संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ भाद्रपदमास:| अदु:खनवमीव्रताङ्गपूजाविधि अथ भाद्रपदमास: हरितालिकापूजाविधि: सिद्धिविनायकपूजाविधि: दूर्वायुग्मपूजा स्यमन्तकोपाख्यानप्रारम्भ: ऋषिपञ्चमीव्रताङ्गपूजाविधि सूर्यषष्ठी मुक्ताभरणपूजाविधिः ज्येष्ठापूजनविधि: महालक्ष्मीपूजाविधि: दूर्वाष्टमीवतम् अदु:खनवमीव्रताङ्गपूजाविधि विष्णुपरिवर्तनविधि: जनार्दनपूजाविधि: वामनपूजाविधि: श्रवणद्वादशीकथाप्रारम्भ: अनन्तपूजाविधि: कपिलाषष्ठीपर्वयोग: भाद्रपदमास: - अदु:खनवमीव्रताङ्गपूजाविधि सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत अदु:खनवमीव्रताङ्गपूजाविधि Translation - भाषांतर ॥ अदु:खनवमीव्रताङ्गपूजाविधि: ॥नवमी मुहूर्तमात्रापि दशमीयुता ग्राह्या । तत्र ष्णोमयेनोपलिप्तभूमौ गुडलिसां वेदिकां विधाय तदुपरि इक्षुच्छादितां अपूपासादितां उपरि मण्डपिकायुतां कृत्वा, तत्र पीठे ब्राह्मणद्वारा महीद्यौरित्यादिना कलशस्थापनादिपूर्णपात्रनिधानान्तं कृत्वा, अग्न्युत्तारणपूर्वकं गौरीप्रतिमां स्थापयेत् ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च भर्त्रा सह सकलपातकादिदुःखनाशनपूर्वकअभीष्टकामनासिद्धिद्वारा व्रतखण्डकल्पोक्तफलावाप्त्यर्थं श्रीगौरीदेवताप्रीत्यर्थं अदू:खनवमीव्रताङ्गभूतं यथामिलितोपचारै: पुराणोक्तमन्त्रै:षोडशोपचारै: गौरीपूजनं करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा आवाहयेत् । गौरीं दुःखहरां देवीं शिवस्यार्धाङ्गधारिणीम । सुनीलवस्त्रसंयुक्तामुमामावाहयाम्यहम् ॥ श्रीगौयैं नम: गौरीं साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि । देवपात्रधरां देवीं विभूतिं च त्रिलोचनीम् । दुग्धान्नदाननिरतां गौरीं त्वां चिन्तयाम्यहम् ॥ ध्यायामि ॥ प्रसन्नवदने मातर्नित्यं देवर्षिसंस्तुते । मया भावेन यदत्तं पीठंतत्प्रतिगृ० ॥ आसनं० ॥ सर्वतीर्थमयं दिव्यं सर्वभूतस्य जीवनम् । मया दत्तं च पानीयं पाद्यार्थं प्रतिगृ० ॥ पाद्यं० ॥ गङ्गादिसर्वतीर्थेभ्यो भक्त्याऽऽनीतं सुशीतलम् ॥ गन्धपुष्पाक्षतोपेतं गृहाणार्ध्यं नमोऽस्तुते ॥ अर्ध्यं० ॥ गङ्गादिसर्वतीर्थेभ्य आनीतं विपुलं च यत् । तोयमाचमनीयार्थं निर्मलं प्रतिगृ० ॥ आचमनीयं० ॥ मात: सर्वाणि तीर्थानि गङ्गाद्याश्च तथा नदा: । स्नानार्थं तव देवेशि मयाऽऽनीता: सुशोभना: ॥ स्नानं० ॥ दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् । गहाण देवदेवेशि मया सम्प्रार्थितेऽनघे ॥ मधुपर्कं० ॥ पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु । शर्करादिसमायुक्तं स्नानार्थं प्रतिगृ० ॥ पञ्चामृतस्नानं० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितं शुद्धं गृहाण परमेश्वरि । अभ्यङ्गस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यै: सुगन्धिद्रव्यैश्च निर्मितं प्रतिगृह्यताम् ॥ अङ्गोद्वर्तनं स० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम् । स्नानार्थं च प्रयच्छामि गृहाण परमेश्वरि ॥ उष्णोदकस्नानं० ॥ पञ्चोपचारपूजां कृत्वा, अभिषेक: । सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । मयोपपादिते तुभ्यं वाससी प्रतिगृ० ॥ वस्त्रं० ॥ मुक्तामणिगुणोपेता ह्यनर्ध्या च सुखप्रदा । कञ्चुकी च मया दत्ता पार्वति प्रतिगृ० ॥ कञ्चुकीं स० ॥ अनेकरत्नकचितं सर्वाभरणभूषितम् । गृहाण भूषणं देवि इष्टसिद्धिं च देहि मे ॥ अलङ्कारान स० ॥ कण्ठसूत्र ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम् । सिन्दूरादि प्रदास्यामि सौभ्याग्यं देहि मेऽव्ययम् ॥ सौभाग्यद्रव्यं० ॥ श्रीखण्डं चन्दनं० चन्दनं० ॥ अक्षताश्च सु० अक्षतान् स० ॥ माल्यादीनि सु० पुष्पाणि० ॥॥ अथाङ्गपूजा ॥१. उमायै० पादौ पू० ।२. गौयैं न० जङ्घे पू० ।३. पार्वत्यै० जानुनी पू० ।४. जगद्धात्र्यै० उरू पू० ।५. जगत्प्रतिष्ठायै० कटिं पू० ।६. शान्तिरूपिण्यै० नाभिं० ।७. देव्यै न० उदरं पू० ।८. लोकवन्द्यायै० स्तनौ० । ९. काल्यै न० कण्ठं पू० ।१०. शिवायै० मुखं० ।११. भवान्यै० नेत्रे पू० ।१२. रुद्राण्यै० कणौं पू० ।१३. शर्वाण्यै० ललाटं० ।१४. मङ्गलदात्र्यै० शिर: पू० ।१५. पुत्रदायिन्यै० सर्वाङ्गं पू० ।वनस्पतिर० धूपमा० ॥ आज्यं च व० दीपं द० ॥ नैवेद्यं गृह्य० नैवेद्यं० ॥ करोद्वर्तनं स० ॥ इदं फलं म० फलं० ॥ पूगीफलं म० ताम्बूलं० ॥ हिरण्यगर्भ० दक्षिणां० । चक्षुर्दं सर्व० नीरा० ॥ यानि कानि च० प्रदक्षिणां० ॥ नमो देव्यै महा० नमस्कारान्० । भवानि कमले देवि शङ्करप्राणवल्लभे । पुष्पाञ्जलिमिमं देवि गृहाण परमेश्वरि ॥ पुष्पाञ्जलिं० ॥ आवाहनं न० प्रार्थनां० ॥ विशेषार्घ:---नमस्तुभ्यं जगद्धात्रि भक्तानां हितकारिणि ॥ जगद्भीतिविनाशिन्यै गृहाणार्ध्यं नमोऽस्तु ते ॥ श्रीगौर्यै० विशेषार्ध्यं स० । यस्य स्मृ० । अनेन पूजनेन श्रीगौरी प्रीयताम् । अद्य० पूजासाङ्गतासिध्यर्थं ब्राह्मणपूजनं अपूपवायनदानं च करिष्ये । ब्राह्मणं सम्पूज्य, दानमन्त्र:--- गौर्या दूःखविनाशिन्या व्रतसम्पूर्णहेतवे । घाणकं द्विजवर्याय सहिरण्यं ददाम्यहम् । इदं नवसङख्याकअपूपवायनदानं नारिकेलफलसहितं सदक्षिणाकं सताम्बूलं अमुकश० । प्र०प्र० । स्वस्त्यस्तु दी० । अनेन वायनदानाख्येन क० तेन श्रीगौरी प्रीयताग् । तद्दिने सशक्तेनोपोषणं अशक्तेन हविष्यं दुग्धफलभक्षणं वा कृत्वा, रात्रौ नृत्यगीतादिना जागरणं कृत्वा, प्रात: पञ्चोपचारेऐर्देवीं सम्पूज्य, स्कन्दमातर्नमस्तुभ्यं दुःखव्याधिविनाशिनि । उत्तिष्ठ गच्छ भवनं वरदा भव पार्वति ॥ इति विसर्जयेत् । अद्यपू० ब्राह्मणपूजनं पीठदानं च करिष्ये । ब्राह्मणं सम्पूज्य, इदं गौरीपीठं सोपस्करं प्रतिमासहितं अमु० । प्रतिगृ० प्र० । कृतस्य० सपत्नीकान् ब्राह्मणान् भोजयिष्ये । तत: स्वयं भुञ्जीत ॥॥ अदु:खनवमीव्रतकथाप्रारम्भ: ॥ऋषय ऊचू: । कदाचिन्नैमिषारण्ये व्यासं धर्मविदां वरम् ॥ कथयन्तं कथां दिव्यामिदमूचुर्महर्षय: ॥ जय धर्मविदां श्रेष्ठ व्रतानि विविधानि च । विपाकात्कर्मणां चैव प्राणिनां विविधां गतिम् । आकर्ण्य विस्मिता: सर्वे कौतूहलसमन्विता: । न तृप्तिमधिगच्छामो पीत्वा चैतत्कथामृतम् ॥ संश्रृणुमो वयं सद्यो व्रतं दुःखहरं त्विदम् । येन चीर्णेन धर्मज्ञ तात दुःखं न जायते ॥ कृपां कुरु महावुद्धे ब्रूहि दू:खहरं व्रतम् । व्यास उवाच ॥ श्रृण्वन्तु पुरुषा: सर्वे शौनकाद्या महर्षय: ॥ ये नरा:पुण्यकर्माणो दम्भाहङ्कारवर्जिता: ॥ श्रद्धया निश्चिता नित्यमर्हिसानिरताश्च ये ॥ यथा मिलितभोक्तार: सुखिनस्तेन तेन हि । गुह्यं चान्यच्च वक्ष्यामि दु:खनाशनसूचकम् ॥ येऽदुःखनवमीं प्राप्य नराश्चैनां च पण्डिता: । शिवां गच्छन्तु शरणमुत्पत्तिस्थितिकारिणीम् ॥ जन्मान्तरशतैर्वापि येन दु:खस्य भागिन: । ऋषय ऊचु: ॥ अदुःखनवमी नाम त्वया केयं निरूपिता ॥ पूजनीया कदा गौरी विधानं कीद्दशं तथा । भविष्यति कदा चेयं यदा कार्यं भविष्यति ॥१०॥एवं सर्वं विधानेन वक्तुमर्हस्यशेषत: । व्यास उयाच ॥ एतद गुह्यतमं पुण्यं श्रृणुध्वं गद्तो मम ॥ न देयं नास्तिकायैतदभक्ताय शठाय च । वद्देश्च श्रद्दधानेभ्यो विधिं सर्वं विशेषत: ॥ समाहितमना: सर्वे भवन्त:पुण्यदायका: । सर्वस्याद्या महादेवि त्रिगुणा परमेश्वरी ॥ नित्यानन्दमयी देवी तम:पारे प्रतिष्ठिता । ब्रह्माण्डजननी या च योत्पत्तिस्थितिकारिणी । पुरुषप्रकृतिश्चेयमात्मानं बिभिदे द्विधा । यथा शिवस्तथा गौरी यथा गौरी तथा शिव: ॥ यथा हरिस्तथा लक्ष्मीर्दु:खपापापहारिणी । तस्या:पूजनमात्रेण न कश्चिद्दुःखभाग भवेत् ॥ नभस्यशुक्लनवमी या वा पूर्णातिथिर्भवेत् । अस्तदोषादिरहिता सर्वदु:खहरा परा ॥ प्रशस्तायां जले स्नात्वा नित्यं च विधिवद् द्विज: । मौनेन गृहमागत्य संयतस्तत्परायण: ॥ अदु:खदायी भूत्वा च शुचिस्थानगतस्तथा । गोमयेन विलिप्तायां शुचौ मण्डपिकां शुभाम् ॥ सत्कुम्भं स्थापयेत्तत्र गुडेनालिप्य वेदिकाम् । आच्छादितामपूपैश्च विलिप्यानन्ददायिनीम् ॥२०॥आचार्यानुज्ञया तत्र जगद्धात्रीं प्रपूजयेत् । पूजयित्वोपचारैस्तां नत्वा नत्वा पुन: पुन: ॥ वाणकं च ददेत्तस्यां सपक्वान्नफलान्वितम् । शक्तश्चेदुपवासेन निशि जागरणं चरेत् ॥ अशक्तेन च भोक्तव्यं पय: प्राश्य अथापि वा । फलं वापि प्रयत्नेन न हिंसारतचेतसा ॥ रात्रौ जागरणं कार्यं नृत्यगीतादिभिस्तथा । प्रभाते विमले जाते कृत्वा नित्यविधिं पुन: ॥ ब्राह्मणान्भोजयेत्पश्चात्सपत्नीकान् शुचींस्तथा । देवीं विसर्जयेत्पश्चात्साचार्यं पूजयेत्तत: ॥ आचार्यस्तु स्वशाखोक्तशतमष्टोतरं हुनेत् । देवीमन्त्रेण गव्याज्यं पायसञ्चापि यत्नत: ॥ आचरेन्नववर्षाणि पञ्चवर्षाणि वा तथा । सौवर्णभूषणैर्वस्त्रैर्युतां तां च समर्पयेत् ॥ पञ्च वा अथवा चैकं नारिकेलैश्च वायनम् । पक्वान्नं नवसङख्याकं ब्राह्मणाय निवेदयेत् ॥ पश्चाद बन्धुजनै: सार्द्धं भुञ्जीयान्नियत:शुचि: । श्रुत्वा कथां पुण्यतमां वाग्यतस्तत्परो यत: ॥ स कदाचिन्न दुःखेन युज्यते नात्र संशय: । भुक्त्वा भोगांस्तथा कामं स याति परमं पदम् ॥३०॥अत्रैवोदाहरन्तीममितिहासं पुरातनम् । अरण्ये विषमे प्राप्य शापदग्धाप्सरा: किला ॥ आसीज्जातिस्मरा काचित्तिर्यग्योनिसमागता । कुक्कुटीनामतो ह्यासीत्सदा दु:खेन पीडिता ॥ तत्सखी मर्कटी नाम ते चोभे शोककर्षिते । अथ तस्मिन्वनोद्देशे परस्परहिते रते ॥ उभे अभूतां सहिते विचरन्त्यौ दिशो द्श । अथ कालेन सहिता वर्षान्ते चागता तिथि: ॥ अदु:खनवमी नाम दुःखव्याधिविनाशिनी । गत्वा तां कुक्कुटी प्राह मर्कटीं दैवयोगत: ॥ अद्य कञ्चिन्न भोक्तव्यमावाभ्यां श्रृणु कारणम् । तिर्यग्योनिगते चादौ पूर्वकर्मविपाकत: ॥ दुःखापनुत्तये चाद्य न भोक्ष्येऽहं त्वया सह । तस्यै हि कारणं चोक्त्वा नवमीति वने स्थिता ॥ कृत्वा च त्वमशक्ता चेद्भक्ष शीर्णफलानि च । महामायाप्रसादेन याहि भद्रमहिंसया ॥ इत्युक्त्वा मर्कटीं तूष्णीं बभूवानश्नती तदाअ । मर्कटी नाम गत्वा पूर्ववनं प्रति । स्थित्वा तद्दिनशेषं तु क्षुधिता फीडिता भृशम् ॥४०॥अजानती तमेवार्थं पूर्वकर्मविपाकत: । निशान्तरे च सा गत्वा वनोद्देशे विचिन्वती ॥ ददर्श बर्हिणोण्डानि ह्यतीव क्षुधिता तदा ॥ भक्षयित्वा स्थितां वाक्यमुवा मर्कटीं प्रति ॥ कुक्कुटयुवाच । किंचिद भुक्तं त्वया दुष्टे वजन्त्या हरिसंयुते । व्रतं भ्रष्टं त्वया दुष्टे वारितासि मयाऽनघे ॥ नाकर्णितं मम वच: प्राय: किं निर्गतं तव । केदारं शरणं याहि मया सह भयङकरि ॥ देहत्यागेन योगेन गच्छाव: परमं पदम् ॥ अथ ते निर्गते चोभे केदारं भूत भावनम् ॥ गत्वा मन: समाधाय कुक्कुटी मनसा स्मरन् । उत्पत्स्येऽहं सत्कुले च धनाढये वेदपारगे ॥ इति मत्वा स्वदेहं सा हृदमध्ये न्यपातयत् । यास्येऽहं शरणं गौरीं नवमीत्येव मे तिथि: ॥ पुनर्भवामि राज्ञश्च पत्नी मत्वा च मर्कटी । अकरोत्स्वतनुत्यागं तद्वाक्येन सुबोधिता ॥ कुक्कुटी सा महादेव्या:प्रसादेन तथा कुले । विप्रस्य कन्यका भूत्वा भर्तारमलभद द्विजम् ॥ दिव्याम्बरा धर्मशीला निरता पतिसेवने । इतरा राजपत्नी त्वं प्राप्ता सा मर्कटी सदा ॥५०॥उभे जातिस्मरे जाते महादेव्या: प्रसादत: । अथ सा कुक्कुटी पञ्च पुत्रान् जज्ञेपितु: समान् ॥ बहुबोधेन सम्पन्नान् रूपशीलगुणान्वितान् । मर्कटी पुत्रशोकार्ता बभूव व्यथिता भृशम् ॥ पूर्वकर्म स्मरन्ती सा कदाचिद्दैवयोगत: । अपश्यत्कुक्कुटीपुत्रान् पञ्च चैव पितु: समान् ॥ अमारयत्स्वभृत्यैस्तान् पुत्रकान्मर्कटी तदा । तच्छिरांसि गृहीत्वा तु कुक्कुठयै वाणकं ददौ ॥ अदुःखनवमी प्राप्तव्रतस्था सा बभूव ह । गौरी कृपावती जाता जननी भक्तवत्सला ॥ शिरांस्यादाय सर्वेषां पुत्रकांस्तानजीवयत् । तद्वाणकं सुवर्णस्य शिरोभि: परिकल्पय ॥ कुक्कुटीपूजनं चक्रे गौरी दुःखविनाशिनी ॥ तत्प्रसादाज्जीवितास्ते भोक्तुं गृहमथागता: ॥ तदा तद्वाणकं प्रेक्ष्य सौवर्णं प्रेषितं ह्यभूत् । स्वभर्तृपुत्रयुक्ता च द्दष्ट्वा द्विजसती तदा ॥ पुनर्बनं गता तस्माद्ददर्श तत्र पुत्रकान् । पुन: पुनश्च पश्यन्ती रुरोद भृशदुःखिता ॥ आत्मानं निन्दयामास मर्कटी विह्णला सती । आगत्यस सख्या सदनमात्महिंसां निवेदयत् ॥६०॥पापिण्यहं दुराचारा दुर्भगा मृतपुत्रका । ब्रह्महत्या समायुक्ता मरिष्ये नाऽत्र संशय: ॥ इत्याकर्ण्य सखीबाक्यं कुक्कुटी विस्मिताऽभवत् । अपृच्छत्कारणं बिप्र शोकसागरदायकम् ॥ इदं शीलं कथं भद्रे कस्माद द्दष्टासि चात्मजान् । बिभवा राजपत्नी त्वं मान्या मम सखीष्वपि ॥ मर्कटी कुक्कुटीवाक्यं श्रुत्वा वृत्तं निवेदयत् । तच्छुत्वा कुक्कुटी पुत्रै: प्रायश्चित्तमकारयत् ॥ स्मरेदं च व्रतं देव्या कुरु त्वं च यथाविधि । अथ देव्या:प्रसादेन मर्कटी सुषुवे सुतम् । सुन्दरं सुवरं नाम पृथ्वी भारहरं परम् । राजपत्नी विप्रपत्नी सुखिन्यौ सम्बभूवतु: ॥ इह लोके दुःखितस्य अदुःखनवमीव्रतम् । सीतया च कृतं चैव दमयन्त्या कृतं त्विदम् ॥ अन्याभिर्बहुभि: स्त्रीभिर्व्रत चाचरितं त्विदम् । या कराति व्रतमिदं श्रृणोति च कथामिमाम् ॥ अदुःखभाग्भवति सा सत्यं सत्यं वदाम्यहम् । सर्वदुःखहरं लोके किमन्यच्छोतुमिच्छसि ॥ इति श्रीस्कन्दपुराणे व्यासऋषिसंवादे अदुःखनवमीवतकथा समाप्ता ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP