संस्कृत सूची|शास्त्रः|कामशास्त्रः|स्मरदीपिका| सूत्र ४ स्मरदीपिका सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ स्मरदीपिका - सूत्र ४ स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है। Tags : kamasutrashastrasmaradipikaकामसूत्रशास्त्रस्मरदीपिका सूत्र ४ Translation - भाषांतर रसिकेन रसज्ञेन सततं रतिं इच्छता ।गाढं आलिङ्गनं देयं तत्सख्या ह्यनुरागतः ॥७६॥गले वक्षःस्थले कुक्षौ कण्ठपार्श्वे भगे तथा ।जघनोरुनितम्बेषु पृष्ठे हस्ते शिरःसु च ॥७७॥कण्ठमूले कपोले च नखक्षतं अथाचरेत् ॥७८॥कक्षाकण्ठकपोलेषु नाभिश्रोणिकुचौ तथा ।भगस्कन्धौ कर्णमूलौ त्रयोदश नखालयः ॥७९॥स्थानेष्वेतेषु कुक्षौ च नखचाटुं समाचरेत् ।रोमाञ्चहेतुसुखदं मदनोद्दीपनं मतम् ॥८०॥इत्थं च मन्मथोत्पन्ने केलिं कुर्यात्तथैव च ।स्तनयोर्युगयोश्चैव सनाभिकभगस्थले ॥८१॥जघनोरुनितम्बेषु कामुको मुहुरर्पयेत् ॥८२॥भुजयोः स्तनयोश्चैव भगे नाभौ तथैव च ।षट्सु स्थानेषु विधिना मर्दनं परिकीर्तितम् ॥८३॥कक्षाकण्ठकपोलेषु नाभौ श्रोण्यां पयोधरे ।कर्णमूले तथा स्कन्धे चुम्बनं द्वादशस्थले ॥८४॥गण्डौष्ठं च तथा वक्त्रं कक्षा नाभिर्भगस्तथा ।कुचौ च बाहुमूलं च द्वादशैतानि चुम्बनम् ॥८५॥गण्डौ नेत्रे तथा वक्त्रं कक्षा नाभिर्भगस्तथा ।कुचौ च बाहुमूलं च स्थानान्येतानि चुम्बने ॥८६॥अधरौष्ठे च सम्पीड्य नायको नायिकाधरम् ।पूर्णचन्द्रनिभं पेयान्नार्याश्च सरसं मुखम् ॥८७॥पयोधरौष्ठजिह्वाया द्वयोरेव कुचाग्रयोः ।पञ्चस्थानस्य वै पानं कुर्यात्कृशविचक्षणः ॥८८॥ओष्ठेन चौष्ठग्रहणपूर्वकं केशकर्षणम् ।शिरःप्रदेशे कृत्वा तां उपविष्टां च कारयेत् ॥८९॥यथा कोकिलशब्दः स्याद्यथा पारावतध्वनिः ।यथा हंसमयूरादेः कलरावं तथा चरेत् ॥९०॥मुष्टामुष्टिनितम्बे च कुर्याच्चैव परस्परम् ।उपहस्तेनाबलायास्ताडयेज्जघनद्वये ॥९१॥भगगर्भस्य मध्ये तु नाडिका ध्वजरूपिणी ।पूर्णा कामजलैर्नित्यं वामस्था मृदुपीवरा ।मर्दिता चाङ्गुलीभ्यां तु जनयेत्कामजं जलम् ॥९२॥तत्र एकविंशतिप्रकारः ।तेषां नामानि काकपदः विपरीतकः नागरिकः रतिपाशः केयूरः प्रियतोषणं समपदः एकपदः ऊर्ध्वसंपुटः संपुटकः मन्मथप्रियः रतिसुन्दरः उरुपीडनः स्मरचक्रं नागपाशकः गगनकः वंशदारकः कनकक्षयः नागरः कुलिशनामकः कामसुन्दर इति ।यथाक्रमं तेषां लक्षणान्यप्याह ।स्त्रीपादौ स्कन्धयुग्मस्थौ क्षिप्त्वा ध्वजं भगं लघु ।कामयेत्कामुको नारीं बन्धः काकपदो हि सः ॥९३॥पादं एकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् ।नारीं कामयते कामी बन्धः स्याद्विपरीतकः ॥९४॥ऊरुमूलोपरि न्यस्य योषिदूरुं नरो यदि ।ग्रीवां धृत्वा कराभ्यां तु बन्धो नागरिको मतः ॥९५॥पीडयेदूरुयुग्मेन कामुकं यदि कामिनी ।रतिपाशस्तदा ख्यातः कामिनीनां मनोहरः ॥९६॥स्त्रीणां जङ्घान्तराविष्टो गाढालिङ्ग्य च सुन्दरीम् ।रमते विह्वलः कामी बन्धः केयूरसंज्ञकः ॥९७॥नरीपादौ स्वहस्तेन हृदये धारयेद्यदि ।स्तनार्पितकरः कामी कामयेत्प्रियतोषणम् ॥९८॥योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कुचौ ।यथेष्टं ताडयेद्योनौ बन्धः समपदः स्मृतः ॥९९॥पादं एकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् ।स्तनार्पितकरः कामी बन्धस्त्वेकपदो हि सः ॥१००॥ N/A References : N/A Last Updated : June 27, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP