अधिकरणम् २ - अध्यायः ५

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


उत्तरौष्ठं अन्तरःमुखं नयनं इति मुक्त्वा चुम्बनवद्दशनरदनस्थानानि ॥१॥

समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निशःछिद्रास्तीक्ष्णाग्रा इति दशनगुणाः ॥२॥

कुण्ठा राज्युद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः ॥३॥

[१] गूढकं [२] उच्छूनकं (१४) [३] बिन्दुर्[४] बिन्दुमाला [५] प्रवालमणिर्[६] मणिमाला [७] खण्डाभ्रकं [८] वराहचर्वितकं इति दशनच्छेदन्विकल्पाः ॥४॥

नातिलोहितेन रागमात्रेण विभावनीयं [१] गूढकम् ॥५॥

तदेव पीडनाद्[२] उच्छूनकम् ॥६॥

तदुभयं बिन्दुरधरमध्य इति ॥७॥

उच्छूनकं प्रवालमणिश्च कपोले ॥८॥

कर्णपूरचुम्बनं नखदशनच्छेद्यं इति सव्यकपोलमण्डनानि ॥९॥

दन्तौष्ठसंयोगाभ्यासनिष्पादनत्वात्[५] प्रवालमणिसिद्धिः ॥१०॥

सर्वस्येयं [६] मणिमालायाश्च ॥११॥

अल्पदेशायाश्च त्वचो दशनद्वयसंदंशजा [३] बिन्दुसिद्धिः॥ ।१२॥

सर्वैर्[४] बिन्दुमालायाश्च ॥१३॥

तस्मान्मालाद्वयं अपि गलकक्षवंक्षणप्रदेशेषु ॥१४॥

ललाटे चोर्वोर्बिन्दुमाला ॥१५॥

मण्दलं इव विषमकूटकयुक्तं [७] खण्डाभ्रकं स्तनपृष्ठ एव ॥१६॥

संहताः प्रदीर्घा बह्व्यो दशनपदराजयस्ताम्रान्तराला [८] वराहचर्वितकम् । स्तनपृष्ठ एव ॥१७॥

तदुभयं अपि चण्डवेगयोः ॥१८॥

चिति दशनच्छेद्यानि ॥१८॥

विशेषके कर्णपूरे पुष्पपीडे ताम्बूलपलाशे तमालपत्त्रे चेति प्रयोज्यागामिषु नखदशन च्छेद्यादीन्यभियोगिकानि ॥१९॥

(प्रकरण)१२

देशसात्म्याच्च योषित उपचरेत् ॥२०॥

मध्यदेश्या आर्यप्रायाः शुच्युपचाराश्चुम्बननखदन्तपदद्वेषिण्यः ॥२१॥

बाह्लीकदेश्या आवान्तिकाश्च ॥२२॥

चित्ररतेषु त्वासां अभिनिवेशः ॥२३॥

परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहनणसाध्या मालव्य आभीर्यश्च ॥२४॥

सिन्धुषष्टःआनां च नदीनां अन्तरालीया औपरिष्टकसात्म्याः ॥२५॥

चण्डवेगा मन्दसीत्कृता आपरान्तिका लाट्यश्च ॥२६॥

दृढप्रहणनयोगिन्यः खरवेगा एव अपद्रव्यप्रधानाः स्त्रीराज्ये कोशालायां च ॥२७॥

प्रकृत्या मृद्व्यो रतिप्रिया अःशुचिरुचयो निरःआचाराश्च आन्ध्र्यः ॥२८॥

सकलचतुःषश्टिप्रयोगरागिण्योऽश्लीलपरुषवाक्यप्रियाः शयने च सःरभसोपक्रमा महाराष्ट्रिकाः ॥२९॥

तथाविधा एव रहसि प्रकाशन्ते नागरिकाः (१५) ॥३०॥

मृद्यमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः मध्यमवेगाः सर्वसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहासिन्यः कुत्सिताश्लीलपरुष परिहारिण्यो वानवासिकाः ॥३१॥

मृदुभाषिण्योऽनुरागवत्यो मृद्व्यङ्ग्यश् (१६) च गौड्यः ॥३३॥

देशसात्म्यात्प्रकृतिसात्म्यं बलीय इति सुवर्णनाभः । न तत्र देश्या उपचाराः ॥३४॥

कालयोगाच्च देशाद्देशान्तरं उपचारवेषलीलाश्चानुगच्छन्ति तच्च विद्यात् ॥३५॥

उपगूहनादिषु च रागवर्धनं पूर्वं पूर्वं विचित्रं उत्तरं उत्तरं च ॥३६॥

व्वार्यमाणश्च पुरुषो यत्कुर्यात्तदनु क्षतम् । अःमृष्यमाणा द्विगुणं तदेव प्रतियोजयेत् ॥३७॥

व्बिन्दोः प्रतिक्रिया माला मालायाश्चाभ्रखण्डकम् । इति क्रोधादिवाविष्टा कलहान्प्रतियोजयेत् ॥३८॥

व्सकचग्रहं उन्नम्य मुखं तस्य ततः पिबेत् । निलीयेत दशेच्चैव तत्र तत्र मदेरिता ॥३९॥

वुन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम् । मणिमालां प्रयुञ्जीत यच्चन्यदपि लक्षितम् ॥४०॥

व्दिवापि जनसंबाधे नायकेन प्रदर्शितम् । उद्दिश्य स्वकृतं चिह्नं हसेदन्यैरःलक्षिता ॥४१॥

व्विकूणयन्तीव (१७) मुखं कुत्सयन्तीव (१८) नायकम् । स्वगात्रस्थानि चिह्नानि सासूयेव प्रदर्शयेत् ॥४२॥

व्परस्परानुकूल्येन तदेवं लज्जमानयोः । संवत्सरशतेनापि प्रीतिर्न परिहीयते ॥४३॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः । आदितो दशमः ॥५॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP