संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चन्द्रालोकः| पञ्चमो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - पञ्चमो मयूखः ‘चंद्रलोक’ कवी जयदेव यांची एक सुमधुर रचना आहे. Tags : chandralokjayadevkavyaकाव्यचंद्रलोकजयदेवसंस्कृत पञ्चमो मयूखः Translation - भाषांतर शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।हारादिवदलङ्कारः सन्निवेशो मनोहरः ॥१॥स्वरव्यञ्जनसंदोह-व्यूहामन्दोहदोहदा ।गौर्जगज्जाग्रदुत्सेका छेकानुप्रासभासुरा ॥२॥आवृत्तवर्णसम्पूर्णं वृत्त्यनुप्रासवद्वचः ।अमन्दानन्दसन्दोह-स्वच्छन्दास्पदमन्दिरम् ॥३॥लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता ।यत्र स्यान्न पुनः शत्रोर्गर्जितं तज्जितं जितम् ॥४॥श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥५॥उपमेयोपमानादावर्थानुप्रास इष्यते ।चन्दनं खलु गोविन्द-चरणद्वन्द्ववन्दनम् ॥६॥पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् ।अंशुकान्तं शशी कुर्वन्नम्बरान्तं उपैत्यसौ ॥७॥आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः ।यमकं प्रथमा धुर्य-माधुर्यवचसो विदुः ॥८॥काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते ।तेष्वाद्यं उच्यते श्लोक-द्वयीसज्जनरञ्जिका ॥९॥कामिनीव भवेत्खड्ग-लेखा चारुकरालिका ।काश्मीरसेका रक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ॥१०॥उपमा यत्र सादृश्य-लक्ष्मीरुल्लसति द्वयोः ।हृदये खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव ॥११॥उपमानोपमेयत्वे यत्रैकस्यैव जागृतः ।इन्दुरिन्दुरिवेत्यादौ भवेदेवं अनन्वयः ॥१२॥पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता ।धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥१३॥विख्यातस्योपमानस्य यत्र स्यादुपमेयता ।इन्दुर्मुखं इवेत्यादौ स्यात्प्रतीपोपमा तदा ॥१४॥उपमाने तु लीलादि-पदाढ्ये ललितोपमा ।त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥१५॥अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा ।श्रितोऽस्मि चरणौ विष्णोर्भृङ्गस्तामरसं यथा ॥१६॥स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता ।पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ॥१७॥यत्रोपमानचित्रेण सर्वथाप्युपरज्यते ।उपमेयमयी भित्तिस्तत्र रूपकं इष्यते ॥१८॥समानधर्मयुक्साध्या-रोपात्सोपाधिरूपकम् ।उत्सिक्तक्षितिभृल्लक्ष्य-पक्षच्छेदपुरन्दरः ॥१९॥पृथक्कथितसादृश्यं दृश्यं सादृश्यरूपकम् ।उल्लसत्पञ्चशाखस्ते राजते भुजभूरुहः ॥२०॥स्यादङ्गयष्टिरित्येवं-विधं आभासरूपकम् ।अङ्गयष्टिधनुर्वल्लीत्य्-आदि रूपितरूपकम् ॥२१॥परिणामोऽनयोर्यस्मिन्नभेदः पर्यवस्यति ।कान्तेन पृष्टा रहसि मौनं एवोत्तरं ददौ ॥२२॥बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता मता ।स्त्रीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ॥२३॥अतथ्यं आरोपयितुं तथ्यापास्तिरपह्नुतिः ।नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥२४॥पर्यस्तापह्नुतिर्यत्र धर्ममात्रं निषिध्यते ।नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥२५॥भ्रान्तापह्नुतिरन्यस्य शङ्कया तथ्यनिर्णये ।तापं तनोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥२६॥छेकापह्नुतिरन्यस्य शङ्कया तथ्यनिह्नवे ।प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥२७॥कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः ।निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥२८॥उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नुतिं विना ।त्वन्मुखश्रीकृते नूनं पद्मैर्वैरायते शशी ॥२९॥इवादिकपदाभावे गूढोत्प्रेक्षां प्रचक्षते ।यत्कीर्तिर्विभ्रमश्रान्ता विवेश स्वर्गनिम्नगाम् ॥३०॥स्यात्स्मृतिभ्रान्तिसंदेहैस्तदेवालंकृतित्रयम् ।पङ्कजं पश्यतस्तस्या मुखं मे गाहते मनः ॥३१॥अयं प्रमत्तमधुपस्त्वन्मुखं वेद पङ्कजम् ।पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥३२॥मीलितं बहुसादृश्याद्भेदवच्चेन्न लक्ष्यते ।रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥३३॥सामान्यं यदि सादृश्याद्भेद एव न लक्ष्यते ।पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥३४॥हेतोः कुतोऽपि वैशिष्ट्यात्स्फूर्तिरुन्मीलितं मतम् ।लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥३५॥अनुमानं च कार्यादेः कारणाद्यवधारणम् ।अस्ति किञ्चिद्यदनया मां विलोक्य स्मितं मनाक् ॥३६॥अर्थापत्तिः स्वयं सिध्येत्पदार्थान्तरवर्णनम् ।स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥३७॥स्यात्काव्यलिङ्गं वागर्थो नूतनार्थसमर्थकः ।जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ॥३८॥अलङ्कारः परिकरः साभिप्राये विशेषणे ।सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥३९॥साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः ।चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥४०॥अक्रमातिशयोक्तिश्चेद्युगपत्कार्यकारणे ।आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥४१॥अत्यन्तातिशयोक्तिस्तत्-पौर्वापर्यव्यतिक्रमे ।अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥४२॥चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।यामीति प्रियपृष्टाया वलयोऽभवदूर्मिका ॥४३॥सम्बन्धातिशयोक्तिः स्यात्तदभावेऽपि तद्वचः ।पश्य सौधाग्रसंसक्तं विभाति विधुमण्डलम् ॥४४॥भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते ।अहो अन्यैव लावण्य-लीला बालाकुचस्थले ॥४५॥रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम् ।पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ॥४६॥प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वावकल्पनम् ।कलिन्दजातीररुहाः श्यामलाः सरलद्रुमाः ॥४७॥सम्भावनं यदीत्थं स्यादित्यूहोन्यप्रसिद्धये ।सिक्तं स्फटिककुम्भान्तः-स्थितिश्वेतीकृतैर्जलैः ।मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥४८॥वाञ्छितादधिकप्राप्तिरयत्नेन प्रहर्षणम् ।दीपं उद्द्योतयेद्यावत्तावदभ्युदितो रविः ॥४९॥इष्यमाणविरुद्धार्थ-सम्प्राप्तिस्तु विषादनम् ।दीपं उद्द्योतयेद्यावत्तावन्निर्वाण एव सः ॥५०॥क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता ।सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च ।प्राचीनाचलचूडाग्र-चुम्बिबिम्बे सुधाकरे ॥५१॥प्रस्तुताप्रस्तुतानां च तुल्यत्वे दीपकं मतम् ।मेधां बुधः सुधां इन्दुर्बिभर्ति वसुधां भवान् ॥५२॥आवृत्ते दीपकपदे भवेदावृत्तिदीपकम् ।दीप्त्याग्निर्भाति भातीन्दुः कान्त्या भाति रविस्त्विषा ॥५३॥वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मता ।तापेन भ्राजते सूरः शूरश्चापेन राजते ॥५४॥चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः ।स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्धामहुंकृतिः ॥५५॥दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मृष्टा दैवदुर्लिपिः ।जाता चेत्प्राक्प्रभा भानोस्तर्हि याता विभावरी ॥५६॥वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।या दातुः सौम्यता सेयं सुधांशोरकलङ्कता ॥५७॥व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ॥५८॥सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः ।दिगन्तं अगमद्यस्य कीर्तिः प्रत्यर्थिभिः सह ॥५९॥विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनं उच्यते ।विद्या हृद्यापि सावद्या बिना विनयसम्पदम् ॥६०॥समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।अयं ऐन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥६१॥खण्डश्लेषः पदानां चेदेकैकं पृथगर्थता ।उच्छलद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥६२॥भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता ।अजरामरता कस्य नायोध्येव पुरी प्रिया ॥६३॥अर्थश्लेषोऽर्थमात्रस्य यद्यनेकार्थसंश्रयः ।कुटिलाः श्यामला दीर्घा कटाक्षाः कुन्तलाश्च ते ॥६४॥अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा ।कार्यकारणसामान्य-विशेषादेरसौ मता ॥६५॥कमलैः कमलावासैः किं किं नासादि सुन्दरम् ।अप्यम्बुधेः परं पारं प्रयान्ति व्यवसायिनः ॥६६॥भवेदर्थान्तरन्यसोऽनुषक्तार्थान्तराभिधा ।हनूमानब्धिं अतरद्दुष्करं किं महात्मनाम् ॥६७॥यस्मिन्विशेषसामान्य-विशेषाः स विकस्वरः ।स न जिग्ये महान्तो हि दुर्धर्षाः क्ष्माधरा इव ॥६८॥कार्याद्यैः प्रस्तुतैरुक्तैः पर्यायोक्तिं प्रचक्षते ।तृणान्यङ्कुरयामास विपक्षनृपसद्मसु ॥६९॥उक्तिर्व्याजस्तुतिर्निन्दा-स्तुतिभ्यां स्तुतिनिन्दयोः ।कस्ते विवेको नयसि स्वर्गं पातकिनोऽपि यत् ॥७०॥आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् ।चन्द्र संदर्शयात्मानं अथवास्ति प्रियामुखम् ॥७१॥गूढाक्षेपो विधौ व्यक्ते निषेधे चास्फुटे सति ।हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् ॥७२॥विरोधोऽनुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु ।अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ॥७३॥श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता ।अप्यन्धकारिणानेन जगदेतत्प्रकाशते ॥७४॥असंभवोऽर्थनिष्पत्तावसंभाव्यत्ववर्णनम् ।को वेद गोपशिशुकः शैलं उत्पाटयिष्यति ॥७५॥विभावना विनापि स्यात्कारणं कार्यजन्म चेत् ।पश्य लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ॥७६॥विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे ।नमन्तं अपि धीमन्तं न लङ्घयति कश्चन ॥७७॥आख्याते भिन्नदेशत्वे कार्यहेत्वोरसंगतिः ।त्वद्भक्तानां नमत्यङ्गं भङ्गं एति भवक्लमः ॥७८॥विषमं यद्यनौचित्यादनेकान्वयकल्पनम् ।क्वातितीव्रविषाः सर्पाः क्वासौ चन्दनभूरुहः ॥७९॥समं औचित्यतोऽनेक-वस्तुसम्बन्धवर्णनम् ।अनुरूपं कृतं सद्म हारेण कुचमण्डलम् ॥८०॥विचित्रं चेत्प्रयत्नः स्याद्विपरीतफलप्रदः ।नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ॥८१॥अधिकं बोध्यं आधारादाधेयाधिकवर्णनम् ।यया व्याप्तं जगत्तस्यां वाचि मान्ति न ते गुणाः ॥८२॥अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् ।त्रियामा शशिना भाति शशी भाति त्रियामया ॥८३॥विशेषः ख्यातं आधारं विनाप्याधेयवर्णनम् ।गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥८४॥स्याद्व्याघातोऽन्यथाकारि वस्त्वन्यक्रियं उच्यते ।यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥८५॥गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः ।नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥८६॥गृहीतमुक्तरीत्यर्थ-श्रेणिरेकावली मता ।नेत्रे कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ ॥८७॥दीपकैकावलीयोगान्मालादीपकं उच्यते ।स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥८८॥सारो नाम पदोत्कर्षः सारताया यथोत्तरम् ।सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ॥८९॥उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः ।मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः ॥९०॥यथासंख्यं द्विधार्थाश्चेत्क्रमादेकैकमन्विताः ।शत्रुं मित्रं द्विषत्पक्षं जय रञ्जय भञ्जय ॥९१॥पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः ।पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥९२॥परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः ।जग्राहैकं शरं मुक्त्वा कटाक्षान्शत्रुयोषिताम् ॥९३॥परिसंख्या निषिध्यैकं अन्यस्मिन्वस्तुयन्त्रणम् ।स्नेहक्षयः प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् ॥९४॥विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः ।कान्ताचित्तेऽधरे वापि कुरु त्वं वीतरागताम् ॥९५॥भूयसां एकसम्बन्ध-भाजां गुम्फः समुच्चयः ।नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥९६॥समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः ।उत्कण्ठितां च कलयन्जगामास्तं च भानुमान् ॥९७॥प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः ।जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यां अधःकृतौ ॥९८॥प्रतीपं उपमानस्य हीनत्वं उपमेयतः ।दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥९९॥उल्लासोऽन्यमहिम्ना चेद्दोषो ह्यन्यत्र वर्ण्यते ।तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ॥१००॥तद्गुणः स्वगुणत्यागादन्यतः स्वगुणोदयः ।पद्मरागारुणं नासा-मौक्तिकं तेऽधरश्रितम् ॥१०१॥पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता ।हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥१०२॥यद्वस्तुनोऽन्यथा रूपं तथा स्यात्पूर्वरूपता ।दीपे निर्वापिते ह्यासीत्काञ्चीरत्नैरहर्महः ॥१०३॥सङ्गतान्यगुणानङ्गी-कारं आहुरतद्गुणम् ।विशन्नपि रवेर्मध्यं शीत एव सदा शशी ॥१०४॥प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः ।कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ॥१०५॥अवज्ञा वर्ण्यते वस्तु गुणदोषाक्षमं यदि ।म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥१०६॥प्रश्नोत्तरं क्रमेणोक्तौ स्यूतं उत्तरं उत्तरम् ।यत्रासौ वेतसी पान्थ तत्रासौ सुतरा सरित् ॥१०७॥पिहितं परवृत्तान्त-ज्ञातुरन्यस्य चेष्टितम् ।प्रिये गृहागते प्रातः कान्ता तल्पं अकल्पयत् ॥१०८॥व्याजोक्तिः शङ्कमानस्य छद्मना वस्तुगोपनम् ।सखि पश्य गृहाराम-परागैरस्मि धूसरा ॥१०९॥वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् ।मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके ॥११०॥स्वाभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम् ।कुरङ्गैरुत्तरङ्गाक्षि स्तब्धकर्णैरुदीक्ष्यते ॥१११॥भाविकं भूतभाव्यर्थ-साक्षाद्दर्शनवर्णनम् ।अलं विलोकयाद्यापि युद्ध्यन्तेऽत्र सुरासुराः ॥११२॥देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः ।त्वं वसन्हृदये तस्याः साक्षात्पञ्चेषुरीक्ष्यसे ॥११३॥उदात्तं ऋद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् ।सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः ॥११४॥अत्युक्तिरद्भुतातथ्य-शौर्यौदार्यादिवर्णनम् ।त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥११५॥रसभावतदाभास-भावशान्तिनिबन्धनाः ।रसवत्प्रेयऊर्जस्वि-समाहितमयाभिधाः ॥११६॥भावानामुदयः सन्धिः शबलत्वं इति त्रयः ।अलङ्कारानिमान्सप्त केचिदाहुर्मनीषिणः ॥११७॥शुद्धिरेकप्रधानत्वं तथा संसृष्टिसंकरौ ।एतेषां एव विन्यासान्नालङ्कारान्तराण्यमी ॥११८॥सर्वेषां च प्रतिद्वन्द्व-प्रतिच्छन्दभिदाभृताम् ।उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि संभवात् ॥११९॥माला परंपरा चैषां भूयसां अनुकूलके ।मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते ॥१२०॥शब्दे पदार्थे वाक्यार्थे वाक्यार्थस्तबके तथा ।एते भवन्ति विन्यासाः स्वभावातिशयात्मकाः ॥१२१॥कस्याप्यतिशयस्योक्तेरित्यन्वर्थविचारणात् ।प्रायेणामी ह्यलंकारा भिन्ना नातिशयोक्तितः ॥१२२॥अलंकारप्रधानेषु दधानेष्वपि साम्यताम् ।वैलक्षण्यं प्रतिव्यक्ति प्रतिभाति मुखेष्विव ॥१२३॥अलंकारेषु तथ्येषु यद्यनास्था मनीषिणाम् ।तदर्वाचीनभेदेषु नाम्नां नाम्नाय इष्यताम् ॥१२४॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।चतुर्थः सैकोयं सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥१२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP