संस्कृत सूची|शास्त्रः|कामशास्त्रः|स्मरदीपिका| सूत्र २ स्मरदीपिका सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ स्मरदीपिका - सूत्र २ स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है। Tags : kamasutrashastrasmaradipikaकामसूत्रशास्त्रस्मरदीपिका सूत्र २ Translation - भाषांतर लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः ॥२६॥द्वादशाङ्गुलमेढ्रस्तु कुशलोऽपि हयो मतः ॥२७॥इति पुरुषलक्षणानि चत्वारि ॥२८॥अथ स्त्रीणां जातिचतुष्टयप्रकरणम् ।पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।प्रत्येकं च वरस्त्रीणां ख्यातं जातिचतुष्टयम् ॥२९॥पद्मिनी यथा भवति कमलनेत्रा नासिकादूर्ध्वरन्ध्रा अविरलकुचयुग्मा दीर्घकेशा कृशाङ्गी ॥३०॥मृदुगमनसुशीला नृत्यगीतानुरक्ता सकलगुणसुवेषा पद्मिनी पद्मगन्धा ॥३१॥शशिवदना बिम्बौष्ठी तन्वी ताम्रनखी तथा ।मन्दगा लज्जिता श्यामा रक्तप्रान्तविलोचना ॥३२॥गायनी सुरताढ्या च पारावतकलस्वना ।स्वल्पाहारा सुकेशी च पद्मगन्धा च पद्मिनी ॥३३॥चित्रिणी यथा भवति विपुलकेशा नातिदीर्घा न खर्वा तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी ॥३४॥कठिनघनकुचाढ्या सुन्दरी बन्धशीला निखिलगुणविचित्रा चित्रिणी चित्रवेषा ॥३५॥गौराङ्गी त्यक्तलज्जा च बाह्यसंभोगसंरता ।उत्तानशायिनी चोष्णा पारावतकलस्वना ॥३६॥स्निग्धाङ्गी मांसगन्धा च स्वल्पकामा कृशोदरी ।धूर्ता गुरुनितम्बा च चित्रिणी श्रीफलस्तनी ॥३७॥दीर्घाकृतिदीर्घसुवर्णनेत्रा दीर्घाधरा दीर्घनितम्बबिम्बा ।लेषातपालङ्कृतकण्ठदेशा पुंसैकचित्ता खलु शङ्खिनी स्यात् ॥३८॥शोभना कोमला चोष्णा दीर्घा दीर्घशिरोरुहा ।मृद्वङ्गी क्षारगन्धा च नातिस्थूला न दुर्बला ॥३९॥गौराङ्गी तीक्ष्णनासा च पीनस्तनी विचक्षणा ।विशालजघना क्रूरा सुरताढ्या च शङ्खिनी ॥४०॥हस्तिनी यथा स्थूलाकृतिः स्थूलपयोधरा च स्थूलाधरा स्थूलनितम्बबिम्बा ।कामोत्सुका गाढरतिप्रिया च मध्ये च पुष्टा करिणी मता च ॥४१॥स्थूला कठिनकुचा क्रूरा नात्युष्णा नातिशीतला ।गौराङ्गी क्षीणनासा च पीनस्तनविलक्षणा ॥४२॥विशालजघना क्रूरा फुल्लनासातिशीतला ।खर्वा च खर्वनासा च बहुलोमा च कामुकी ॥४३॥मदगन्धतनुर्नित्यं मत्तमातङ्गगामिनी ।लुब्धा पीनस्तनी क्रुद्धा हस्तिनी सा प्रकीर्तिता ॥४४॥पद्मिनी पिकवाणी च स्निग्धवाणी च चित्रिणी ।शङ्खिनी क्रूरवाणी च मेघवाणी च हस्तिनी ॥४५॥पद्मिनी पादशोभा च केशशोभा च चित्रिणी ।शङ्खिनी मुखशोभा च कटिशोभा च हस्तिनी ॥४६॥पद्मिनी पद्मगन्धा च क्षीरगन्धा च चित्रिणी ।शङ्खिनी मीनगन्धा च मदगन्धा च हस्तिनी ॥४७॥पद्मिनी पद्मनिद्रा च दीर्घनिद्रा च चित्रिणी ।शङ्खिनी घोरनिद्रा च गजनिद्रा च हस्तिनी ॥४८॥पद्मिनी पद्मबन्धेन नागबन्धेन चित्रिणी ।शङ्खिनी मीनबन्धेन गजबन्धेन हस्तिनी ॥४९॥पद्मिनी स्वल्पभोगा च लघुभोगा च चित्रिणी ।शङ्खिनी बहुभोगा च गजभोगा च हस्तिनी ॥५०॥ N/A References : N/A Last Updated : June 27, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP