अनुषङ्गापादः - अध्यायः ११

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सूत उवाच॥
भृगोः ख्यातिर्विजज्ञे वै ईश्वरौ सुखदुःखयोः॥
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह ॥१॥

देवौ धातृविधातारौ मन्वंतरविचारिणौ॥
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी ॥२॥

सा तु नारायणं देवं पति मासद्य शोभना॥
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम् ॥३॥

बलस्य तेजः पुत्रस्तु उन्मादस्य तु संशयः॥
तस्याऽन्ये मानसाः पुत्रा आसन् व्योमविचारिणः ॥४॥

ये वहंति विमानानि देवानां पुण्यकर्मणाम्॥
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च ॥५॥

आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ॥
प्राणश्चैव मृकंडश्च ब्रह्मकोशौ सनातनौ ॥६॥

मनस्विन्यां मृकंडस्य मार्कंडेयो बभूव ह॥
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत ॥७॥

पीवर्यां वेदशिरसः पुत्रा वशकराः स्मृताः॥
मार्कंडेयाः समाख्याता ऋषयो वेदपारगाः ॥८॥

प्राणस्य पुंडरीकायां द्युतिमानात्मजोऽभवत्॥
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ ॥९॥

तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परात्॥
स्वायंभुवेंतरेऽतीता मरीचेः श्रृणुत प्रजाः ॥१०॥

पत्नी मरीचेः संभूतिर्विजज्ञे ह्यात्मसंभंवम्॥
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत ॥११॥

कृषिर्वृष्टिस्त्विषा चैव तथा चोपचितिः शुभा॥
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत् ॥१२॥

विरजं चैव धर्मिष्ठं पर्वशं चैव तावुभौ॥
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः ॥१३॥

सुधामा स तु वैराजः प्राचीं दिशमुपा श्रितः॥
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान् ॥१४॥

पर्वशः पर्वगणनां प्रविष्टः स महायशाः॥
पर्वशः पर्वशायां तु जनया मास वै सुतौ ॥१५॥

यजुर्धाम च धीमंतं स्तंभकाश्यपमेव च॥
तयोर्गोत्रकरौ पुत्रौ जातौ संन्यासनिश्चितौ ॥१६॥

स्मृतस्त्वं गिरसः पत्नी जज्ञे सा ह्यात्मसंभवान्॥
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः ॥१७॥

सिनीवाली कुहूश्चैव राका चाऽनुमतिस्तथा॥
तथैव भरताग्निं च कीर्तिमंतं च तावुभौ ॥१८॥

अग्नेः पुत्रं च पर्जन्यं सद्वती सुषुवे तथा॥
हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत ॥१९॥

आभूतसंप्लवस्थायी लोकपालः स वै स्मृतः॥
यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ ॥२०॥

चरिष्णुं धृतिमंतं च उभावंगिरसां वरौ॥
तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः ॥२१॥

अनसूया विजज्ञे वै पंचात्रेयानकल्मषान्॥
कन्यां चैव श्रुतिं नाम माता शंखपदस्य सा ॥२२॥

कर्दसस्य तु पत्नी सा पौलहस्य प्रजापतेः॥
सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः ॥२३॥

सोमश्च पंचमस्तेषामासीत्स्वायंभुवेंतरे॥
यामदेवैस्सहातीताः पंचात्रेयाः प्रकीर्त्तिताः ॥२४॥

तेषां पुत्राश्च पौत्राश्च आत्रेयाणां महात्मनाम्॥
स्वायंभुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥२५॥

प्रीत्यां पुलस्त्यभार्यायां दाना ग्निस्तत्सुतोऽभवत्॥
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे ॥२६॥

मध्यमो देवबाहुश्च अत्रिनामा च ते त्रयः॥
स्वमा यवीयसी तेषां सद्वती नाम विश्रुता ॥२७॥

पर्जन्यजननी शुभ्रा पत्नी चाग्नेः स्मृता शुभा॥
पौलस्त्यस्य च ब्रह्मर्षेः प्रीतिपुत्रस्य धीमतः ॥२८॥

दानाच्च सुषुवे पत्नी सुजंघी चं बहून्सुतान्॥
पौलस्त्या इति विख्याताः स्मृताः स्वायंभुवेऽन्तरे ॥२९॥

क्षमा तु सुषुवे पुत्रान्पुलस्त्यस्य प्रजापतेः॥
त्रेताग्निवर्चसः सर्वे येषां कीर्त्तिः प्रतिष्ठिता ॥३०॥

कर्दमश्चोर्वरीवांश्च सहिष्णुश्चेति ते त्रयः॥
ऋषिः कनकपीठश्च शुभा कन्या च पीवरी ॥३१॥

कर्दमस्य श्रुतिः पत्नी आत्रेय्यजनयत्स्वयम्॥
पुत्रं शंखपदं नाम कन्यां काम्यां तथैव च ॥३२॥

स वै शंखपदः श्रीमाँल्लोकपालः प्रजापतिः॥
दक्षिणस्यां दिशि रतः काम्या दत्ता प्रियव्रते ॥३३॥

काम्या प्रियव्रताल्लेभे स्वायंभुवसमान्सुतान्॥
दश कन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्त्तितम् ॥३४॥

पुत्रं कनकपीठस्य सहिष्णुं नाम विश्रुतम्॥
यशोधरा विजज्ञे वै कामदेवं सुमध्यामा ॥३५॥

क्रतोः क्रतुसमान्पु त्रान् विजज्ञे संनतिः शुभान्॥
तेषां न भार्या पुत्रो वा सर्वे ते उर्द्धरेतसः ॥३६॥

तानि षष्टिसहस्राणि वालखिल्या इति श्रुताः॥
अरुणस्याग्रतो यांति परिवार्य दिवाकरम् ॥३७॥

आभूतसंप्लवात्सर्वेपतंगसहचारिणः॥
स्वसारौ तद्यवीयस्यौ पुण्या सत्यवती चते ॥३८॥

पर्वशस्य स्नुवे ते वै पूर्णमास सुतस्य तु॥
ऊर्जायां तु वसिष्ठस्य वासिष्ठाः सप्त जज्ञिरे ॥३९॥

ज्यायसी च सुता तेषां पुंडरीका सुमध्यमा॥
जननी सा द्युतिमतः प्राणस्य महिषी प्रियाः ॥४०॥

तस्यास्तु ये यवीयांसो वासिष्ठाः सप्त विश्रुताः॥
रक्षो गर्त्तोर्द्धबा हुश्च सवनः पवनश्च यः ॥४१॥

सुतपाः संकुरित्येते सर्वे सप्तर्षयः समृताः॥
रत्नो वरांग्यजनयन्मार्कंडेयी यशस्विनी ॥४२॥

प्रतीच्यां दिशि राजानं केतुमंतं प्रजापतिम्॥
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥४३॥

स्वायंभुवेऽन्तरेतीतान्यग्नेस्तु श्रृणुत प्रजाः॥
इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्त्तितः ॥४४॥

विस्तरेणानुपूर्व्याच्च अग्नेर्वक्ष्याम्यतः परम्॥
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे ऋषिसर्गवर्णनं नामैकादशोऽध्यायः॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP