गृहप्रवेश - नवग्रह देवतांचे आवाहन

नवीन घर घेतल्यावर वास्तुशांत करावयाचे नसल्यास गृहप्रवेश विधी करून राहायला जाता येते.


नवग्रह देवतांचे आवाहन

१.
जपाकुसुम-सङ्‌काशं काश्यपेयं महाद्युतिम्‌ ।
तमोऽरि सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्‌ ॥
सूर्याय नमः । सूर्य आवाहयामि । ( सूर्य )

२.
दधिशङ्‌खतुषाराभं क्षीरोदार्णवसम्भवम्‌ ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्‌ ॥
सोमाय नमः ।
सोमं आवाहयामि । ( चंद्र )

३.
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्‌ ।
कुमारं शक्तिहस्तं च मङ्‌गलं प्रणमाम्यहम्‌ ॥
भौमाय नमः ।
भौमं आवाहयामि । ( मंगळ )

४.
प्रियङ्‌गुकलिकाश्यामं रुपेणाप्रतिमं बुधम्‌ ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्‌ ॥
बुधाय नमः ।
बुधं आवाहयामि । ( बुध )

५.
देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम्‌ ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्‌  ॥
गुरवे नमः ।
गुरुं आवाहयामि । ( गुरु )

६.
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्‌ ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्‌ ॥
शुक्राय नमः ।
शुक्रं आवाहयामि । ( शुक्र )

७.
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्‌ ।
छायामार्तण्डसंभूतं तं नमामि शनैश्वरम्‌ ॥
शनैश्वराय नमः ।
शनैश्वरं आवाहयामि । ( शनि )

८.
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्‌ ।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्‌ ॥
राहवे नमः । राहुं आवाहयामि । ( राहू )

९.
पलाशपुष्पसङ्‌काशं तारकाग्रहमस्तकम्‌ ॥
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्‌ ॥
केतवे नमः ।
केतुं आवाहयामि । ( केतु )

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP