संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|पूर्वभागः|प्रक्रियापादः| अध्यायः १ प्रक्रियापादः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ प्रक्रियापादः - अध्यायः १ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः १ Translation - भाषांतर श्रीगणेशाय नमःश्रीसरस्वत्यै नमःश्रीरामचन्द्राय नमःअथ ब्रह्माण्डमहापुराणं पूर्वभागप्रारम्भः ।नमोनमः क्षये सृष्टौ स्थितौ सत्त्वमयाय वा ।नमो रजस्तमःसत्त्वत्रिरूपाय स्वयंभुवे ॥१॥जितं भगवता तेन हरिणा लोकधारिणा ।अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥२॥ब्रह्माणं लोककर्त्तारं सर्वज्ञमपराजितम् ।प्रभुंभूतभविष्यस्य साम्प्रतस्य च सत्पतिम् ॥३॥ज्ञानमब्रतिमं तस्य वैराग्यं च जगत्पतेः ।ऐश्वर्य्यं चैव धर्मश्च सद्भिः सेव्यं चतुष्टयम् ॥४॥इमान्नरस्य वै भावान्नित्यं सदसदात्मकान् ।अविंशकः पुनस्तान्वै क्रियाभावार्थमीश्वरः ॥५॥लोककृल्लोकतत्त्वज्ञो योगमास्थाय योगवित् ।असृजत्सर्वभूतानि स्थावराणि चराणि च ॥६॥तसहं विश्वकर्माणं सत्पतिं लोकसाक्षिणम् ।पुराणाख्यानजिज्ञासुर्गच्छामि शरणं विभुम् ॥७॥पुराणं लोकतत्त्वार्थमशिलं वेदसंमितम् ।प्रशशंस स भगवान् वसिष्ठाय प्रजापतिः ॥८॥तत्त्वज्ञानामृतं पुण्यं वसिष्ठो भगवानृषिः ।पौत्रमध्यापयामास शक्तेः पुत्रं पराशरम् ॥९॥पराशरश्च भगवान् जातूकर्ण्यमृषिं पुरा ।तमध्यापितवान्दिव्यं पुराणं वेदसंमितम् ॥१०॥अधिगम्य पुराणं तु जातूकर्ण्यो विशेषवित् ।द्वैपायनाय प्रददौ परं ब्रह्म सनातनम् ॥११॥द्वैपायनस्ततः प्रीतःशष्येभ्यःप्रददौवशी ।लोकतत्त्वविधानार्थं पञ्चभ्यः परमाद्भुतम् ॥१२॥विख्यापनार्थं लोकेषु बह्वर्थं श्रुतिसंमतम् ।जैमिनिञ्च सुमन्तुं च वैशंपायनमेवच ॥१३॥चतुर्थं पैलवं तेषां पञ्चमं लोमहर्षणम् ।सूतमद्भुतवृत्तान्तं विनीतं धार्मिकं श्रुचिम् ॥१४॥अधीत्य च पुराणं च विनीतो लोमहर्षणः ।ऋषिणा च त्वया पृष्टः कृतप्रज्ञः सुधार्मिकः ॥१५॥वसिष्ठश्चापि मुनिभिः प्रणाम्य शिरसा मुनीन् ।भक्त्या परमया युक्तः कृत्वा चापि प्रदक्षिणम् ॥१६॥अवाप्तविद्यः सर्तुष्टः कुरुक्षेत्रमुपागमत् ।सत्रे सवितते यत्र यजमानानृषीञ्शुचीन् ॥१७॥विनयेनोपसंगम्य सत्र्रिणो रोमहर्षणम् ।विधानतो यथाशास्त्रं प्रज्ञयातिजगाम ह ॥१८॥ऋषयश्चापि ते सर्वे तदानीं रोमहर्षणम् ।दृष्ट्वा परमसंहृष्टाः प्रीताः सुमनसस्तथा ॥१९॥सत्कारैरर्च्चयामासुरर्घ्यपाद्यादिभिस्ततः ।अभिवाद्य मुनीन्सर्वान् राजाज्ञामभिगम्य च ॥२०॥ऋषिभिस्तैरनुज्ञातः पृष्टः सर्वमनामयम् ।अभिगम्य मुनीन्सर्वांस्तेजो ब्रह्म सनातनम् ।सदस्यानुमते रम्ये स्वास्तीर्णे समुपाविशत् ॥२१॥उपविष्टे तदा तस्मिन्मुनयः शंसितव्रताः ।मुदान्विता यथान्यायं विनयस्थाः समाहिताः ॥२२॥सर्वे ते ऋषयश्चैनं परिवार्य महाव्रतम् ।परमप्रीतिसंयुक्ता इत्यूचुः सूतनन्दनम् ॥२३॥स्वागतं ते महाभाग दिष्ट्या च त्वांनिरामयम् ।पश्याम धीमन्नत्रस्थाः सुब्रतं मुनिसत्तमम् ॥२४॥अशून्या मे रसाद्यैव भवतः पुण्यकर्मणः ।भवांस्तस्य मुनेः सूत व्यासस्यापि महात्मनः ॥२५॥अनुग्राह्यः सदा धीमात्र्शिष्यः शिष्यगुणान्वितः ।कृतबुद्धिश्च ते तत्त्वमनुग्राह्यतया प्रभो ॥२६॥अवाप्य विपुलं ज्ञानं सर्वतश्छिन्नसंशयः ।पृच्चतां नः सदा प्राज्ञ सर्वमाख्यातुमर्हसि ॥२७॥तदिच्छामः कथां दिव्यां पौराणीं श्रुतिसंमिताम् ।श्रोतुं धर्मार्थयुक्तां तु एतव्द्यासाच्छ्रुतं त्वया ॥२८॥एवसुक्तस्तदा सूतस्त्वृषिभिर्विनयान्वितः ।उवाच परमाप्राक्ज्ञो विनीतोत्तर मुत्तमम् ॥२९॥ऋषेः शुश्रूषणं यच्च तस्मात्प्रज्ञा च या मम ।यस्माच्छुशूषणार्थं च तत्सत्यमिति निश्चयः ॥३०॥एवं गतेर्ऽथे यच्छक्यं मया वक्तुं द्विजोत्तमाः ।जिज्ञासा यत्र युष्माकं तदाज्ञातुमिहार्हथ ॥३१॥एतच्छ्रुत्वा तु मुनयो मधुरं तस्य भाषितम् ।प्रत्यूचुस्ते पुनः सूतं बाष्पपर्याकुलेक्षणम् ॥३२॥भवान् विशेषकुशलो व्यासं साक्षात्तु दृष्टवान् ।तस्मात्त्वं संभवं कृत्स्नं लोकस्येमं विदर्शय ॥३३॥यस्य यस्यान्वये ये ये तांस्तानिच्छाम वेदितुम् ।तेषां पूर्वविसृष्टिं च विचित्रां त्वं प्रजापतेः ।सत्कृत्य परिपृष्टः स महात्मा रोमहर्षणः ॥३४॥विस्तरेणानुपूर्व्या च कथयामास सत्तमः ।सूत उवाचयो मे द्वैपायनप्रीतः कथां वै द्विजसत्तमाः ॥३५॥पुण्यामाख्यातवान्विप्रास्तां वै वक्ष्याम्यनुक्रमात् ।पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना ॥३६॥पृष्टेन मुनिभिः पूर्वं नैमिषीयैर्म हात्मभिः ।सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥३७॥वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ।प्रक्रिया प्रथमः पादः कथायां स्यात्परिग्रहः ॥३८॥अनुषङ्ग उत्पोद्धात उपसंहार एव च ।एवं पादास्तु चत्वारः समासात्कींर्तिता मया ॥३९॥वक्ष्यामि तान्पुरस्तात्तु विस्तरेण यथाक्रमम् ।प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा श्रुतम् ॥४०॥अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ॥४१॥अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।महदादिविशेषान्तं सृजामीति विनिश्चयः ॥४२॥अण्डं हिरण्मयं चैव ब्रह्मणःसूतिरुत्तमा ।अडस्यावरणं वार्धिरपामपि च तेजसा ॥४३॥वायुना तस्य वायोश्च खेन भूतादिना ततः ।भूतादिर्महता चैव अव्यक्तेनावृतो महान् ॥४४॥अन्तर्वर्ति च भूतानामण्डमेवोपवर्णितम् ।नदीनां पर्वतानां च प्रादुर्भावोऽत्र पठ्यते ॥४५॥मन्वन्तराणां सर्वेषां कल्पानां चैव वर्णनम् ।कीर्त्तनं ब्रह्मवृक्षस्य ब्रह्मजन्म प्रकीर्त्यते ॥४६॥अतः परं ब्रह्मणश्च प्रजासर्गोपवर्णनम् ।अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः ॥४७॥कल्पानां संभवश्चेव जगतः स्थापनं तथा ।शयनं च हरेरप्सु पृथिव्युद्धरणं तथा ॥४८॥सविशेषः पुरादीनां वर्णाश्रमविभाजनम् ।ऋक्षाणां ग्रहसंस्थानां सिद्धानां च निवेशनम् ॥४९॥योजनानां यथा चव संचरो बहुविस्तरः ।स्वर्गस्थानविभागश्च सर्त्यानां शुभचारिणाम् ॥५०॥वृक्षाणामौषधीनां च वीरुधां च प्रकीर्त्तनम् ।देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥५१॥आम्लादीनां तरूणां च सर्जनं व्यञ्जनं तथा ।पशूनां पुरुषाणां च संभवः परिकीर्त्तितः ॥५२॥तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः ।नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः ॥५३॥त्रयो ये बुद्धिपूर्वास्तु तथा यल्लोककल्पनम् ।ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः ॥५४॥ये द्वादश प्रसूयन्ते प्रजाकल्पे पुनः पुनः ।कल्पयोरन्तरे प्रोक्तं प्रतिसंधिश्च यस्तयोः ॥५५॥तमोमात्रा वृतत्वात्तु ब्रह्मणोऽधर्मसंभवः ।सत्त्वोद्रिक्ताच्च देहाच्च पुरुषस्य च संभवः ॥५६॥तथैव शतरूपायां तयोः पुत्रास्ततः परम् ।प्रियव्रतोत्तानपादौ प्रसूत्याकृतयः शुभाः ॥५७॥कीर्त्यन्ते धूतपाप्मानस्त्रैलोक्ये ये प्रतिष्ठिताः ।रुचेः प्रजापतेश्चोर्द्धमाकूत्यां मिथुनोद्भवः ॥५८॥प्रसूत्यमपि दक्षस्य कन्यानामुद्भवः शुभः ।दाक्षायणीषु वाप्यूर्ध्वंशब्दाद्यासु महात्मनः ॥५९॥धर्मस्य कीर्त्यते सर्गः सात्त्विकस्तु सुखोदयः ।तथाधर्मस्य हिंसायां तमसोऽशुभलक्षणः ॥६०॥भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम् ।ब्रह्मर्षेश्च वसिष्ठस्य यत्र गोत्रानुकीर्त्तनम् ॥६१॥अग्नेः प्रजायाः संभूतिः स्वाहायां यत्र कीर्त्यते ।पितॄणां द्विप्रकाराणां स्वधायां तदनन्तरम् ॥६२॥पितृवंशप्रसंगेन कीर्त्यते च महेश्वरात् ।दक्षस्य शापः सत्याश्च भृग्वादीनां च धीमताम् ॥६३॥प्रतिशापश्च दक्षस्य रुद्रादद्भुतकर्मणः ।प्रतिषेधश्च वैरस्य कीर्त्यते दोषदर्शनात् ॥६४॥मन्वन्तरप्रसंगेन कालाख्यानं च कीर्त्यते ।प्रजापतेः कर्द्दमस्य कन्यायाः शुभलक्षणम् ॥६५॥प्रियव्रतस्य पुत्राणां कीर्त्यते यत्र विस्तरः ।तेषां नियोगो द्वीपेषु देशेषु च पृथक्पृथक् ॥६६॥स्वायंभुवस्य सर्गस्य ततश्चाप्यनुकीर्त्तनम् ।वर्षाणां च नदीनां च तद्भेदानां च सर्वशः ॥६७॥द्वीपभेदसहस्राणा मन्तर्भावश्च सप्तसु ।विस्तरान्मण्डलं चैव जंबूद्वीपसमुद्रयोः ॥६८॥प्रमाणं योजनाग्रेण कीर्त्यन्ते पर्वतैः सह ।हिमवान्हेमकूटश्च निषधो मेरुरेव च ।नीलः श्वेतश्च शृङ्गी च कीर्त्यन्ते सप्त पर्वताः ॥६९॥तेषामन्तरविष्कंभा उच्छ्रायायामविस्तराः ॥७०॥कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः ।भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा ॥७१॥भूतैश्चोपनिविष्टानि गतिमद्भिर्धुवै स्तथा ।जंबूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः ॥७२॥ततः स्वर्णमयी भूमिर्लोकालोकश्च कीर्त्यते ।सप्रमाणा इमे लोकाः सप्तद्वीपा च मेदिनी ॥७३॥रूपादयः प्रकीर्त्यन्ते करणात्प्राकृतैः सह ।सर्वं चैतत्प्रधानस्य परिणामैकदेशिकम् ॥७४॥पर्यायपरिमाणं च संक्षेपेणात्र कीर्त्यते ।सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः ॥७५॥प्रमाणं योजनाग्रेण सांप्रतैरभिमानिभिः ।महेन्द्राद्याः शुभाः पुण्या मानसोत्तरमूर्धनि ॥७६॥अत ऊर्ध्दगतिश्चोक्ता सूर्यस्यालातयक्रवत् ।नागवीथ्यक्षवीथ्योश्च लक्षणं च प्रकीर्त्यते ॥७७॥कोष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः ।लोकालोकस्य सन्ध्याया अह्नो विषुवतस्तथा ॥७८॥लोकपालाः स्थिताश्चोर्द्धं कीर्त्यन्ते ते चतुर्द्दिशम् ।पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ ॥७९॥गृहिणां न्यासिनां चोक्तो रजःसत्त्वसमाश्रयः ।कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र च स्थिताः ॥८०॥सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा ।कीर्त्यते धृतसामर्थ्यात्प्रजानां च शुभाशुभम् ॥८१॥ब्रह्मणा निर्मितः सौरः सादनार्थं च स स्वयम् ।कीर्त्यते भगवान्येन प्रसर्प्पति दिवः क्षयम् ॥८२॥स रथोऽधिष्ठितो देवैरादित्यै ऋषिभिस्तथा ।गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥८३॥अपां सारमयात्स्यन्दात्कथ्यते च रसस्तथा ।वृद्धिक्षयौ च सोमस्य कीर्त्येते सोमकारितौ ॥८४॥सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रवर्त्तनम् ।कीर्त्यते शिशुमारस्य यस्य पुच्छे ध्रुवः स्थितः ॥८५॥तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह ।निवासा यत्र कीर्त्यन्ते देवानां पुण्यकर्मणाम् ॥८६॥सूर्यरश्मिसहस्रं च वर्षशीतोष्णविश्रवः ।प्रविभागश्चरश्मीनां नामतः कर्मतीर्थतः ॥८७॥परिमाणं गतिश्चोक्ता ग्रहाणां सूर्यसंश्रयात् ।वेश्यारूपात्प्रधानस्य परिमाणो महाद्भवः ॥८८॥पुरूरवस ऐलस्य माहात्म्यस्यानुकीर्त्तनम् ।पितॄणां द्विप्रकाराणां माहात्म्यं वा मृतस्य च ॥८९॥ततः पर्वाणि कीर्त्यन्ते पर्वणां चैव संधयः ।स्वर्गलोकगतानाञ्च प्राप्तानाञ्चाप्यधोगतिम् ॥९०॥पितॄणां द्विप्रकाराणां श्राद्धेनानुग्रहो महान् ।युगसंख्याप्रमाणं च कीर्त्यते च कृतं युगम् ॥९१॥त्रेतायुगे चापकर्षाद्वार्त्तायाः संप्रवर्त्तनम् ।वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा ॥९२॥वज्रप्रवर्त्तनं चैव संवादो यत्र कीर्त्यते ।ऋषीणां वसुना सार्द्धं वसोश्चाधः पुनर्गतिः ।शब्दत्वं च प्रधानात्तु स्वायम्भुवमृते मनुम् ॥९३॥प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः ।द्वापरस्य कलेश्चापि संक्षेपेण प्रकीर्त्तनम् ॥९४॥मन्वन्तरं च संख्या च मानुषेण प्रकीर्त्तिता ।मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् ॥९५॥अतीतानागतानां च वर्त्तमानं च कीर्त्यते ।तथा मन्वन्तराणां च प्रतिसंधानलक्षणम् ॥९६॥अतीताना गतानां च प्रोक्तं स्वायम्भुवे ततः ।ऋषीणां च गतिः प्रोक्ता कालज्ञानगतिस्तथा ॥९७॥दुर्गसंख्याप्रमाणं च युगवार्ता प्रवर्त्तनम् ।त्रेतायां चक्रवर्तीनां लक्षणं जन्म चैव हि ॥९८॥प्रमतेश्च तथा जन्म अथो कलियुगस्य वै ।अङ्गुलैर्हासनं चैव भूतानां यच्च चोच्यते ॥९९॥शाशानां परिसंख्यानं शिष्यप्राधान्यमेव च ।वाक्यं सप्तविधं चैव ऋषिगोत्रानुकीर्तनम् ॥१००॥लक्षणं सूतपुत्राणां ब्रह्मणास्य च कृत्स्नशः ।देदानां व्यसनं चैव वेदव्यासैर्महात्मभिः ॥१०१॥मन्वन्तरेषु देवानां प्रजेशानां च कीर्त्तनम् ।मन्वन्तरक्रमश्चैव कालज्ञानं च कीर्त्यते ॥१०२॥दक्षस्य चापि दौहित्राः प्रियाया दुहितुः शुभाः ।ब्रह्मादिभिस्तेजनिता दक्षेणैव च धीमता ॥१०३॥सावर्णाश्चात्र कीर्त्यन्ते मनवो मेरुमाश्रिताः ।ध्रुवस्यौत्तानपादस्य प्रजासर्गोपवर्णनम् ॥१०४॥चाक्षुषस्य मनोः सर्गः प्रजानां वीर्यवर्मनम् ।प्रभुणा चैव वैन्येन भूमिदोहप्रवर्तता ॥१०५॥पात्राणां पयसां चैव वत्सानां च विशेषणम् ।ब्रह्मादिभिः पूर्वमेव दुग्धा चैयं वसुंधरा ॥१०६॥दशभ्यश्चं प्रचेतोभ्यो मारिषायां प्रजापतेः ।दक्षस्य कीर्त्यत जन्म समस्यांशेन धीमतः ॥१०७॥भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्यते ।मन्वादिका भविष्यन्ति आख्यानैबर्हुभिर्वृताः ॥१०८॥वैवस्वतस्य च मनोः कीर्त्यते सर्गविस्तरः ।ब्रह्मादिकोश उत्पत्तिर्भृग्वदीनां च कीर्त्यते ॥१०९॥विनिष्कृष्य प्रजासर्गे चाक्षुषस्य मनोःशुभे ।दक्षस्य कीर्त्यते सर्गो ध्यानाद्वैवस्वतान्तरे ॥११०॥नारदः कृतसंवादो दक्षपुत्रान्महाबलान् ।नाशयामास शापाय मानसो ब्रह्मणः सुतः ॥१११॥ततो दक्षोऽसृजत्कन्या वैरिणा नाम विश्रुताः ।मरुत्प्रवाहे मरुतो दित्यां देव्यां च संभवः ॥११२॥कीर्त्यते मरुतां चात्रगणास्ते सप्तसप्तकाः ।देवत्वमिन्द्रवासेन वायुस्कन्धेषु चाश्रमः ॥११३॥दैत्यानां दानवानां च यक्षगन्धर्वरक्षसाम् ।सर्वभूतपिशाचानां यक्षणां पक्षिवीरुधाम् ॥११४॥उत्पत्तयश्चाप्सरसां कीर्त्यन्ते बहुविस्तरात् ।मार्तण्डमण्डलं कृत्स्नं जन्मैरावतहस्तिनः ॥११५॥वैनतेयसमुत्पत्तिस्तथा राज्या भिषेचनम् ।भृगूणां विस्तरश्चोक्तस्तथा चाङ्गिरसामपि ॥११६॥कश्यपस्य पुलस्त्यस्य तथैवात्रेर्महात्मनः ।पराशरस्य च मुनेः प्रजानां यत्र विस्तरः ॥११७॥तिस्रः कन्याः सुकीर्त्यन्ते यासुलोकाः प्रतिष्ठिताः ।इच्छाया विस्तरश्चोक्त आदित्यस्य ततः परम् ॥११८॥किङ्कुविच्चरितं प्रोक्तं ध्रुवस्यैव निबर्हणम् ।बृहद्बलानां संक्षेपादिक्ष्वाक्वाद्याः प्रकीर्त्तिताः ॥११९॥निश्यादीनां क्षितीशानां पलाण्डु हरणादिभिः ।कीर्त्यते विस्तरात्सर्गे ययातेरपि भूपतेः ॥१२०॥यदुवंशसमुद्देशो हैहयस्य च विस्तरः ।क्रोधादनन्तरं चोक्तस्तथा वंशस्य विस्तरः ॥१२१॥ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्यते ।देवावृधस्यान्धकस्य धृष्टेश्चपि महात्मनः ॥१२२॥अनिमित्रान्वयश्चैव विशोर्मिथ्याभिशंसनम् ।विशोधमनुसंप्राप्तिर्मणिरत्नस्य धीमतः ॥१२३॥सत्राजितः प्रजासर्गे राजर्षेर्देवमीढुषः ।शूरस्य जन्म चाप्युक्तं चरितं च माहात्मनः ॥१२४॥कंसस्यापि च दौरात्म्यमेकीवंश्यात्समुद्भवः ।वासुदेवस्य देव क्यां विष्णोरमिततेजसः ॥१२५॥अनन्तरमृषेः सर्गः प्रजासर्गोपवर्णनम् ।देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते ॥१२६॥संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः ।भृगुश्चोत्थापयामास दिव्यां शुक्रस्य मातरम् ॥१२७॥देवानां च ऋषीणां च संक्रमा द्वादशात्दृताः ।नारसिहप्रभृतयः कीर्त्यन्ते पापनाशनाः ॥१२८॥शुकेणाराधनं स्थाणोर्घोरेण तपसा तथा ।वरप्रदान कृत्तेन यत्र शर्वस्तवः कृतः ॥१२९॥अनन्तरं च निर्दिष्टं देवासुरविचेष्टितम् ।जयन्त्या सह शक्रेण यत्र शुको महात्मनि ॥१३०॥असुरान्मोहयामास शक्ररूपेण बुद्धिमान् ।बृहस्पतिश्च तं शुकं शशाप स महाद्युतिः ॥१३१॥उक्त च विष्णोर्माहात्म्यं विष्णोर्जन्मनि शब्द्यते ।तुर्वसुश्चात्र दौहित्रो यवीयान्यो यदोरभूत् ॥१३२॥अनुर्द्रुह्यादयः सर्वे तथा तत्तनया नृपाः ।अनुवंश्यामहात्मानस्तेषां पार्थिवसत्तमाः ॥१३३॥कीर्त्यन्ते यत्र कार्त्स्न्येन भूरिद्रविणतेजसः ।आतिथ्यस्य तु विब्रर्षेः सप्तधा धर्मसंश्रयात् ॥१३४॥बार्हस्वत्यं सूरिभिश्च यत्र शापमुपावृतम् ।हरवंशयशःस्पर्शः शन्तनोर्वीर्यशब्दनम् ॥१३५॥भविष्यतां तथा राज्ञामुपसंहारशब्दनम् ।अनागतानांसंघानां प्रभूणां चोपवर्णनम् ॥१३६॥भौत्यस्यान्ते कलियुगे क्षीणे संहारवर्णनम् ।नैमित्तिकाः प्राकृतिका यथैवात्यन्तिकाः स्मृताः ॥१३७॥विविधः सर्वभूतानां कीर्त्यते प्रतिसंचरः ।अनादृष्टिर्भास्करस्य घोरः संवर्त्तकानलः ॥१३८॥सांख्ये लक्षणमुद्दिष्टं ततो ब्रह्म विशेषतः ।भुवादीनां च लोकानां सप्तानां चोपवर्णनम् ॥१३९॥अपरार्द्धापरैश्चैव लक्षणं परिकीर्त्यते ।ब्रह्मणोयोजनाग्रेण परिमाणविनिर्णयः ॥१४०॥कीर्त्यन्ते चात्र निरयाः पापानां रौरवादयः ।सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः ॥१४१॥ब्रह्मणः प्रतिसंसर्गात्सर्व संसारवर्णनम् ।गतिरूर्द्धमधश्चोक्ता धर्माधर्मसमाश्रया ॥१४२॥कल्पे कल्पे च भूतानां महतामपि संक्षयम् ।असंख्यया च दुःखानि ब्रह्मणश्चाप्यनित्यता ॥१४३॥दौरात्म्यं चैव भोगानां संहारस्य च कष्टता ।दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनात् ॥१४४॥व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम् ।नानात्वदर्शनाच्छुद्धस्तवस्तत्र निवर्त्तते ॥१४५॥ततस्तापत्रयाद्भीतो रूपार्थोहि निरञ्जनः ।आनन्दं ब्रह्मणः प्राप्य न बिभेति कुतश्चन ॥१४६॥कीर्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत् ।कीर्त्यते जगतश्चत्र सर्गप्रलयविक्रियाः ॥१४७॥प्रवृत्तयश्च भूतानां प्रसुतानां फलानि च ।कीर्त्यते ऋषिवर्गस्य सर्गः पापप्रणाशनः ॥१४८॥प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च ।सौदासास्थिग्रहश्चास्य विश्वामित्रकृतेन तु ॥१४९॥पराशरस्य चोत्पत्तिरदृश्यन्त्यां तथा विभोः ।संजज्ञे पितृकन्यायां व्यासश्चापि महामुनिः ॥१५०॥शुकस्य च तथा जन्म सह पुत्रस्य धीमप्तः ।पराशरस्य प्रद्वेपो विश्वामित्र ऋषिं प्रति ॥१५१॥वसिष्ठसंभृतिश्चाग्नेर्विश्वामित्रजिघांसया ।देवेन विधिना विप्र विश्वामित्रहितैषिणा ॥१५२॥संतानहेतोर्विभुना गीर्णस्कन्धेन धीमता ।एकं वेदं चतुष्पादं चतुर्द्धा पुनरीश्वरः ॥१५३॥तथा बिभेद भागवान् व्यासः शार्वादनुग्रहात् ।तस्य शिष्यप्रशिष्यैश्च शाखा वेदायुताः कृताः ॥१५४॥प्रयोगे प्रह्वला नैव यथा दृष्टः स्वयंभुवा ।पृष्ट वन्तो विशिष्टास्ते मुनयो धर्मकाङ्क्षिणः ॥१५५॥देशं पुण्यमभीप्सतो विभुना तद्धितैषिणा ।सुनाभं दिव्यरूपाभं सप्ताङ्गं शुभशंसनम् ॥१५६॥आनौपम्यमिदं चक्रं वर्त्तमानमतन्द्रिताः ।पृष्ठतो यात नियतास्ततः प्राप्स्यथ पाटितम् ॥१५७॥गच्छतस्तस्य चक्रस्य यत्र नेमिर्विशीर्यते ।पुण्यः स देशो मन्तव्यः प्रत्युवाच तदा प्रभुः ॥१५८॥उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमुपागमत् ।गङ्गा गर्भ यवाहारा नैमिषेयास्तथैव च ॥१५९॥ईशिरे चैव सत्रेण मुनयो नैमिषे तदा ॥१६०॥मृतेशरद्वतितथा तस्य चोत्थापनङ्कृतम् ।ऋषयो नैमिषेयाश्च दयया परया युताः ॥१६१॥निःसीमां गामिमां कृत्वा कृषणं राजानमाहरत् ।प्रीतिं चैव कृतातिथ्यं राजानं विधिवत्तदा ॥१६२॥अन्तः सर्गगतः क्रूरः स्वर्भानुरसुरो हरन् ।द्रुते राजनि राजानु मद्रते मुनयस्ततः ॥१६३॥गन्धर्वरक्षितं दृष्ट्वा कलापग्रामकेतनम् ।सन्निपातः पुनस्तस्य तथा यज्ञे महर्षिभिः ॥१६४॥दृष्ट्वा हिरण्मयं सर्वं विवादस्तस्य तैरभूत् ।तदा वै नैमिषेयानां सत्रे द्वादशवार्षिके ॥१६५॥तथा विवदमानैश्च यदुः संस्थापितश्च तैः ।जनयित्वा त्वरण्यं वै यदुपुत्रमथायुतम् ॥१६६॥समापयित्वा तत्सत्रं वायुं ते पर्युपासत ।इति कृत्यसमुद्देशः पुराणांशोपवर्णितः ॥१६७॥अनेनानुक्रमेणैव पुराणं संप्रकाशते ।सुखमर्थः समासेन महानप्युपलक्ष्यते ॥१६८॥तस्मात्समासमुद्दिश्य वक्ष्यामि तव विस्तरम् ।पादमाद्यमिदं सम्यग्योऽधीते विजितेद्रियः ॥१६९॥तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्रसंशयः ।यो विद्याच्चतुरो वेदान् सांगोपनिषदान् द्विजाः ॥१७०॥इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥१७१॥अभ्यसन्निममध्यायं साक्षात्प्रोक्तं स्वयंभुवा ।नापदं प्राप्य मुह्येत यथेष्टां प्राप्नुयाद्गतिम् ॥१७२॥यस्मात्पुरा ह्यभूच्चैतत्पुराणं तेन तत्स्मृतम् ।निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥१७३॥अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणम् ।संसर्गकालेऽपि करोति मर्ग संहार काले च न वास्ति भूयः ॥१७४॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे कृत्यसमुद्देशो नाम प्रथमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP