गुणाश्रयता नापि समवायिकारणता समवायासिद्धेः । अस्तु वा द्रव्यत्वं ब्रह्मणः तथापि नीरूपस्य कालस्येव चाक्षुषादि - ज्ञानविषयत्वे न विरोधः । यद्वा त्रिविधं सत्त्वम् -पारमार्थिकं व्यावहारिकं प्रातिभासिकं चेति । पारमार्थिकं सत्त्वं ब्रह्मणः व्यावहारिकं सत्त्वमाकाशादेः प्रातिभासिकं सत्त्वं शुक्तिरजतादेः । तथा च "घटः सन् "इति प्रत्यक्षस्य व्यावहारिकसत्त्वविषयत्वेन प्रामाण्यम् । अस्मिन् पक्षे घटादेर्ब्रह्मणि निषेधो न स्वरूपेण किन्तु पारमार्थिकत्वेनैवेति न विरोधः । अस्मिन् पक्षे च मिथ्यात्वलक्षणे पारमार्थिकत्वावच्छिन्नप्रतियोगिताकत्व - मत्यन्ताभावविशेषणं द्रष्टव्यम् । तस्मादुपपन्नं मिथ्यात्वानुमानमिति ।
इति वेदान्तपरिभाषायामनुमानपरिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP