संस्कृत सूची|शास्त्रः|कामशास्त्रः|स्मरदीपिका| सूत्र १ स्मरदीपिका सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ स्मरदीपिका - सूत्र १ स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है। Tags : kamasutrashastrasmaradipikaकामसूत्रशास्त्रस्मरदीपिका सूत्र १ Translation - भाषांतर अर्द्धं नारीशरीरं हि यश्च तस्मै नमोऽस्तु ते ॥१॥सम्यगाराधितः कामः सुगन्धिकुसुमादिभिः ।विदधाति वरस्त्रीणां मानग्रन्थिविमोचनम् ॥२॥स्मरन्निर्जित्य रुद्रेण पश्चादुद्दीपितः स्मरः ।तेन तन्नामधेयेन निर्मिता स्मरदीपिका ॥३॥अनेककामशास्त्राणां सारं आकृष्य यत्नतः ।बालव्युत्पत्तये स्त्रीणां चित्तसन्तोषणाय च ।प्रबोधाय वरस्त्रीणां तुष्ट्यै रतिसुखाय च ॥४॥गर्गेणाभाषितां सम्यग्वक्ष्यामि स्मरदीपिकाम् ।यस्य विज्ञानमात्रेण मूर्खोऽपि रतिरङ्गधीः ॥५॥बालिका तरुणी प्रौढा वृद्धा चेति विशेषतः ।ज्ञातव्यो ह्यन्वितः कामो ध्रुवं शृङ्गारं इच्छता ॥६॥कामशास्त्रस्य तत्त्वज्ञा जायन्ते सुन्दरीप्रियाः ।कामशास्त्रं अजानन्तो रमन्ते पशुवत्स्त्रियम् ॥७॥नानानिबन्धैः सुरतोपचारैः क्रीडासुखं जन्मफलं नराणाम् ।किं सौरभेयीशतमध्यवर्ती वृषोऽपि संभोगसुखं न भुङ्क्ते ॥८॥स्वनारीरक्षणं पुंसां परनार्यनुरञ्जनम् ।बन्धभेदेङ्गितज्ञानं एतत्फलं उदाहृतम् ॥९॥येन संवत्सरो दृष्टः सकृत्कामः सुसेवितः ।तेन सर्वं इदं दृष्टं पुनरावर्तितं जगत् ॥१०॥प्रथमं लक्षणं पुंसां स्त्रीणां च तदनन्तरम् ।ध्वजस्य लक्षणं प्रोक्तं भगलक्षणसंयुतम् ॥११॥कामस्थानानि संलक्ष्य पुनः सम्यक्प्रचालनम् ।पुनः षोडश बन्धाश्च तथैवाधोमुखाश्च षट् ॥१२॥द्वौ बन्धौ सुन्दरीणां च पश्चान्मुखरतं तथा ।बाह्यं रतं ततः कुर्याद्रतं देशविशेषजम् ॥१३॥इङ्गितस्य परिज्ञानं दूत्याश्च तदनन्तरम् ।तथाष्टनायिकायाश्च मन्त्रौषधिसुतोदयः ॥१४॥शशो मृगो वृषश्चैव चतुर्थस्तु हयस्तथा ।कथयामि क्रमात्पुंसां एतज्जातिचतुष्टयम् ॥१५॥मृदुचपलसुशीलः कोमलाङ्गः सुवेषः सकलगुणनिधानं सत्यवादी शशोऽसौ ॥१६॥वदति मधुरवाणीं नृत्यगीतानुरक्तः ।द्विजसुरगुरुभक्तो बन्धुयुक्तो धनाढ्यः ॥१७॥स्त्रीजितो गायनश्चैव नारीसत्त्वपरः सुखी ।षडङ्गुलो भवेन्मेढ्रः श्रीमांश्च शशको मतः ॥१८॥वदति मधुरवाणीं रक्तनेत्रः सुशीलः चलमतिरतिभीरुः शीघ्रगामी मृगोऽसौ ॥१९॥उदरकटिकृशः स्याद्दीर्घबिम्बाधरौष्ठो दशनवदनदीर्घो दीर्घबाहुः प्रतापी ॥२०॥अल्पभुग्धार्मिकश्चैव सत्यवादी प्रियंवदः ।अष्टाङ्गुलो भवेन्मेढ्रो रूपयुक्तो मृगो मतः ॥२१॥वृषो यथा उदरकटिकृशास्यः शीघ्रगामी नतांसः कनकरुचिरदेहः कष्टवादी वृषोऽसौ ॥२२॥व्यसनकृपणबुद्धिः स्त्रीवशः स्त्रीविलासो बहुगुणबहुतेजाः दीर्घनेत्रोऽभिमानी ॥२३॥उपकारपरो नित्यं स्त्रीवशी श्लेष्मलस्तथा ।लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः ।दशाङ्गुलशरीरस्तु मेदस्वी वृषभो मतः ॥२४॥हयो यथा उदरकटिकृशास्यो दीर्घकण्ठाधरोष्ठः ।दशनवदननेत्रं तस्य दीर्घोऽपि नाभिः ॥२५॥ N/A References : N/A Last Updated : June 27, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP