संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|पूर्वभागः|अनुषङ्गापादः| अध्यायः ६ अनुषङ्गापादः अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अनुषङ्गापादः - अध्यायः ६ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ६ Translation - भाषांतर सूत उवाचइत्येवं प्रथमं पादं प्रकृत्यर्थं प्रकीर्तितम् ।श्रुत्वा तु संहृष्टमनाः कापेयः संशयायति ॥१॥आराध्य वचसा सूतं तस्यार्थ त्वपरां कथाम् ।अथ प्रबृति कल्पज्ञः प्रतिसंधिः प्रचक्षते ॥२॥समतीतस्य कल्पस्य वर्तमानस्य चानयोः ।कल्पयोरन्तरं यत्र प्रतिसंधिश्च यस्तयोः ।एतद्वेदितुमिच्छामि यथावत्कुशलो ह्यसि ॥३॥कापेयेनैवमुक्तस्तु सूतः प्रवदतां वरः ।त्रैलोक्यस्योद्भवं कृत्स्नमाख्यातुमुपचक्रमे ॥४॥सूत उवाचअत्र वै वर्णयिष्यामि याथातथ्येन सुव्रताः ।कल्पं भूतं भविष्यं च प्रतिसंधिश्च यस्तयोः ॥५॥मन्वन्तराणि कल्पेषु यानि यानि च सुव्रताः ।यश्चायं वर्तते कल्पो वाराहः सांप्रतः शुभः ॥६॥अस्मात्कल्पात्तु यः पूर्वः कल्पोऽतीतः सनातनः ।तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत ॥७॥प्रत्यागते पूर्वकल्पे प्रतिसंधिं विनानघाः ।अन्यः प्रवर्त्तते कल्पो जनलोकादयः पुनः ॥८॥व्युच्छिन्नप्रतिसंधिस्तु कल्पात्कल्पः परस्परम् ।व्युच्छिद्यन्ते प्रजाः सर्वाः कल्पान्ते सर्वशस्तदा ॥९॥तस्मात्कल्पात्तु कल्पस्य प्रतिसंधिर्न विद्यते ।मन्वन्तरे युगाख्यानामविच्छिन्नास्तु संधयः ॥१०॥परस्परात्प्रवर्तन्ते मन्वन्तरयुगैः सह ।उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः ॥११॥तेषां परार्द्धकल्पानां पूर्वे यस्मात्तु यः परः ।आसीत्कल्पे व्यतीते वै परर्द्धात्परमस्तु यः ॥१२॥कल्पास्त्वन्ये भविष्या ये ह्यपरार्द्धगुणीकृताः ।प्रथमः सांप्रतस्तेषां कल्पों यो वर्तते द्विजाः ॥१३॥अस्मिन्पूर्वे परार्द्धे तु द्वितीयः पर उच्यते ।एष संस्थितकालस्तु प्रत्याहारस्ततः स्मृतः ॥१४॥अस्मात्कल्पात्ततः पूर्वं कल्पोऽतीतः पुरातनः ।चतुर्युगसहस्रति सह मन्वन्तरैः पुरा ॥१५॥क्षीणे कल्पे ततस्तस्मिन् दाहकाल उपस्थिते ।तस्मिन्काले तदा देवा आसन्वैमानिकास्तु ये ॥१६॥नक्षत्रग्रहताराश्च चन्द्रसूर्यादयस्तु ते ।अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्म नाम् ॥१७॥मन्वन्तरे यथैकस्मिन् चतुर्द्दशसु वै तथा ।त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस्तथा ॥१८॥अथाधिकासप्त तिश्च सहस्राणां पुरा स्मृता ।एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः ॥१९॥अथ मन्वन्तरेष्वासंश्चतुर्दशसु खे दिवि ।देवाश्च पितरश्चैव ऋषयोऽमृतपास्तथा ॥२०॥तेषामनुचराश्चैव पत्न्यः पुत्रास्तथैव च ।वर्णाश्रमातिरिक्ताश्च तस्मिन्काले तु खे सुराः ॥२१॥तैस्तैः सायुज्यगैः सार्द्ध प्राप्ते वस्तुमये तदा ।तुल्यनिष्ठाभवन्सर्वे प्राप्ते ह्याभूतसंप्लवे ॥२२॥ततस्तेऽवश्यभावित्वादू बुद्ध्याः पर्या यमात्मनः ।त्रैलोक्यवासिनो देवा इह तानाभिमानिनः ॥२३॥स्थितिकाले तदा पूर्णे आसन्ने पश्चिमोत्तरे ।कल्पावसानिका देवास्त स्मिनप्राप्ते ह्युपप्लवे ॥२४॥तदोत्सुका विषादेंन त्यक्तस्थानानि भागशः ।महर्लोकाय संविग्नास्ततस्ते दधिरे मनः ॥२५॥ते युक्ता नुपपद्यन्ते महतीं च शरीरिके ।विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥२६॥तैः कल्पवासिभिः सार्द्धं महानासादितस्तदा ।ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भवैश्चापरैर्जनैः ॥२७॥गत्वा तु ते महार्लोकं देवसंघाश्चतुर्द्दश ।स्ततस्ते जनलोकाय सोद्वेगा दधिरे मनः ॥२८॥एतेन क्रमयोगेन ययुस्ते कल्पवासिनः ।एवं देवयुगानां तु सहस्राणि परस्परम् ॥२९॥विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ।तैः कल्पवासिभिः सार्द्धं जन आसादितस्तु वै ॥३०॥तत्र कल्पान्दश स्थित्वा सत्यं गच्छन्ति वै पुनः ।गत्वा ते ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम् ॥३१॥आधिपत्यं विमाने वै ऐश्वर्येण तु तत्समाः ।भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ॥३२॥तत्र ते ह्यवतिष्ठन्त प्रीतियुक्ताश्च संयमान् ।आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह ॥३३॥अवश्यभाविनार्थेन प्राकृतेनैव ते स्वयम् ।मानार्चनाभिः संबद्धास्तदा तत्कालभाविताः ॥३४॥स्वपतो बुद्धिपूर्वं तु बोधो भवति वै यथा ।तथातु भाविते सेवां तथानन्दः प्रवर्तते ॥३५॥प्रत्याहारैस्तु भोदानां येषां भिन्नानि शुष्मिणाम् ।तैः सार्द्ध वर्द्धते तेषां कार्याणि करणानि च ॥३६॥नाना त्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम् ।विनिवृत्ताधिकारणां स्वेन धर्मेण तिष्ठताम् ॥३७॥ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः ।प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः ॥३८॥प्रख्यापयित्वा चात्मानं प्रकृतिस्त्वेष तत्त्वतः ।पुरुषान्यबहुत्वेन प्रतीता तत्प्रवर्तते ॥३९॥प्रवर्तिते पुनः सर्गे तेषां साकारणात्मनाम् ।संयोगे प्रकृतिर्ज्ञैया मुक्तानां तत्त्वदर्शिनाम् ॥४०॥तत्रोपवर्गिणां तेषां न पुनर्मार्गगामिनाम् ।अभावः पुनरुत्पन्नः शान्तानामर्चिषामिव ॥४१॥ततस्तेषु गतेषूर्ध्वं त्रैलोक्येषु महात्मसु ।एतैः सार्धं महर्लोकस्तदानासादितस्तु वै ॥४२॥तच्छिष्या वै भविष्यन्ति कल्पदाह उपस्थिते ।गन्धर्वाद्याः पिशाचाश्च मानुषा ब्राह्मणादयः ॥४३॥पशवः पक्षिणस्चैव स्थावराश्च सरीसृपाः ।तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु ॥४४॥सहस्रं यत्तु रश्मीनां स्वयमेव विभाव्यते ।तत्सप्तरश्मयो भूत्वा एकैको जायते रविः ॥४५॥क्रमेणोत्तिष्टमानास्ते त्रींल्लोकान्प्रदहन्त्युत ।जङ्गमाः स्थावराश्चैवनद्यः सर्वे च पर्वताः ॥४६॥शुष्काः पूर्वमनावृष्ट्या सूर्य्यैस्ते च प्रधूपिताः ।तदा तु विवशाः सर्वे निर्दग्धाः सूर्यरश्मि भिः ॥४७॥जङ्गमाः स्थावराश्चैव धर्माधर्मात्मकास्तु वै ।दग्धदेहास्तदा ते तु धूतपापायुगान्तरे ॥४८॥ख्यातातपा विनिर्मुक्ताः शुभय चातिबन्धया ।ततस्ते ह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः ॥४९॥उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः ।पुनः सर्गे भवन्तीह मानसा ब्रह्मणः सुताः ॥५०॥ततस्तेषूपपन्नेषु जनैस्त्रैलोक्यवासिषु ।निर्दग्धेषु च लोकेषु तदा सूर्यैस्तु सप्तभिः ॥५१॥वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु च ।सामुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः ॥५२॥शरमाणा व्रजन्त्येव सलिलाख्यास्तथा नुगाः ।आगतागतिकं चैव यदा तत्सलिलं बहु ॥५३॥संछाद्येमां स्थितां भमिमर्णवाख्यं तदाभवत् ।आभाति यस्मात्स्वाभासो भाशब्दो व्याप्तिदीप्तिषु ॥५४॥सर्वतः समनुप्राप्त्या तासां चाम्भो विभाव्यते ।तदन्तस्तनुते यस्मात्सर्वां पृथ्वीं समन्त ततः ॥५५॥धातुस्तनोति विस्तारे नचैतास्तनवः स्मृताः ।शर इत्येष शीर्णे तु नानार्थो धातुरुच्यते ॥५६॥एकार्णवे भवत्यापो न शीघ्रास्तेन ते नराः ।तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि ॥५७॥तावत्काले रजन्यां च वर्तन्त्यां सलिलात्मना ।ततस्तु सलिले तास्मिन्नष्टाग्नौ पृथवीतले ॥५८॥प्रशान्तवातेऽन्धकारे निरालोके समन्ततः ।एतेनाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः ॥५९॥विभागमस्य लोकस्य प्रकर्तुं पुनरैच्छत ।एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥६०॥तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ।सहस्रशीर्षा पुरुषो रुक्मवर्णो जितेन्द्रियः ।इमं चोदाहरन्त्यत्रर्श्लोकं नारायणं प्रति ॥६१॥आपो नारास्तत्तनव इत्यर्था ननुशुश्रुम ।आपूर्यमाणास्तत्रास्ते तेन नारायणः स्मृतः ॥६२॥सहस्रशीर्षा सुमनाः सहस्रपात्सहस्रचक्षुर्वदनः सहस्रकृत् ।सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीमयोऽयं पुरुषो निरुच्यते ॥६३॥आदित्यवर्णो भुवनस्य गोप्ता एको ह्यमूर्तः प्रथमस्त्वसो विराट् ।हिरण्य गर्भः पुरुषो महात्मा संपद्यते वै मनसः परस्तात् ॥६४॥कल्पादौ रजसोद्रिक्तो ब्रह्मा भूस्त्वासृजत्प्रभुः ।कल्पान्ते तमसोद्रिक्तः कालो भूत्वाग्रसत्पुनः ॥६५॥स वै नारायणो भूत्वा सत्त्वोद्रिक्तो जलाशये ।त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्त्तते ॥६६॥सृजति ग्रसते चैव वीक्ष्यते च त्रिभिः स्वयम् ।एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥६७॥चतुर्युगसहस्रान्ते सर्वतः स जलावृते ।ब्रह्मां नारायणाख्यस्तु स चकाशे भवे स्वयम् ॥६८॥चतुर्विधाः प्रजाः सर्वा ब्रह्मशक्त्या तमोवृताः ।पश्यन्ति तं महर्लोके कालं सुप्तं महर्षयः ॥६९॥भृग्वादयो यथोद्दिष्टास्तस्मिन् काले महर्षयः ।सत्यादयस्तथा त्वष्टौ कल्पे लीने महर्षयः ।तदा विवर्त्यमानैस्तैर्महत्परिगतं पराम् ॥७०॥गत्यर्थादृषतेर्धातोर्नामनिष्पत्तिरुच्यते ।यस्मादृषतिसत्त्वेन महत्तस्मान्महर्षयः ॥७१॥महर्लोकस्थितैर्दृष्टः कालः सुप्तस्तदा च तैः ।सत्त्वाद्याः सप्त ये त्वासन्कल्पेऽतीते महर्षयः ॥७२॥एवं ब्रह्मा तासु तासु रजनीषु सहस्रशः ।दृष्टवन्तस्तदानीताः कालं सुप्तं महर्षयः ॥७३॥कल्पस्यादौ सुबहुला यस्मात्संस्थाश्चतुर्द्दश ।कल्पया मास वै ब्रह्मा तस्मात्कल्पो निरुच्यते ॥७४॥स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।व्यक्ताव्यको महादेवस्तस्य सर्वमिदं जगत् ॥७५॥इत्येष प्रतिसंबन्धः कीर्तितः कल्पयोर्द्वयोः ।सांप्रतं हि तयोर्मध्ये प्रागवस्था बभूव ह ॥७६॥कीर्तितस्तु समासेन पूर्वकल्पे यथातथम् ।सांप्रतं संप्रवक्ष्यामि कल्पमेतं निबोधत ॥७७॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये अनुषङ्गापादे कल्पमन्वन्तराख्यानवर्णनं नाम षष्ठोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP