संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|चन्द्रालोकः| द्वितीयो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - द्वितीयो मयूखः ‘चंद्रलोक’ कवी जयदेव यांची एक सुमधुर रचना आहे. Tags : chandralokjayadevkavyaकाव्यचंद्रलोकजयदेवसंस्कृत द्वितीयो मयूखः Translation - भाषांतर स्याच्चेतो विशता येन सक्षता रमणीयता ।शब्देऽर्थे च कृतोन्मेषं दोषं उद्घोषयन्ति तम् ॥१॥भवेच्छ्रुतिकटुर्वर्णः श्रवणोद्वेजने पटुः ।संविद्रते व्याकरण-विरुद्धं च्युतसंस्कृति ॥२॥अप्रयुक्तं दैवतादि-शब्दे पुंल्लिङ्गतादिकम् ।असमर्थं तु हन्त्यादेः प्रयोगो गमनादिषु ॥३॥स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः ।निहतार्थं लोहितादौ शोणितादिप्रयोगतः ॥४॥व्यनक्त्यनुचितार्थं यत्पदं आहुस्तदेव तत् ।इयं अद्भुतशाख्यग्र-केलिकौतुकवानरी ॥५॥निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ।अर्थे विदधदित्यादौ दधदाद्यं अवाचकम् ॥६॥धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ।एकाक्षरं विना भूभ्रू-क्ष्मादिकं खतलादिवत् ॥७॥अश्लीलं त्रिविधं व्रीडा-जुगुप्सामङ्गलात्मना ।आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥८॥स्याद्द्व्यर्थं इह सन्दिग्धं नद्यां यान्ति पतत्रिणः ।स्यादप्रतीतं शास्त्रैक-गम्यं वीतानुमादिवत् ॥९॥शिथिलं शयने लिल्ये मच्चितं ते शशिश्रियि ।मस्तपिष्टकटीलोष्ट-गल्लादि ग्राम्यं उच्यते ॥१०॥नेयार्थं लक्षणात्यन्त-प्रसरादमनोहरम् ।हिमांशोर्हारधिक्कार-जागरे यामिकाः कराः ॥११॥क्लिष्टं अर्थो यदीयोऽर्थ-श्रेणिनिःश्रेणिं ऋच्छति ।हरिप्रियापितृवधू-प्रवाहप्रतिमं वचः ॥१२॥अविमृष्टविधेयांशः समासपिहिते विधौ ।विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥१३॥अपराधीन इत्यादि विरुद्धमतिकृन्मतम् ।अन्यसङ्गतं उत्तुङ्ग-हारशोभिपयोधरौ ॥१४॥रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः ।न मां अङ्गद जानासि रावणं रणदारुणम् ॥१५॥यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा ।कुसन्धिः पटवागच्छ विसन्धिर्नृपती इमौ ॥१६॥हतवृत्तं अनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् ।विशाललोचने! पश्याम्बरं तारातरङ्गितम् ॥१७॥न्यूनं त्वत्खड्गसंभूत-यशःपुष्पं नभस्तटम् ।अधिकं भवतः शत्रून्दशत्यसिलताफणी ॥१८॥कथितं पुनरुक्ता वाक्श्यामाब्जश्यामलोचना ।विकृतं दूरविवृतैरैयरुः कुञ्जराः पुरम् ॥१९॥पतत्प्रकर्षं हीनानु-प्रासादित्वे यथोत्तरम् ।गम्भीरारम्भदम्भोलि-पाणिरेषः समागतः ॥२०॥समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् ।नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः ॥२१॥अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् ।मोघारम्भं स्तुमः शम्भुं अर्धरम्भोरुविग्रहम् ॥२२॥अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः ।येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥२३॥द्विषां सम्पदं आच्छिद्य यः शत्रून्समपूरयत् ।अस्थानस्थसमासं न विद्वज्जनमनोरमम् ॥२४॥मिथः पृथग्वाक्यपदैः संकीर्णं यत्तदेव तत् ।वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ॥२५॥ब्रह्माण्डं त्वद्यशःपूर-गर्भितं भूमिभूषण ।आकर्णय पयःपूर्ण-सुवर्णकलशायते ॥२६॥भग्नप्रक्रमं आरब्ध-शब्दनिर्वाहहीनता ।अक्रमः कृष्ण पूज्यन्ते त्वां अनभ्यर्च्य देवताः ॥२७॥अमतार्थान्तरं मुख्येऽमुख्येनार्थे विरोधकृत् ।त्यक्तहारं उरःकृत्वा शोकेनालिङ्गिताङ्गना ॥२८॥अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् ।विशन्ति हृदयं कान्ता-कटाक्षाः खञ्जनत्विषः ॥२९॥कष्टः स्पष्टावबोधार्थं अक्षमो वाच्यसन्निभः ।व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः ॥३०॥सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते ।कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ॥३१॥दुष्क्रमग्राम्यसन्दिग्धास्त्रयो दोषाः क्रमादमी ।त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गं एव वा ॥३२॥एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् ।ब्रूत किं सेव्यतां चन्द्र-मुखीचन्द्रकिरीटयोः ॥३३॥अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ।प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ॥३४॥न्यस्तेयं पश्य कन्दर्प-प्रतापधवलद्युतिः ।केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् ॥३५॥सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा ।विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि ॥३६॥तथा सहचराचारु-विरुद्धान्योन्यसंगती ।ध्वाङ्क्षाः सन्तश्च तनयं स्वं परं च न जानते ॥३७॥सरोजनेत्र पुत्रस्य मुखेन्दुं अवलोकय ।पालयिष्यति ते गोत्रं असौ नरपुरन्दरः ॥३८॥पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके ।यथानुसारं अभ्यूहेद्दोषान्शब्दार्थसंभवान् ॥३९॥दोषं आपतितं स्वान्ते प्रसरन्तं विशृङ्खलम् ।निवारयति यस्त्रेधा दोषाङ्कुशं उशन्ति तम् ॥४०॥दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति ।भवन्तं अथवा दोषं नयत्यत्याज्यतामसौ ॥४१॥मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः ।अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ॥४२॥तव दुग्धाब्धिसंभूतेः कथं जाता कलाङ्किता ।कवीनां समयाद्विद्या-विरुद्धोऽदोषतां गतः ॥४३॥दधार गौरी हृदये देवं हिमकराङ्कितम् ।अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम् ॥४४॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥४५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP