संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|पूर्वभागः|प्रक्रियापादः| अध्यायः ५ प्रक्रियापादः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ प्रक्रियापादः - अध्यायः ५ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ५ Translation - भाषांतर श्रीसूत उवाचआपोऽग्रे सर्वगा आसन्नेनसिमन्पृथिवीतले ।शान्तवातैः प्रलीनेऽस्मिन्न प्राज्ञायत किञ्चन ॥१॥एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ।विभुर्भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ॥२॥सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः ।ब्रह्म नारायणाख्यस्तु सुष्वाप सलिले तदा ॥३॥सत्त्वोद्रेकान्निषिद्धस्तु शून्यं लोकमवैक्षत ।इमं चोदाहरन्त्यत्रर्श्लोकं नारायणं प्रति ॥४॥आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयन तस्य ताःप्रोक्तास्तेन नारायणः स्मृतः ॥५॥तुल्य युगसहस्रस्य वसन्कालमुपास्यतः ।स्वर्णपत्रेप्रकुरुते ब्रह्मत्वादर्शकारणात् ॥६॥ब्रह्म तु सलिले तस्मिन्नवाग्भूत्वा तदा चरन् ।निशायामिव खद्योतः प्रापृट्काले ततस्ततः ॥७॥ततस्तु सलिले तस्मिन् विज्ञायान्तर्गते महत् ।अनुमानादसंमूढो भूमेरद्धरणं प्रति ॥८॥ओङ्काराषृतनुं त्वन्यां कल्पादिषु यथा पुरा ।ततो महात्मा मनसा दिव्यरूपम चिन्तयत् ॥९॥सलिलेऽवप्लुतां भूमिं दृष्ट्वा स समचिन्तयत् ।किं तु रूपमहं कृत्वा सलिलादुद्धरे महीम् ॥१०॥जलक्रीडासमुचितं वाराहं रूपमस्मरत् ।उदृश्यं सर्वभूतानां वाङ्मयं ब्रह्मसंज्ञितम् ॥११॥दशयोजनविस्तीर्णमायतंशतयोजनम् ।नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ॥१२॥महापर्वतवर्ष्माणं श्वेततीक्ष्णोग्रदंष्ट्रिणाम् ।विद्युदग्निप्रतिकाशमादित्यसमतेजसम् ॥१३॥पीनवृत्तायतस्कन्धं विष्णुविक्रमगामि च ।पीनोन्नतकटीदेशं वृषलक्षणपूजितम् ॥१४॥आस्थाय रूपमतुलं वाराहममितं हरिः ।पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥१५॥दीक्षासमाप्तीष्टिदंष्ट्रःक्रतुदन्तो जुहूसुखः ।अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥१६॥वेदस्कन्धो हविर्गन्धिर्हव्यकव्यादिवेगवान् ।प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥१७॥दक्षिणा त्दृदयो योगी श्रद्धासत्त्वमयो विभुः ।उपाकर्मरुचिश्चैव प्रवर्ग्यावर्तभूषणः ॥१८॥नानाछन्दोगतिपथो गुह्योपनिषदासनः ।मायापत्नीसहायो वै गिरिशृङ्गमिवोच्छ्रयः ॥१९॥अहोरात्रेक्षणाधरो वेदाङ्गश्रुतिभूषणः ।आज्यगन्धः स्रुवस्तुण्डः सामघोषस्वनो महान् ॥२०॥सत्यधर्ममयः श्रीमान् कर्मविक्रमसत्कृतः ।प्रायश्चित्तनखो घोरः पशुजानुर्महामखः ॥२१॥उद्गातात्रो होमलिङ्गः फलबीजमहोषधीः ।वाद्यन्तरात्मसत्रस्य नास्मिकासो मशोणितः ॥२२॥भक्ता यज्ञवराहान्ताश्चापः संप्राविशत्पुनः ।अग्निसंछादितां भूमिं समामिच्छन्प्रजापतिम् ॥२३॥उपगम्या जुहावैता मद्यश्चाद्यसमन्यसत् ।मामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च ।पृथक्तास्तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् ॥२४॥प्राक्सर्गे दह्यमानास्तु तदा संवर्तकाग्निना ।देनाग्निना विलीनास्ते पर्वता भुवि सर्वशः ॥२५॥सत्यादेकार्णवे तस्मिन् वायुना यत्तु संहिताः ।निषिक्ता यत्रयत्रासंस्तत्रतत्राचलोऽभवत् ॥२६॥ततस्तेषु प्रकीर्णेषु लोकोदधिगिरींस्तथा ।विश्वकर्मा विभजते कल्पादिषु पुनः पुनः ॥२७॥ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्वताम् ।भूराद्यांश्चतुरो लोकान्पुनःपुनरकल्पयत् ॥२८॥लाकान्प्रकल्पयित्वा च प्रजासर्ग ससर्ज ह ।ब्रह्मा स्वयंभूर्भगवां सिसृक्षुर्विविधाः प्रजाः ॥२९॥ससर्ज सृष्टं तद्रूपं कल्पादिषु यथा पुरा ।तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम् ॥३०॥प्रधानसमकाले च प्रादुर्भूतस्तमो मयः ।तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः ॥३१॥अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।पञ्चधावस्थितः सर्गो ध्यायत साभिमानिनः ॥३२॥सर्वतस्तमसा चैव बीजकुंभलतावृताः ।बहिरन्तश्चाप्रकाशस्तथानिःसंज्ञ एव च ॥३३॥यस्मात्तेषां कृता बुद्धिर्दुःखानि करणानि च ।तस्माच्च संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥३४॥मुख्यसर्गे तदोद्भूतं दृष्ट्वा ब्रह्मात्मसंभवः ।अप्रती तमनाः सोथ तदोत्पत्तिममन्यत ॥३५॥तस्याभिध्यायतश्चान्यस्तिर्यक्स्रोतोऽभ्यवर्तत ।यस्मात्तिर्यग्विवर्त्तेत तिर्यकस्रोतस्ततः स्मृतः ॥३६॥तमोबहुत्वात्ते सर्वे ह्यज्ञानबहुलाः स्मृताः ।उत्पाद्यग्राहिमश्चैव तेऽज्ञाने ज्ञानमानिनः ॥३७॥अहङ्कृता अहंमाना अष्टाविंशद्द्विधात्मिकाः ।एकादशन्द्रियविधा नवधात्मादयस्तथा ॥३८॥अष्टौ तु तारकाद्याश्च तेषां शक्तिवधाः स्मृताः ।अन्तः प्रकाशास्ते सर्वे आवृताश्च बहिः पुनः ॥३९॥तिर्यक्स्रोतस उच्यन्ते वश्यात्मानस्त्रिसंज्ञकाः ॥४०॥तिर्यक्स्रोतस्तु सृष्ट्वा वै द्वितीयं विश्वमीश्वरः ।अभिप्रायमथोद्भूतं दृष्ट्वा सर्गं तथाविधम् ॥४१॥तस्याभिध्यायतो योन्त्यः सात्त्विकः समजायत ।ऊर्द्धस्रोतस्तृतीयस्तु तद्वै चोर्द्धं व्यवस्थितम् ॥४२॥यस्मादूर्द्धं न्यवर्तन्त तदूर्द्धस्रोतसंज्ञकम् ।ताः सुखं प्रीतिबहुला बहिरन्तश्च वावृताः ॥४३॥प्रकाशा बहिरन्तश्च ऊर्द्धस्रोतःप्रजाः स्मृताः ।नवधातादयस्ते वै तुष्टात्मानो बुधाः स्मृताः ॥४४॥ऊर्द्धस्रोत स्तुतीयो यः स्मृतः सर्वः सदैविकः ।ऊर्द्धस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः ॥४५॥प्रीतिमानभवद्ब्रह्मा ततोऽन्यं नाभिमन्यत ।सर्गमन्यं सिमृक्षुस्तं साधकं पुनरीश्वरः ॥४६॥तस्याभिध्यायतः सर्गं सत्याभिध्यायिनस्तदा ।प्रादुर्बभौ भौतसर्गः सोर्वाक्स्रोतस्तु साधकः ॥४७॥यस्मात्तेर्वाक्प्रवर्तन्ते ततोर्वाकूस्रोतसस्तु ते ।ते च प्रकाशबहुलास्तमस्पृष्टरजोधिकाः ॥४८॥तस्मात्ते दुःखबहुला भूयोभूयश्च कारिमः ।प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते ॥४९॥लक्षणैर्नारकाद्यैस्तैरष्टधा च व्यवस्थिताः ।सिद्धात्मानो मनुष्यास्ते गन्धर्वैः सह धर्मिणः ॥५०॥पञ्चमोऽनुग्रहः सर्गश्चतुर्द्धा स व्यवस्थितः ।विपर्ययेण शक्त्या च सिद्ध मुख्यास्तथैव च ॥५१॥निवृत्ता वर्तमानाश्च प्रजायन्ते पुनःपुनः ।भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते ॥५२॥स्वादनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते ।प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥५३॥तन्मात्राणां द्वितीयस्तु भूत सर्गः स उच्यते ।वैकारिकस्तृतीयस्तु चैद्रियः सर्ग उच्यते ॥५४॥इत्येत प्राकृताः सर्गा उत्पन्ना बुद्धिपूर्वकाः ।मुख्यसर्गश्च तुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥५५॥तिर्यक्स्रोतःससर्गस्तु तैर्यग्योन्यस्तु पञ्चमः ।तथोर्द्धस्रोतसां सर्गः षष्ठो देवत उच्यते ॥५६॥तत्रोर्द्धस्रोतसां सर्गः सप्तमः स तु मानुषः ।अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ॥५७॥पञ्चैते वैकृताः सर्गाः प्राकृताद्यास्त्रयः स्मृताः ।प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥५८॥प्रकृता बुद्धिपूर्वास्तु त्रयः सर्गास्तु वैकृताः ।दुद्धिबुर्वाः प्रवर्तेयुस्तद्वर्गा ब्राह्मणास्तु वै ॥५९॥विस्तराच्च यथा सर्वे कीर्त्यमानं निबोधत ।चतुर्द्धा च स्थितस्सोऽपि सर्वभूतेषु कृत्स्नशः ॥६०॥विपर्ययोण शत्त्या च बुद्ध्या सिद्ध्या तथैव च ।स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तितः ॥६१॥सिद्धात्मानो मनुष्यास्तु पुष्टिर्देवेषु कृत्स्नशः ।अथो ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥६२॥वैवर्त्येन तु ज्ञानेन निवृत्तास्ते महौ जसः ।संबुद्ध्य चैव नामाथो अपवृत्तास्त्रयस्तु ते ॥६३॥असृष्ट्वैव प्रजासर्गंप्रतिसर्गं ततस्ततः ।ब्रह्मा तेषु व्यरक्तेषु ततोऽन्यान्सा धकान्सृजन् ॥६४॥स्थानाभिमानिनो देवाः पुनर्ब्रह्मानुशासनम् ।अभूतसृष्ट्यवस्था चे स्थानिनस्तान्निबोध मे ॥६५॥आपोऽग्निः पृथिवी वायुरन्तरिक्षो दिवं तथा ।स्वर्गो दिशः समुद्राश्च नद्यश्चैव वनस्पतीन् ॥६६॥औषधीनां तथात्मानो ह्यात्मनो वृक्षवीरुधाम् ।लताः काष्ठाः कलाश्चैव मुहूर्ताः संधिरात्र्यहाः ॥६७॥अर्द्धमासाश्च मासाश्च अयनाब्दयुगानि च ।स्थाने स्रोतःस्वभीमानाः स्थानाख्याश्चैव ते स्मृताः ॥६८॥स्थानात्मनः स सृष्ट्वा तु ततोऽन्यान्स तदासृजत् ।देवांश्चैव पितॄंश्चैव यौरिमा वर्द्धिताः प्रजाः ॥६९॥भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।दक्षोऽत्रिश्च वसिष्ठश्च सासृजन्नव मानसान् ॥७०॥नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ।ब्रह्मा यथात्मकानां तु सर्वेषां ब्रह्मयोगिनाम् ॥७१॥ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषत्मसंभवम् ।संकल्पं चैव धर्म च सर्वेषामेव पर्वतौ ॥७२॥सोऽसृजद्व्यवसायं तु ब्रह्मा भूतं सुखात्मकम् ।संकल्पाच्चैव संकल्पो जज्ञे सोऽव्यक्तयोनिनः ॥७३॥प्राणाद्दक्षोऽसृजद्वाचं चक्षुर्भ्यां च मरीचिनम् ।भृगुश्च हृदयाज्जज्ञे ऋषिः सलिलयोनिनः ॥७४॥शिरसश्चाङ्गिराश्चैव श्रोत्रादत्रिस्तथैव च ।पुलस्त्यश्च तथोदानाद्व्यानात्तु पुलहस्तथा ॥७५॥समानतो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम् ।इत्येते ब्रह्मणः श्रेष्ठाः पुत्रा वै द्वादश स्मृताः ॥७६॥धर्मादयः प्रथमजा विज्ञेया ब्रह्ममः स्मृताः ।भृग्वादयस्तु ये सृष्टा न च ते ब्रह्मवादिनः ॥७७॥गृहमेधिपुराणास्ते विज्ञेया ब्रह्मणः सुताः ।द्वादशैते प्रसूयन्ते सह रूद्रेण च द्विजाः ॥७८॥क्रतुः सनत्कुमारश्च द्वावेतावूर्द्धरेतसौ ।पूर्वोत्पत्तौ पुरा ह्येतौ सर्वेषामपि पूर्वजौ ॥७९॥व्यतीतौ सप्तमे कल्पे पुराणौ लोकसाधकौ ।विरजेतेऽत्र वै लोके तेजसाक्षिप्य चात्मनः ॥८०॥तापुभौ योगधर्माणावारोप्यात्मानमात्मना ।प्रजाधर्मं च कामं च वर्तयेते महौजसौ ॥८१॥यथोत्पन्नस्तथैवेह कुमार इति चोच्यते ।ततः सनत्कुमारेति नाम तस्य प्रतिष्ठितम् ॥८२॥तेषां द्वादश ते वंशा दिव्या देवगाणान्विताः ।क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः ॥८३॥प्राणजांस्तु स दृष्ट्वा वै ब्रह्मा द्वादश सात्त्विकान् ।ततोऽसुरान्पितॄन्देवान्मनुष्यांश्चासृजत्प्रभुः ॥८४॥मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ।प्रजननान्मनुष्यान्वै जघनान्निर्ममेऽसुरान् ॥८५॥नक्तं सृजन्पुनर्ब्रह्मा ज्योत्स्नाया मानुषात्मनः ।सुधायाश्च पितॄंश्चैव देवदेवः ससर्जह ॥८६॥मुख्यामुख्यान्मृजन्देवानसुरांश्च ततः पुनः ।सनसश्च मनुष्यांश्च पितृवन्महतः पितॄन् ॥८७॥विद्युतोऽशनिमेघांश्च लोहितेन्द्रधनूंषि च ।ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥८८॥उच्चावचानि भूतानि महसस्तस्य जज्ञिरे ।ब्रह्मणस्तु प्रजासर्गं देवार्षिपितृमानवम् ॥८९॥पुनः सृजति भूतानि चराणि स्थावराणि च ।यक्षान्पिशाचान् गन्धर्वान्सर्वशोऽप्सरसस्तथा ॥९०॥नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।अव्ययं वा व्ययञ्चैव द्वयं स्थावरजङ्गमम् ॥९१॥तेषां ते यान्ति कर्माणि प्राक्सृष्टानि स्वयंभुवा ।तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥९२॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मौं कृताकृते ।तेषामेव पृथक्सूतमविभक्तं त्रयं विदुः ॥९३॥एतदेवं च नैवं च न चोभे नानुभे तथा ।कर्म स्वविषयं प्राहुः सत्त्वस्थाः समदर्शिनः ॥९४॥नामात्मपञ्चभूतानां कृतानां च प्रपञ्चताम् ।दिवशब्देन पञ्चैते निर्ममे समहेश्वरः ॥९५॥आर्षाणि चैव नामानि याश्च देवेषु सृष्टयः ।शर्वर्यां न प्रसूयन्ते पुनस्तेभ्योदधत्प्रभुः ॥९६॥इत्येवं कारणाद्भूतो लोकसर्गः स्वयंभुवः ।महदाद्या विशेषान्ता विकाराः प्राकृताः स्वयम् ॥९७॥चन्द्रसूर्यप्रभो लोको ग्रहनक्षत्रमण्डितः ।नदीभिश्च समुद्रैश्च पर्वतैश्च सहस्रशः ॥९८॥पुरैश्च विविधै रम्यैः स्फीतैर्जनपदैस्तथा ।अस्मिन् ब्रह्मवनेऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥९९॥अव्यक्तबीजप्रभवस्तस्यैवानुग्रहे स्थितः ।बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः ॥१००॥महाभूतप्रकाशश्च विशेषैः पत्रवांस्तु सः ।धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः ॥१०१॥आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य तत् ॥१०२॥अव्यक्तं कारणं यत्र नित्यं सदसदात्मकम् ।प्रधानं प्रकृतिंमायां चैवाहुस्तत्त्वचिन्तकाः ॥१०३॥इत्येषोऽनुग्रहःमर्गो ब्रह्मनैमित्तिकः स्मृतः ।अबुद्धिपूर्वकाः सर्गा ब्रह्मणः प्राकृतास्त्रयः ॥१०४॥सुख्यादयस्तु षट्सर्गा वैकृता बुद्धिपूर्वकाः ।वैकल्पात्संप्रवर्तन्ते ब्रह्मणस्तेभिमन्यवः ॥१०५॥इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः ।सर्गाः परस्परोत्पन्नाः कारणं तु बुधैः स्मृतम् ॥१०६॥मूर्द्धानं वै यस्य वेदा वदन्ति वियन्नाभिश्चन्द्रसूर्यौं च नेत्रे ।दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥१०७॥वक्त्राद्यस्य ब्राह्मणाः संप्रसूता वक्षसश्चैव क्षत्रियाः पूर्वभागे ।वैश्या ऊरुभ्यां यस्य पद्भ्यां च शूद्राःसर्वेवर्णा गात्रतः संप्रसूताः ॥१०८॥नारायणात्परोव्यक्तादण्डमव्यक्तसंज्ञितम् ।अण्डजस्तु स्वयं ब्रह्मा लोकास्तेन कृताः स्वयम् ॥१०९॥तत्र कल्पान् दशस्थित्वा सत्यं गच्छन्ति ते पुनः ।ते लोका ब्रह्मलोकं वै अपरावर्तिनीं गतिम् ॥११०॥आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः ।भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ॥१११॥तत्र ते ह्यवतिष्ठन्ते प्रीतियुक्ताः स्वसंयुताः ।अवश्यंभाविनार्थेन प्राकृतं तनुते स्वयम् ॥११२॥नानात्वनाभिसंबध्यास्तदा तत्कालभाविताः ।स्वपतोऽबुद्धिपूर्व हि बोधो भवति वै यथा ॥११३॥तत्कालभाविते तेषां तथा ज्ञानं प्रवर्त्तते ।प्रत्याहारैस्तु भेदानां तेषां हि न तु शुष्मिणाम् ॥११४॥तैश्व सार्धं प्रवर्तन्ते कार्याणि कारणानि च ।नानात्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम् ॥११५॥विनिवृत्तविकाराणां स्वेन धर्मेण तिष्ठताम् ।तुल्यलक्षण सिद्धास्तु शुभात्मानो निरञ्जनाः ॥११६॥प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः ।प्रस्थापयित्वा चात्मानं प्रकृतिस्त्वेष तत्तवतः ॥११७॥पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते ।प्रवर्तते पुनः सर्गस्तेषां साकारणात्मनाम् ॥११८॥संयोगः प्रकृतिर्ज्ञेया यक्तानां तत्त्वदर्शिनाम् ।तत्रोपवर्गिणी तेषामपुनर्भारगामिनाम् ॥११९॥अभावतः पुनः सत्यं शान्तानामर्चिषामिव ।ततरतेषु गतेषूर्द्धं त्रैलोक्यात्तु मुदात्मसु ॥१२०॥ते सार्द्धं चैर्महर्ल्लोकस्तदानासादितस्तु वै ।तच्छिष्या ये ह तिष्ठन्ति कल्पदाह उपस्थिते ॥१२१॥गन्धर्वाद्याः पिशाचाश्चमानुषा ब्रह्मणादयः ।पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः ॥१२२॥तिष्ठत्सुतेषु तत्कालं पृथिवीतलवसिषु ।सहस्रंयत्तु रश्मीनां सूर्यस्येह विनश्यति ॥१२३॥ते सप्त रश्मयो भूत्वा एकैको जायते रविः ।क्रमेण शतमानास्ते त्रींल्लोकान्प्रदहन्त्युत ॥१२४॥जङ्गमान्स्थावरांश्चैव नदीः सर्वाश्च पर्वतान् ।शुष्के पूर्वमनावृष्ट्या चैस्तैशचैव प्रतापिताः ॥१२५॥तदा ते विवशाः सर्वे निर्दग्धाः सूर्यरश्मिभिः ।जङ्गमाः स्थावराश्चैव धर्माधर्मादिकास्तु वै ॥१२६॥दग्धदेहास्तदा ते तु धूतपापा युगात्यये ।ख्यातातपा विनिर्मुक्ताः शुभया चातिबन्धया ॥१२७॥ततस्ते ह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः ।उषित्वा रजनीं ते च ब्रह्मणोऽव्यक्तजन्मनः ॥१२८॥पुनः सर्गे भवन्तीह मानस्यो ब्रह्मणः प्रजाः ।ततस्तेषु प्रपन्नेषु जनैस्त्रैलोक्यवासिषु ॥१२९॥निर्दग्धेषु च लोकेषु तदा सूर्यैस्तु सप्तभिः ।वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु वा ॥१३०॥समुद्राश्चैव मेघाश्च आपश्चैवाथ पार्थिवाः ।शरमाणा व्रजन्त्येव सलिलाख्यास्तथाचलाः ॥१३१॥आगतागतिकं चैव यदा तु सलिलं बहु ।संछाद्येमां स्थितां भूमिमर्णवाख्यं तदाभवत ॥१३२॥आभाति यस्माच्चाभासाद्भाशब्दः कान्तिदीप्तिषु ।स सर्वः समनुप्राप्ता मासां भाभ्यो विभाव्यते ॥१३३॥तदन्तस्तनुते यस्मात्सर्वां पृथ्वीं समततः ।धातुस्तनोति विस्तारं ततोपतनवः स्मृताः ॥१३४॥शार इत्येव शीर्णे तु नानार्थो धातु रुच्यते ।एकार्णवे भवन्त्यापो न शीर्णास्तेन ता नराः ॥१३५॥तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि ।तावत्कालं रजन्यां च वर्तन्त्यां सलिलात्मनः ॥१३६॥ततस्ते सलिले तस्मिन्नष्टाग्नौ पृथिवीतले ।प्रशान्तवातेऽन्धकारे निरालोके समन्ततः ॥१३७॥येनैवाधिष्ठितं हीदं ब्रह्मणः पुरुषः प्रभुः ।विभागमस्य लोकस्य प्रकर्तुं पुनरैच्छत ॥१३८॥शार इत्येव शीर्णे तु नानार्थो धातु रुच्यते ।एकर्णवे ततस्तस्मिन्नष्टे स्थावर जङ्गमे ।तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ॥१३९॥सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः ।ब्रह्मा नारायणा ख्यस्तु सुष्वाप सलिले तदा ॥१४०॥सत्त्वोद्रेकात्प्रबुद्धस्तु स शून्यं लोकमैक्षत ।अनेनाद्येन पादेन पुराणं परिकीर्तितम् ॥१४१॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे लोककल्पनं नाम पञ्चमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP