संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ भाद्रपदमास:| वामनपूजाविधि: अथ भाद्रपदमास: हरितालिकापूजाविधि: सिद्धिविनायकपूजाविधि: दूर्वायुग्मपूजा स्यमन्तकोपाख्यानप्रारम्भ: ऋषिपञ्चमीव्रताङ्गपूजाविधि सूर्यषष्ठी मुक्ताभरणपूजाविधिः ज्येष्ठापूजनविधि: महालक्ष्मीपूजाविधि: दूर्वाष्टमीवतम् अदु:खनवमीव्रताङ्गपूजाविधि विष्णुपरिवर्तनविधि: जनार्दनपूजाविधि: वामनपूजाविधि: श्रवणद्वादशीकथाप्रारम्भ: अनन्तपूजाविधि: कपिलाषष्ठीपर्वयोग: भाद्रपदमास: - वामनपूजाविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत वामनपूजाविधि: Translation - भाषांतर ॥ अथ भाद्रशुक्लद्वादश्यां वामनपूजाविधि: ॥द्वादशी मध्याह्णव्यापिनी श्रवणयुता ग्राह्या । उभयदिने श्रवणयोगे पूर्वैव । सर्वथा श्रवणयोगाभावे एकादश्यामेव श्रवणसत्वे मध्याह्णव्यापिनीं द्वादशीं विहाय एकादश्यामेव व्रतं कार्यम् । तिथिद्वये श्रवणयोगाभावे मध्याह्णव्यापिन्यां द्वादश्यां कार्यम् । तिथिद्वये श्रवणयोगाभावे मध्याह्णव्यापिन्यां द्वादश्यां कार्यम् । दशमीविद्धैकादश्यां श्रवणयोगे सैव ग्राह्या । अत्र मध्याह्णशब्द: द्वेधा विभक्तस्य दिनस्य सन्धिकालवाचक: । अत्रापि श्रवणद्वादशीवत दन्तधावनादिसङ्गमस्नानं कुर्यात । गृहमागत्य भूमिं गोमयेनोपलिप्य रङ्गवल्लीभिरलङकृते पीठे पूर्वाग्रान् कुशान् प्रसार्य तदुपरि कृष्णाजिनं प्रस्थमात्रतिलपूर्णं निधाय अभावे यवगोधूमपूर्णं वा तदुपरि सङगमजलपूरितं घटं महीद्यौरित्यादिना स्थापनादिपूर्णपात्रनिधानान्तं कृत्वा, तत्र यथाशक्त्या सौवर्णीं वामनप्रतिमां अग्न्युत्तारणप्राणप्रतिष्ठापूर्वकं स्थापयेत् । तत्समीपे पीतवस्त्रयुग्मं, कमण्डलुं, छत्रं, उपानहौ च स्थापयेत्, ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च समस्तपापक्षयपूर्वकसकलदोषपरिहारद्वारा पुत्रपौत्राद्यभिवृध्यर्थं श्रीविष्णुलोकप्राप्त्यर्थं आचरितवामनजयन्तीव्रताङगभूतं यथामिलितषोडशोपचारद्रव्यै: पुरुवसूक्तेन पुराणोक्तमन्त्रैश्च श्रीवामनपूजनमहं करिष्ये । तदङ्गं गणपतिपूजनं आसनविधिं कलशशङखघण्टापूजनं च करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा आवाहयेत् । ब्रह्माण्डमुदरे यस्य महदभूतैरधिष्ठितम् । मायावी वामन: श्रीशो समायातु जगत्पति: ॥ श्रीवामनाय नम: वामनं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । अथ ध्यानम् ॥ ह्नस्वपादं ह्वस्वकायं महाशिरसमर्भकम् । पाणिपादोदरकृशं ह्णस्वजङघोरुकेसरम् ॥ मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् ॥ जटिलं वामनं विप्रं मायामाणवक हरिम ॥ श्रीवामनाय नम: वामनं ध्यायामि ॥ पद्मरागादिसंयुक्तं मुक्तामणिविभूषितम् । स्वर्णसिंहासनं चारु वामन प्रतिगृ० ॥ आसनं० ॥ कमण्डलुशिखाधारी कुब्जरूपोऽसि वामन । छत्रदण्डधरो देव पाद्यं गृह्ल नमोऽस्तु ते ॥ पाद्यं० ॥ सहस्रशीर्षा त्वं देव श्रवणर्क्षसमन्वित । अर्ध्यं गृहाण देवेश रमया सहितो हरे ॥ अर्ध्यं० ॥ कमण्डलुस्थितं चारु गङ्गातोयप्रपूरितम् । देवेशाचमनार्थं च वामन प्रतिगृ० ॥ आचमनीयं० ॥ गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलै: । स्नापितोऽसि मया देव तथा शान्तिं प्रयच्छ मे ॥ स्नानं० ॥ पयोदधिघृतक्षौद्रशर्करास्नानमुत्तमम् । गृह्यतां देवदेवेश त्रिविक्रम नमोऽस्तु ते ॥ पञ्चामृतस्नानं० ॥ आचमनीयं० ॥ पञ्चोपचारपूजां कृत्वा, अभिषेक: । अतसीपुष्पसङ्काशं तिलकृष्णाजिनोपरि । कुरुक्षेत्रे प्रतिष्ठाप्य वामनं स्थापयाम्यहम् ॥ इति प्रतिमां पीठे स्थापयेत । नम: कमलकिञ्जल्कपीतनिर्मलवाससे । वासो वै देवदेवेश गृहाण पुरुषोत्तम ॥ पीतवस्त्रयुग्मं० ॥ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं सुरश्रेष्ठ गृहाण पुरुषोत्तम ॥ यज्ञोपवीतं० । आचमनीयं० । मलयाचलसम्भूतं घनसारं मनोहरम् । हृदयानन्दनं चारु चन्दनं प्रतिगृ० ॥ चन्दनं० ॥ किरीटं कुण्डले दिव्ये केयूरं रत्ननिर्मितम् । कण्ठसूत्रं नुपुरे च वामन प्रतिगृ० ॥ अलङ्कारान्० ॥ अक्षता: परमादिव्या: सर्वकामफलप्रदा: । पूजासंरक्षणार्थाय गृह्यतां परमेश्वर ॥ अक्षतान्० ॥ मल्लिका शतपत्रं च जातीपुष्पं सुगन्धकम् । चम्पकैर्जलयैर्युक्तं पुष्पं गृह्ल नमोऽस्तु ते ॥ पुष्पाणि स० ॥॥ अङ्गपूजा ॥१. मत्स्याय० पादौ पू० ।२. कूर्माय० जानुनी० ।३. वराहाय० गुह्यं पू० ।४. नृसिंहाय० उदरं पू० ।५. वामनाय० कण्ठं पू० ।६. परशुरामा० भुजौ पू० ।७. रामाय० कर्णौ पू० ।८. कृष्णाय० मुखं पू० ।९. बौद्धाय० नेत्रे पू० ।१०. कल्किने न० शिर: पू० ।धपोऽयं गृह्यतां देव शङ्खचक्रगदाधर । अच्युतानन्त गोविन्द वासुदेव नमोऽस्तु ते ॥ धूपं० ॥ त्वमेव पृथिवी ज्योतिर्वायुराकाशमेव च । त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृ० ॥ दीपं० ॥ त्वं माता सर्वदेवानां त्वमेव जगत:पिता । मया निवेदितं भक्त्या नैवेद्यं प्रतिगृ० ॥ अन्नं च० नैवेद्यं ॥ आचमनं० ॥ करोद्वर्तनं० ॥ इदं फलं म० फलं० ॥ पूगीफलं० ताम्बूलं० ॥ हिरण्यग० दक्षिणां ॥ चन्द्रादित्यौ च० नीराजनदीपं द० ॥ यानि का० प्रदक्षिणां० ॥ नमो वामनरूपाय नमस्तेऽस्तु त्रिविक्रम । नमस्ते बलिबन्धाय वासुदेव नमोऽस्तु ते ॥ नमस्कारान्० ॥ नमोऽस्त्वनन्ताय० पुष्पाञ्जलिं स० ॥ प्रार्थयेत् अनेककर्मनिर्बन्धध्वंसिनं जलशायिनम् । नतोऽस्मि मथुरावासं माधवं मधू सूदनम् ॥ आवाहनं न० । नमो नमस्ते गोविन्द नमस्ते जलशायिने । द्वादश्यां मे गृहाणार्ध्यं युक्तायां श्रवणेन तु ॥ श्रीवाम० इदं विशेषार्ध्यं स० ॥ यस्य० । अनेन मया कृतेन पूजनेन श्रीवामन: प्रीयताम् । रात्रौ जागरणं कुर्यात् । तत: प्रभाते नित्यविधिं निर्वर्त्य, आचम्य देशकालौ स्मृत्वा, श्रीवामनप्रीत्यर्थं उत्तरपूजनं करिष्ये । तदङ्गं पीठदानं ब्राह्मणपूजनं च करिष्ये । पञ्चोपचारै: वामनं सम्पूज्य देवता विसृजेत् । यान्तु देवग० । तत: ब्राह्मणं पूजयेत् । स्वस्त्यस्तु, दीर्घमा० । वामन: प्रतिगृह्णाति वामनो वै ददाति च । वामनस्तारकोभाभ्यां वामनाय नमो नम: ॥ इदं पीठं छत्रोपानहदण्डकमण्डलुसहितं वामनस्वरूपिणे अमुकश० ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रतिगृ० प्रति० । दानसां० इमां द०। अनेन पीठदानाख्येन कर्मणा श्रीभगवान् श्रीवामन: प्रीयताम् । कृतस्य कर्मण: सां० यथाशक्ति ब्रह्मचारिण: ब्राह्मणांश्च भोजयिष्ये । ब्राह्मणान् सम्भोज्य निर्णीते पारणाकाले स्वयं भुञ्जीत ॥ इति वामनपूजाविधि: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP