संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|पूर्वभागः|प्रक्रियापादः| अध्यायः ४ प्रक्रियापादः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ प्रक्रियापादः - अध्यायः ४ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ४ Translation - भाषांतर सुत उवाचआत्मन्यवस्थिते व्यक्ते विकारे प्रतिसंहते ।साधर्म्येणावतिष्ठेते प्रधानपुरुषौ तदा ॥१॥तमःसत्त्व गुणावेतौ समत्वेन व्यवस्थितौ ।अनुद्रिक्तावनुचरौ तेन प्रोक्तौ परस्परम् ॥२॥गुणसाम्ये लयो ज्ञेय आधिक्ये सृष्टिरुच्यते ।सत्त्ववृद्धौ स्थितिरभूद्ध्रुवं पद्म शिखास्थितम् ॥३॥यदा तमसि सत्त्वे च रजोप्यनुगतं स्थितम् ।रजः प्रवर्तकं तच्च बीजेष्विव यथा जलम् ॥४॥गुणा वैषम्यमासाद्य प्रसंगेन प्रतिष्ठिताः ।गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो ज्ञेया हि सादरे ॥५॥शाश्वताः परमा गुह्याः सर्वात्मानः शरीरिणः ।सत्त्वं विष्णू रजो ब्रह्मा तमो रुद्रः प्रजापतिः ॥६॥रजःप्रकाशकोविष्णुर्ब्रह्मस्रष्टृत्वमाप्नुयात् ।जायते च यतश्चत्रा लोकसृष्टिर्महोजसः ॥७॥तमःप्रकाशको विष्णुः कालत्वेन व्यवस्थितः ।सत्त्वप्रकाशको विष्णुः स्थितित्वेन व्यवस्थितः ॥८॥एत एव त्रयो लोका एत एव त्रयो गुणाः ।एत एव त्रयो वेदा एत एव त्रजोऽग्नयः ॥९॥परस्परान्वया ह्येते परस्परमनुव्रताः ।परस्परेण वर्तन्ते प्रेरयन्ति परस्परम् ॥१०॥अन्योन्यं मिथुनं ह्येते अन्योन्यमुपजीविनः ।क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम् ॥११॥प्रधानगुणवैषम्यात्सर्गकाले प्रवर्त्तते ।अदृष्टाधिष्ठितात्पूर्वे तस्मात्सदसदात्मकात् ॥१२॥ब्रह्मा बुद्धित्वमिथुनं युगपत्संबभूव ह ।तस्मात्तमोव्यक्तमयं क्षेत्रज्ञो ब्रह्मसंज्ञकः ॥१३॥संसिद्धकार्यकरणो ब्रह्मग्रे समवर्त्तत ।तेजसाप्रतिमो धीमानव्यक्तः संप्रकाशकः ॥१४॥स वै शरीरप्रथमो धारणत्वव्यवस्थितः ।ज्ञानेनाप्रतिमेनेह वैराग्येण च सप्ततिः ॥१५॥अव्यक्तत्वाय तेनास्य मनसा यद्यदिच्छति ।वशीकृतत्वात्त्रैगुण्यात्सापेक्षत्वाच्च भावतः ॥१६॥चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकृद्भवः ।सहस्रमूर्धा पुरुषस्तिस्रोऽवस्थाःस्वयंभुवः ॥१७॥सर्वं रजश्च ब्रह्मत्वे कालत्वे चरजस्तमः ।सात्त्विकः पुरुषत्वे च गुणवृतं स्वयंभुवः ॥१८॥ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षयत्यपि ।पुरुषत्वे उदासीनस्तिस्रोऽवस्थाः स्वयंभुवः ॥१९॥ब्रह्मा कमल पत्राक्षः कालो जात्यञ्जनप्रभः ।पुरुषः पुण्डरीकाक्षो रूपेण परमात्मनः ॥२०॥एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ।योगीश्वरः शरीराणि करोति विकरोतिच ॥२१॥नानाकृतिक्रियारूपमाश्रयन्तिस्वलीलया ।त्रिधा यद्वर्तते लोके तस्मात्र्रिगुण उच्यते ॥२२॥चतुर्द्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्त्तितः ।यदा शेते तदार्धाते यद्भुङ्क्ते विषयान्प्रभुः ॥२३॥यत्स्वस्थाः सततं भावस्तस्मादात्मा निरूच्यते ।ऋषिः सर्वगतश्चात्र शरीरे सोऽभ्ययात्प्रभुः ॥२४॥स्वामी सर्वस्य यत्सर्वंविष्णुः सर्वप्रवेशनात् ।भगवानग्रसद्भावान्नागो नागस्वसंश्रयात् ॥२५॥परमः संप्रहृष्टत्वाद्देवतादोमिति स्मृतिः ।सर्वज्ञः सर्वविज्ञानात्सर्वःसर्वंयतस्ततः ॥२६॥नराणां स्वापनं ब्रह्मा तस्मान्नारायणः स्मृतः ।त्रिधा विभज्य चात्मानं सकलः संप्रवर्त्तते ॥२७॥सृजते ग्रसते चैव पाल्यते च त्रिभिः स्वयम् ।सोऽग्रे हिरण्यगर्भः सन् प्रादुर्भूतः स्वयं प्रभुः ॥२८॥आद्यो हि स्ववशश्चैव अजातत्वादजः स्मृतः ।तस्माद्धिरण्यगर्भश्च पुराणेषु निरुच्यते ॥२९॥स्वयंभुवो निवृत्तस्य कालो वर्णाग्रतस्तु यः ।न शक्यः परिसंख्यातुं मनुवर्षशतैरपि ॥३०॥कल्पसंख्यानिवृत्तस्तु परार्धो ब्रह्मणः स्मृतः ।तावत्त्वे सोऽस्य कालोऽन्यस्तस्यान्ते प्रतिबुद्ध्यते ॥३१॥कोटिवर्षसहस्राणि गृहभूतानि यानि च ।समतीतानि कल्पानां तावच्छेषात्परेतु ये ॥३२॥यत्स्वयं वर्त्तते कल्पो वाराहस्तन्निबोधत ।प्रथमं सांप्रतस्तेषां कल्पो वै वर्त्तते च यः ॥३३॥पूर्णे युगसहस्रे तु परिपाल्यं नरेश्वरैः ॥३४॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापदे लोककल्पनं नाम चतुर्थोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP