वेदान्त परिभाषा - प्रत्यक्ष प्रमाणम्

धर्मराज अध्वरीन्द्र विरचित वेदान्त परिभाषा ग्रंथ वेद जाणून घेण्यासाठी उत्तम आहे.


यदविद्याविलासेन भूतभौतिकसृष्टयः । तं नौमि परमात्मानं सच्चिदानन्दविग्रहम् ॥१॥ यदन्तेवासिपञ्चास्यैर्निरस्ता भेदिवारणाः । तं प्रणौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम् ॥२॥ श्रीमद्वेङ्कटनाथाख्यान् वेलाङ्गुडिनिवासिनः । जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान् ॥३॥ येन चिन्तामणौ टीका दशटीकाविभञ्जिनी । तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा ॥४॥ टीका शशधरस्यापि बालव्युत्पत्तिदायिनी । पदयोजनया पञ्चपादिका व्याकृता तथा ॥५॥ तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी । धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते ॥६॥ इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः, "न स पुनरावर्तते" इत्यादिश्रुत्या तस्यैव नित्यत्वावगमात्, इतरेषां त्रयाणां प्रत्यक्षेण, "तद्यथेह कर्मजितो लोकः क्षीयते, एवमेवामुत्र पुण्यजितो लोकः क्षीयते" इत्यादिश्रुत्या च अनित्यत्वावगमाच्च । स च ब्रह्माज्ञानादिति ब्रह्म तज्ज्ञानं तत्प्रमाणञ्च सप्रपञ्चं निरूप्यते । तत्र प्रमाकरणं प्रमाणम् । तत्र स्मृतिव्यावृत्तं प्रमात्वमनधिगतावाधितार्थविषयकज्ञानत्वम् । स्मृतिसाधारणन्तु अवाधितार्थविषयकज्ञानत्वम् । नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन, धारावाहिकबुद्धेरपि पूर्वपूर्वज्ञानाविषय-तत्तत्क्षणविशेषविषयकत्वेन न तत्राव्याप्तिः । किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः, किन्तु यावद्घटस्फुरणं तावद्घटाकारान्तःकरणवृत्तिरेकैव, न तु नाना, वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात्; तथा च तत्प्रतिफलितचैतन्यरूपं घटादिज्ञानमपि तत्र तावत्कालीनमेकमेव इति नाव्याप्तिशङ्कापि । ननु सिद्धान्ते घटादेर्मिथ्यात्वेन बाधितत्वात् कथं तज्ज्ञानं प्रमाणम् ? उच्यते । ब्रह्मसाक्षात्कारानन्तरं हि घटादीनां बाधः, "यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्" इति श्रुतेः । न तु संसारदशायां बाधः, "यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति"इति श्रुतेः । तथा च 'अबाधित'-पदेन संसारदशायामबाधितत्वं विवक्षितम्, इति न घटादिप्रमायमव्याप्तिः । तदुक्तम् - "देहात्मप्रत्ययो यद्वत् प्रमाणत्नेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणान्त्वाऽऽत्मनिश्चयात् ॥"इति । 'आ आत्मनिश्चयात्'-ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः. 'लौकिकम्'इति घटादिज्ञानमित्यर्थः । तानि च प्रमाणानि षट् -प्रत्यक्षानुमानौपमानागम- अर्थापत्तिअनुपलब्धिभेदात् । तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् । प्रत्यक्षप्रमा चात्र चैतन्यमेव, "यत् साक्षादपरोक्षाद् ब्रह्म"इति श्रुतेः । 'अपरोक्षादि'त्यस्य अपरोक्षमित्यर्थः । ननु चैतन्यमनादि तत् कथं चक्षुरादेस्तत्करणत्वेन प्रमाणत्वमिति । उच्यते । चैतन्यस्यानादित्वेऽपि तदभिव्यञ्जक-अन्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिना जायते इति वृत्तिविशिष्टं चैतन्यमादिमदित्युच्यते ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः । तदुक्तं विवरणे "अन्तःकरणवृत्तौ ज्ञानत्वोपचारात्". ननु निरवयवस्यान्तःकरणस्य परिणामात्मिका वृत्तिः कथम्? इत्थम् । न तावदन्तःकरणम् निरवयवम्, सादिद्रव्यत्वेन सावयवत्वात् । सादित्वञ्च "तन्मनोऽसृजत"इत्यादिश्रुतेः । वृत्तिरूपज्ञानस्य मनोधर्मत्वे च "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्र्भीरित्येतत् सर्वं मन एव "इति श्रुतिर्मानम् , 'धी'-शब्देन वृत्तिरूपज्ञानाभिधानात् । अत एव कामादेरपि मनोधर्मत्वम् ॥ ननु कामादेरन्तःकरणधर्मत्वे, "अहमिच्छामि, अहं जानामि, अहं बिभेमि"इत्याद्यनुभव आत्मधर्मत्वमवगाहमानः कथमुपपद्यते ? उच्यते । अयःपिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्म्याध्यासाद् यथा "अयो दहति"इति व्यवहारः तथा सुखाद्याकारपरिणाम्यन्तः-करणैक्याध्यासात् "अहं सुखी, अहं दुःखी"इत्यादि व्यवहारः । ननु अन्तःकरणस्येन्द्रियतयाऽतीन्द्रियत्वात् कथं प्रत्यक्षविषयतेति । उच्यते । न तावदन्तःकरणमिन्द्रियमित्यत्र मानमस्ति । "मनःषष्ठानीन्द्रियाणि"इति भगवद्गीतावचनं प्रमाणमिति चेत् न अनिन्द्रियेणापि मनसा षट्त्वसंख्यापूरणाविरोधात् । नहीन्द्रियगतसंख्यापूरणमिन्द्रियेनैवेति नियमः "यजमानपञ्चमा इडां भक्षयन्ति"इत्यत्र ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजाऽपि यजमानेन "वेदानध्यापयामास महाभारतपञ्चमान्" इत्यादौ च वेदगतपञ्चत्वसंख्याया अवेदेनापि भारतेन पूरणदर्शनात् "इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः"इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च । न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य साक्षात्त्वं न स्यात् इन्द्रियाजन्यत्वादिति वाच्यम् । नहीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम् अनुमित्यादेरपिमनोजन्यतया साक्षात्त्वापत्तेः ईश्वरज्ञानस्यानिन्द्रियजन्यस्य साक्षात्त्वानापत्तेश्च । सिद्धान्ते प्रत्यक्षत्वप्रयोजकं किमिति चेत् किं ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि किंवा विषयगतस्य । आद्ये प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेद इति ब्रूमः । तथाहि त्रिविधं चैतन्यम् - विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम् अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् अन्तःकरणवच्छिन्नं चैतन्यं प्रमातृचैतन्यम् । तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु अन्तःकरणस्य न वह्न्यादिदेशगमनम् वह्न्यादेश्चक्षुराद्यसन्निकर्षात् । तथा च "अयं घटः" इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात् तदुभयावच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोः एकदेशस्थत्वेन भेदाजनकत्वात् । अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद्भिद्यते । तथा च "अयं घटः "इति घटप्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटांशे प्रत्यक्षत्वम् । सुखाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य च नियमेनैकदेशस्थितोपाधिद्वयावच्छिन्नत्वात् नियमेन "अहं सुखी"इत्यादिज्ञानस्य प्रत्यक्षत्वम् । नन्वेवं स्ववृत्तिसुखादिस्मरणस्यापि सुखाद्यंशे प्रत्यक्षत्वापत्तिरिति चेत् न तत्र स्मर्यमाणसुखस्यातीतत्वेन स्मृतिरूपान्तःकरणवृत्तेर्वर्तमानत्वेन तत्रोपाध्योर्भिन्नकालीनतया तत्तदवच्छिन्नचैतन्ययोर्भेदात् । उपाध्योरेकदेशस्थत्वे सति एककालीनत्वस्यैवोपाधेयाभेदप्रयोजकत्वात् । यदि चैकदेशस्थत्वमात्रमुपधेयाभेदप्रयोजकम् तदा "अहं पूर्वं सुखी"इत्यादिस्मृतावतिव्याप्तिवारणाय वर्तमातत्वं विषय-विशेषणं देयम् । नन्वेवमपि स्वकीयधर्माधर्मौ वर्तमानौ यदा शब्दादिना ज्ञायते तदा तादृशशाब्दज्ञानादावतिव्याप्तिः तत्र धर्माद्यवच्छिन्न-तद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वादिति चेत् न । योग्यत्वस्यापि विषयविशेषणत्वात् । अन्तःकरणधर्मत्वाविशेषेऽपि किञ्चिदयोग्यमित्यत्र फलवलकल्प्यः स्वभाव एव शरणम् । अन्यथा न्यायमतेऽप्यात्मधर्मत्वाविशेषात् सुखादिवत् धर्मादेरपि प्रत्यक्षत्वापत्तिर्दुर्वारा । न चैवमपि सुखस्य वर्तमानतादशायां "त्वं सुखी "इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षता स्यादिति वाच्यम् इष्टत्वात् । "दशमस्त्वमसि "इत्यादौ सन्निकृष्टविषये शब्दादप्यपरोक्षज्ञानाभ्युपगमात् । अत एव "पर्वतो वह्निमान् "इत्यादिज्ञानमपि बह्वंशे परोक्षम् पर्वतांशेऽपरोक्षम् पर्वताद्यवच्छिन्नचैतन्यस्य बहिर्निःसृतान्तःकरणवृत्त्यवच्छिन्नचैतन्याभेदात् । वह्न्यंशे तु अन्तःकरणवृत्तिनिर्गमनाभावेन वह्न्यवच्छिन्न- चैतन्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात् । तथाचानुभवः "पर्वतं पश्यामि""वह्निमनुमिनोमि " इति । न्यायमते तु "पर्वतमनुमिनोमि "इत्युनुव्यवसायापत्तिः । असन्निकृष्टपक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं परोक्षम् । "सुरभि चन्दनम्"इत्यादिज्ञानमपि चन्दनखण्डांशेऽपरोक्षम् सौरभांशे च परोक्षम् सौरभस्य चक्षुरिन्द्रियायोग्यतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात् । न चैवमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगमे तयोर्जातित्वं न स्यादिति वाच्यम् इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतयाऽप्रामाणिकत्वात् । "घटोऽयम्"इत्यादिप्रत्यक्षं हि घटत्वादिसद्भावे मानम् न तु तस्य जातित्वेपि जातित्वरूपसाध्यप्रसिद्धौ तत्साधकानुमानस्याप्यनवकाशात् । समवायासिद्धया ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य घटत्वादावसिद्धेश्च । एवमेवोपाधित्वं निरसनीयम् । "पर्वतो वह्निमान्"इत्यादौ च पर्वतांशे वह्न्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न कश्चित् विरोधः । तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्यभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् । घटादेर्विषयस्य प्रत्यक्षत्वन्तु प्रमात्रभिन्नत्वम् । ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्यभेदः "अहमिदं पश्यामि"इति भेदानुभवविरोधादिति चेत् उच्यते । प्रमात्रभेदो नाम न तावदैक्यम् किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा च घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव घटादिसत्ता अधिष्ठानसत्तातिरिक्तया आरोपितसत्तायानङ्गीकारात् । विषयचैतन्यं च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यैस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्येति सिद्धं घटादेरपरोक्षत्वम् अनुमित्यादिस्थले त्वन्तःकरणस्य वह्न्यादिदेशनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्यात्मकतया वह्न्यादिसत्ता प्रमातृसत्तातो भिन्ना इति नातिव्याप्तिः । नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले धर्माधर्मयोः प्रत्यक्षत्वापत्तिः धर्माद्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया धर्मादिसत्तायाः प्रमातृसत्तानतिरेकादिति चेत् न योग्यत्वस्यापि विशेषविशेषणत्वात् । नन्वेवमपि "रूपी घटः"इति प्रत्यक्षस्थले घटगतपरिमाणादेः प्रत्यक्षत्वापत्तिः रूपावच्छिन्नचैतन्यस्य परिमाणाद्यवच्छिन्नचैतन्यस्य चैकतया रूपावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेदे परिमाणाद्यवच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया परिमाणादिमत्तायाः प्रमातृसत्तातिरिक्त्तत्वाभावात् इति चेत् न तत्तदाकारवृत्त्युपहितत्वस्यापि प्रमातृविशेषणत्वात् । रूपाकारवृत्तिदशायां परिमाणाद्याकारवृत्त्यभावेन अतिव्याप्त्यभावात् । नन्वेवं वृत्तावव्याप्तिः अनवस्थाभिया वृत्तिगोचरवृत्त्यनङ्गीकारेण तत्र स्वाकारवृत्त्युपहितत्वघटितोक्तलक्षणाभावात् इति चेत् न । अनवस्थाभिया वृत्तेर्वृत्त्यन्तराविषयत्वेऽपि स्वविषयत्वाभ्युपगमेन स्वविषयवृत्त्युपहितप्रमातृचैतन्याभिन्नसत्ताकत्वस्य तत्रापि भावात् । एवाञ्चान्तःकरणतद्धर्मादीनां केवलसाक्षिविषयत्वेऽपि तत्तदाकारवृत्त्यभ्युपगमेन उक्तलक्षणस्य तत्रापि सत्तान्नाव्याप्तिः । न चान्तःकरणतद्धर्मादीनं वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिविषयत्वाभ्युपगमविरोध इति वाच्यम् । न हि वृत्तिं विना साक्षिविषयत्वं केवलसाक्षिवेद्यत्वम् किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वम् अत एवाहङ्कारटीकायामाचार्यैरहमाकारान्तः- करणवृत्तिरङ्गीकृता । अत एव च प्रातिभासिकरजतस्थले रजताकाराविद्यावृत्तिः साम्प्रदायिकैरङ्गीकृता । तथाचान्तःकरणतद्धर्मादिषु केवलसाक्षिवेद्येषु वृत्त्युपहितत्वघटितलक्षणस्य सत्त्वान्नाव्याप्तिः । तदयं निर्गलितार्थः - "स्वाकारवृत्त्युपहित- प्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् ।" तत्र संयोग-संयुक्ततादात्म्यादीनां सन्निकार्षाणां चैतन्याभिव्यञ्जकवृत्तिजनने विनियोगः । सा च वृत्तिश्चतुर्विधा -संशयो निश्चयो गर्वः स्मरणमिति । एवंविधवृत्तिभेदेन एवमप्यन्तःकरणं मन इति बुद्धिरिति अहङ्कार इति चित्तमिति चाख्यायते । तदुक्तम् - "मनोबुद्धिरहङ्कारश्चित्तं करणमन्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥" तच्च प्रत्यक्षं द्विविधम् सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहि ज्ञानम् । यथा "घटमहं जानामि"इत्यादिज्ञानम् । निर्विकल्पकन्तु संसर्गानवगाहि ज्ञानम् । यथा "सोऽयं देवदत्तः""तत्त्वमसि"इत्यादिवाक्यजन्यं ज्ञानम् । ननु शाब्दमिदं ज्ञानम् न प्रत्यक्षम् इन्द्रियाजन्यत्वात् इति चेत् न । नहि इन्द्रियजन्यत्वं प्रत्यक्षत्वे तन्त्रम् दूषितत्वात् किन्तु योग्यवर्तमानविषयकत्वे सति प्रमाणचैतन्यस्य विषयचैतन्याभिन्नत्वमित्युक्तम् । तथाच "सोऽयं देवदत्तः"इति वाक्यजन्यज्ञानस्य सन्निकृष्टविषयतया बहिर्निःसृतान्तःकरणवृत्त्य-भ्युपगमेन देवदत्तवच्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्याभिन्नतया "सोऽयं देवदत्तः"इति वाक्यजन्यज्ञानस्य प्रत्यक्षत्वम् । एवं "तत्त्वमसि"इत्यादिवाक्यजन्यज्ञानस्यापि तत्र प्रमातुरेव विषयतया तदुभयाभेदस्य सत्त्वात् । ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पकत्वम् ? उच्यते । वाक्यजन्यज्ञानविषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम् अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः किन्तु तात्पर्यविषयत्वम् । प्रकृते च "सदेव सोम्येदमग्र आसीत्"इत्युपक्रम्य "तत् सत्यम् स आत्मा तत्त्वमसि श्वेतकेतो" इत्युपसंहारेण विशुद्धेब्रह्मणि वेदान्तानां तात्पर्यमवसितम् इति कथं तात्पर्याविषयं संसर्गमवबोधयेत् । इदमेव "तत्त्वमसि"इत्यादिवाक्यानामखण्डार्थत्वं यत् संसर्गानवगाहियथार्थज्ञानजनकत्वमिति । तदुक्तम् । "संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥" प्रातिपदिकार्थमात्रपरत्वं वाऽखण्डार्थत्वम् इति चतुर्थपादार्थः । तच्च प्रत्यक्षं पुनर्द्विविधम् -जीवसाक्षि ईश्वरसाक्षि चेति । तत्र जीवो नाम अन्तःकरणावच्छिन्नं चैतन्यम् तत्साक्षी तु अन्तःकरणोपहितं चैतन्यम् । अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः । विशेषणञ्च कार्यान्वयि वर्तमानं व्यावर्तकम् उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च । "रूपविशिष्टोघटोऽनित्यः"इत्यत्र रूपं विशेषणम् "कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्" इत्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधिर्नैयायिकैः परिचायक इत्युच्यते । प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासकचैतन्योपाधित्वम् । अयञ्च जीवसाक्षी प्रत्यात्मं नाना एकत्वे चैत्रावगते मैत्रस्याप्यनुसन्धानप्रसङ्गः । ईश्वरसाक्षी तु मायोपहितं चैतन्यम् । तच्चैकम् तदुपाधिभूतमायाया एकत्वात् । "इन्द्रो मायाभिः पुरुरूप ईयते"इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागत- शक्तिविशेषाभिप्रायतया मायागतसत्त्वरजस्तमोरूपगुणाभि- प्रायतया वोपपत्तिः । "मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।" "तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाम तस्मै विद्यात्मने नमः ॥" "अजामेकां लोहितशुक्लकृष्णां वह्नीः प्रजा सृजमानां सरूपाः । अजो ह्येको जुषमानोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥" इत्यादि श्रुतिस्मृतिषु एकवचनेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते । ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षी । तच्चानादि तदुपाधेर्मायाया अनादित्वात् । मायावच्छिन्नं चैतन्यं च परमेश्वरः । मायाया विशेषणत्वे ईश्वरत्वं उपाधित्वे साक्षित्वं इतीश्वरत्वसाक्षित्वयोर्भेदः न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्माविष्णुमहेश्वरादिशब्दवाच्यतां भजते । ननु ईश्वरसाक्षिणोऽनादित्वे "तदैक्षत बहुस्यां प्रजायेय" इत्यादौ सृष्टिपूर्वसमये परमेश्वरस्यागन्तुकमीक्षणमुच्यमानं कथमुपपद्यते उच्यते । यथा विषयेन्द्रियसन्निकर्षादिकारणवशेन जीवोपाध्यन्तःकरणस्य वृत्तिभेदा जायन्ते तथा सृज्यमान- प्राणिकर्मवशेन परमेश्वरोपाधिभूतमायाया वृत्तिविशेषाः "इदमिदानीं स्रष्टव्यम्""इदमिदानीं पालयितव्यम्" "इदमिदानीं संहर्तव्यम् "इत्याद्याकारा जायन्ते । तासां च वृत्तीनां सादित्वात्तत्प्रतिबिम्बितचैतन्यमपि सादीत्युच्यते । एवं साक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम् । प्रत्यक्षत्वं च ज्ञेयगतं झप्तिगतं च निरूपितम् । तत्र ज्ञप्तिगतप्रत्यक्षत्वस्य सामान्यलक्षणं चित्त्वमेव "पर्वतो वह्निमान् "इत्यादावपि वह्न्यद्याकारवृत्त्युपहितचैतन्यस्य स्वात्मांशे स्वप्रकाशतया प्रत्यक्षत्वात् । तत्तद्विषयाशप्रत्यक्षत्वन्तु पूर्वोक्तमेव । तस्य च भ्रान्तिरूपप्रत्यक्षे नातिव्यापितः भ्रमप्रमासाधारणप्रत्यक्षत्व- सामान्यनिर्वचनेन तस्यापि लक्ष्यत्वात् । यदा तु प्रत्यक्षप्रमाया एव लक्षणं वक्तव्यं तदा पूर्वोक्तलक्षणेऽबाधितत्वं विषयविशेषणं देयम् । शुक्तिरूप्यादिभ्रमस्य संसारकालीनबाधविषयप्रातिभासिक- रजतादिविषयकत्वेनोक्तलक्षणाभावात् नातिव्याप्तिः । ननु विसंवादिप्रवृत्त्या भ्रान्तिज्ञातसिद्धावपि तस्य प्रातिभासिकतत्कालोत्पन्नरजतादिविषयकत्वे न प्रमाणम् देशान्तरीयरजतस्य क्लृप्तस्यैव तद्विषयत्वसम्भवादिति चेत् न तस्यासन्निकृष्टतया प्रत्यक्षविषयत्वायोगात् । न च ज्ञानं तत्र प्रत्यासत्तिः ज्ञानस्य प्रत्यासत्तित्वे तत एव वह्न्यादेः प्रत्यक्षत्वापत्तौ अनुमानाद्युच्छेदापत्तेः । ननु रजतोत्पादकानां रजतावयवादीनामभावे शुक्तौ कथं तवापि रजतमुत्पद्यते इति चेत् उच्यते । न हि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका किन्तु विलक्षणैव । तथा हि काचादिदिषदूषितलोचनस्य पुरोवर्ति- द्रव्यसंयोगादिदमाकारा चाकचिक्याकारा च काचिदन्तःकरण- वृत्तिरुदेति । तस्यां च वृत्तौ इदमवच्छिन्नचैतन्यं प्रतिबिम्बते । तत्र पूर्वोक्यरीत्या वृत्तेर्निर्गमनेन इदमवच्छिन्नचैतन्यवृत्तवच्छिन्न- चैतन्यं प्रमातृचैतन्यं चाभिन्नं भवति । ततश्च प्रमातृचैतन्या- भिन्नविषयचैतन्यनिष्ठा शुक्तित्व प्रकारिकाऽविद्या चाकचिक्यादि- सादृश्यसन्दर्शनसमुद्बोधितरजतसंस्कारसध्रीचीना काचादिदोष- समवहिता रजतरूपार्थाकारेण रजतज्ञानाभासाकारेण च परिणमते । परिणामो नाम उपादानसमसत्ताककार्यापत्तिः । विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः । प्रातिभासिकरजतञ्चाविद्यापेक्षया परिणाम इति चैतन्यापेक्षयाविवर्त इति चोच्यते । अविद्यापरिणामरूपञ्च तद्रजतमविद्याधिष्ठाने इदमवच्छिन्नचैतन्ये वर्तते अस्मन्मते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात् । ननु चैतन्यनिष्ठरजतस्य कथमिदं रजतमितिपुरवर्तिना तादात्म्यम् । उच्यते -यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलम्भः शरीरस्य सुखाद्यधिकरणतावच्छेदकत्वात् तथा चैतन्यमात्रस्य रजतं प्रत्यनधिष्ठानतया इदमवच्छिन्नचैतन्यस्य तदधिष्ठानत्वेन इदमोऽवच्छेदकतया रजतस्य पुरोवर्तिसंसर्गप्रत्यय उपपद्यते । तस्य च विषयचैतन्यस्य तदन्तःकरणोपहित चैतन्याभिन्नतया विषयचैतन्येऽध्यस्तमपि रजतं साक्षिण्यध्यस्तं केवलसाक्षिवेद्यं सुखादिवदनन्यवेद्यमिति चोच्यते । ननु साक्षिण्यध्यस्तत्वे "अहं रजतम् "इति "तद्वान् " इति वा प्रत्ययः स्यात् "अहं सुखी "इतिवत् इति चेत् उच्यते । न हि सुखादीनामन्तःकरणावच्छिन्नचैतन्यनिष्ठा- विद्याकार्यत्वप्रयुक्तम् "अहं सुखी "इति ज्ञानम् सुखादीनां घटादिवच्छुद्धचैतन्य एवाध्यासात् । किन्तु यस्य यदाकारा- नुभवाहितसंस्कारसहकृताविद्याकार्यत्वं तस्य तदाकारा- नुभवविषयत्वम् इत्येवानुगतं नियामकम् । तथा च इदमाकारानुभवाहितसंस्कारसहिताविद्याकार्यत्वाद् घटादे- रिदमाकारानुभवविषयत्वम् अहमाकारानुभवाहितसंकार- सहकृताविद्याकार्यत्वादन्तःकरणादेरहमाकारानुभवविषयत्वम् शरीरेन्द्रियादेरुभयविधानुभवसंस्कारसहिताविद्याकार्यत्वा- दुभयविधानुभवविषयत्वम् । तथाचोभयविधानुभवः -इदं शरीरम् अहं देहः अहं मनुष्यः अहं ब्राह्मणः इदं चक्षुः अहं काणः इदं श्रोत्रम् अहं बधिर इति । प्रकृते प्रातिभासिकरजतस्य प्रमातृचैतन्याभिन्नेदमवच्छिन्नचैतन्य- निष्ठाविद्याकार्यत्वेऽपि इदं रजतमिति सत्यस्थलीयेदमाकारा- नुभवाहितसंस्कारजन्यत्वाद्दिदमाकारानुभवविषयता न तु "अहं रजतम् "इत्यहमाकारानुभवविषयता इत्यनुसन्धेयम् । नन्वेवमपि मिथ्यारजतस्य साक्षात् साक्षिसम्बन्धितया भानसम्भवे रजतगोचरज्ञानाभासरूपाया अविद्यावृत्तेरभ्युपगमः किमर्थमिति चेत् उच्यते । स्वगोचरवृत्त्युपहितप्रमातृचैतन्यभिन्नसत्ताकत्वाभावस्य विषयापरोक्षत्वरूपतया रजतस्यापरोक्षसिद्धये तदभ्युपगमात् । नन्विदंवृत्ते रजताकारवृत्तेश्च प्रत्येकमेकैकविषयत्वे गुरुमतवद्विशिष्ट- ज्ञानानप्युपगमे कुतो भ्रमज्ञानासिद्धिरिति चेत् न वृत्तिद्वय- प्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यावस्तुतादात्म्यावगाहित्वेन भ्रमत्वस्वीकारात् । अत एव साक्षिज्ञानस्य सत्यासत्यविषयतया प्रामाण्यानियमादप्रामाण्योक्तिः साम्प्रदायिकानाम् । ननु सिद्धान्ते देशान्तरीयरजतमप्यविद्याकार्यमध्यस्तञ्चेति कथं शुक्तिरूप्यस्य ततो वैलक्षण्यम् इति चेत् न । त्वन्मते सत्यत्वाविशेषेऽपि केषाञ्चित् क्षणिकत्वं केषाञ्चित् स्थायित्वम् इत्यत्र यदेव नियामकं तदेव स्वभावविशेषादिकं ममापि । यद्वा घटाद्यध्यासे अविद्यैव दोषत्वेन हेतुः शुक्तिरूपाद्यध्यासे तु काचादयोऽपि दोषाः । तथाचागन्तुकदोषजन्यत्वं प्रातिभासिकत्वे प्रयोजकम् । अत एव स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादोषजन्यत्वात् । प्रातिभासिकत्वम् । ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपत्तौ न रथादिसृष्टिकल्पनम् गौरवात् इति चेत् न रथादेः स्मृतिमात्राभ्युपगमे "रथं पश्यामि ""स्वप्ने रथ- मद्राक्ष्यम् "इत्याद्यनुभवविरोधापत्तेः । "अथ रथान् रथयोगान् पथः सृजते "इति रथादिसृष्टिप्रतिपादकश्रुति- विरोधापत्तेश्च । तस्मात् शुक्तिरूप्यवत् स्वप्नोपलब्धरथादयोऽपि प्रातिभासिका यावत्प्रतिभासमवतिष्ठन्ते । ननु स्वप्ने रथाद्यधिष्ठानतयोपलभ्यमानदेशविशेषस्यापि तदाऽसन्निकृष्टतया अनिर्वचनीयप्रातिभासिकदेशोऽभ्युपगन्यव्यः तथा च रथाद्यध्यासः कुत्र इति चेत् न चैतन्यस्य स्वयम्प्रकाशस्य रथाद्यधिष्ठानत्वात् । प्रतीयमानं रथाद्यस्तीत्येव प्रतीयते इति सद्रूपेन प्रकाशमानं चैतन्यमेवाधिष्ठानम् । देशविशेषोऽपि चिदध्यस्तः प्रातिभासिकः रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकम् तदा सर्वेन्द्रियाणामुपरमात् । "अहं रथः "इत्यादिप्रतीत्यापादनन्तु पूर्ववन्निरसनीयम् । स्वप्नरथदयः साक्षान्मायापरिणामा इति केचित् । अन्तःकरणद्वारा तत्परिणामा इत्यन्ये । ननु रथादेः शुद्धचैतन्याध्यस्तत्वे इदानीं तत्साक्षा- त्काराभावेनजागरणेऽपि स्वप्नोपलब्धरथादयोऽनुवर्तेरन् । उच्यते । कार्यविनाशो हि द्विविधः कश्चिदुपादानेन सह कश्चित्तु विद्यमानएवोपादाने । आद्यो बाधः द्वितीयस्तु निवृत्तिः । आद्यस्य कारणमधिष्ठानतत्त्वसाक्षात्कारः तेन विनोपादानभूताया अविद्याया अनिवृत्तेः । द्वितीयस्य कारणं विरोधिवृत्त्युत्पत्ति- र्दोषनिवृत्तिर्वा । तदिह ब्रह्मसाक्षात्काराभावात् स्वप्नप्रपञ्चो मा बाधिष्ठ मुसलप्रहारेण घटादेरिव विरोधिप्रत्ययान्तरोदयेन स्वजनकीभूतनिद्रादिदोषनाशेन वा रथादिनिवृत्तौ को विरोधः । एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्या- कार्यत्वपक्षे शुक्तिरितिज्ञानेन तदज्ञानेन सह रजतस्य बाधः । मूलाविद्याकार्यत्वपक्षे तु मूलाविद्याया ब्रह्मसाक्षात्कारमात्र- निवर्त्यतया रजतस्य तत्र शुक्तिज्ञानान्निवृत्तिमात्रम् मुसल- प्रहारेण घटस्येव । ननु शुक्तौ रजतस्य प्रतिभाससमये प्रातिभासिकसत्ताभ्युपगमे "नेदं रजतम् "इति त्रैकालिकनिषेधज्ञानं न स्यात् किन्तु "इदानीमिदं न रजतम् "इति स्यात् "इदानीं घटः श्यामो न "इतिवत् इति चेत् न नहि तत्र रजतत्वावच्छिन्नप्रतियोगिताकाभावो निषेधधीविषयः किन्तु लौकिकपारमार्थिकत्वावच्छिन्न-प्रातिभासिकरजतप्रतियोगिताकः व्यधिकरणधर्मावच्छिन्नप्र्तैयोगिताकाभावाभ्युपगमात् । ननु प्रातिभासिके रजते पारमार्थिकत्वमवगतं न वा । अनवगमे प्रतियोगितावच्छेदकावच्छिन्नरजतस्त्त्वज्ञानाभावादभाव- प्रत्यक्षानुपपत्तिः । अवगमेऽपरोक्षावभासस्य तत्कालीनविषय- सत्तानियतत्वाद् रजते पारमार्थिकत्वमप्यनिर्वचनीयं रजतदेवोत्पन्नमिति तदवच्छिन्नरजतसत्त्वे तदवच्छिन्नाभावस्तत्र कथं वर्तत इति चेत् न पारमार्थिकत्वस्याधिष्ठाननिष्ठस्य रजते प्रतिभाससम्भवेन रजतनिष्ठपारमार्थिकत्वोत्पत्त्यनभ्युपगमात् । यत्रारोप्यमसन्निकृष्टं तत्रैव प्रातिभासिकवस्तूत्पत्तेरङ्गीकारात् । अत एव इन्द्रियसन्निकृष्टतया जवाकुसुमगतलौहित्यस्य स्फटिके भानसम्भवात् न स्फटिकेऽनिर्वचनीयलौहित्योत्पत्तिः । नन्वेवं यत्र जपाकुसुमं द्रव्यान्तरव्यवधानादसन्निकृष्टं तत्र लौहित्यप्रतीत्या प्रातिभासिकं लौहित्यं स्वीक्रियतामिति चेत् न इष्टत्वात् । एवं प्रत्यक्षभ्रमान्तरेष्वपिप्रत्यक्षसामान्यलक्षणानुगमो यथार्थप्रत्यक्षलक्षणासद्भावश्च दर्शनीयः । उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधम् -इन्द्रियजन्यं तदजन्यं चेति । तत्रेन्द्रियाजन्यं सुखादित्रत्यक्षम् मनस इन्द्रियत्वनिराकरणात् । इन्द्रियाणि पञ्च घ्राणरसनचक्षुःश्रोत्रत्वगात्मकानि । सर्वाणि चेन्द्रियाणि स्वस्वविषयसंयुक्तान्येव प्रत्यक्षज्ञानं जनयन्ति । तत्र घ्राणरसनत्वगिन्द्रियाणि स्वस्थानस्थितान्येव गन्धरस- स्पर्शोपलम्भान् जनयन्ति चक्षुःश्रोत्रे तु स्वत एव विषयदेशं गत्वा स्वस्वविषयं गृह्णीतः श्रोत्रस्यापि चक्षुरादिवत् परिच्छिन्नतयाभेर्यादिदेशगमनसम्भवात् । अत एवानुभवो "भेरीशब्दो मया श्रुतः "इति । वीचितरङ्गादिन्यायेन कर्णशष्कुलीप्रदेशेऽनन्तशब्दोत्पत्तिकल्पनायां गौरवम् "भेरीशब्दो मया श्रुतः"इति प्रत्यक्षस्य भ्रमत्वकल्पनायां गौरवं च स्यात् । तदेवं व्याख्यातं प्रत्यक्षम् ।
इति वेदान्तपरिभषायां प्रत्यक्षपरिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP