संस्कृत सूची|शास्त्रः|कामसूत्रम्|अधिकरणम् २| अध्यायः २ अधिकरणम् २ अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अधिकरणम् २ - अध्यायः २ महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे. Tags : kamasutrashastraकामसूत्रशास्त्र अध्यायः २ Translation - भाषांतर संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते । चतुःषष्टिप्रकरणत्वात् ॥१॥शास्त्रं एवेदं चतुःषष्टिरित्याचार्यवादः ॥२॥कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति । ऋचां दशतयीनां च संज्ञितत्वात् । इहापि तदर्थसंबन्धात् । पञ्चालसंबन्धाच्च बह्वृचैरेषा पूजार्थं संज्ञा प्रवर्तिता इत्येके ॥३॥आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीतःकृतपुरुषायितौपरिष्टकानां आष्टानां अष्टधा विकल्पभेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः ॥४॥विकल्पवर्गाणां अष्टानां न्यूनादिकत्वदर्शनात्प्रहणविरुतपुरुषोपसृप्तिचित्ररतादीनां अन्येषां अपि वर्गाणां इह प्रवेशनात्प्रायोवादोऽयम् । यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिरिति वात्स्यायनः ॥५॥तत्राःसमागतयोः प्रीतिलिङ्गद्योतनार्थं आलिङ्गनचतुष्टयम् । [१] स्पृष्टकं [२] विद्धकं [३] उद्घृष्टकं [४] पीडितकं इति ॥६॥सर्वत्र संज्ञार्थेनैव कर्मातिदेशः ॥७॥संमुखागतायां प्रयोज्यायां अन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं [१] स्पृष्टकम् ॥८॥प्रयोज्यं स्थितं उपविष्टं वा विःजने किं चिद्गृह्णाति पयोधरेण विद्ध्येत् । नायकोऽपि तां अवपीड्य गृह्णीयादिति [२] विद्धकम् ॥९॥तदुभयं अनःअतिःप्रवृत्तसंभाषणयोः ॥१०॥तमसि जनसंबाधे विःजने वाथ शनकैर्गच्छतोर्नातिःह्रस्वकालं उद्घर्षणं परस्परस्य गात्राणां [३] उद्घृष्टकम् ॥११॥तदेव कुड्यसंदेशेन स्तम्भसंदेशेन वा स्फुटकं अवपीडयेदिति [४] पीडितकम् ॥१२॥तदुभयं अवगतपरस्पराकारयोः ॥१३॥[१] लतावेष्टितकं [२] वृक्षाधिरूढकं [३] तिलतण्डुलकं [४] क्षीरनीरकं इति चत्वारि संप्रयोगकाले लतेव शालं आवेष्टयन्ती चुम्बनार्थं मुखं अवनमयेत् । उद्धृत्य मन्दसीत्कृता तं आश्रिता वा किंचिद्रामणीयकं पश्येत्तल्[१] लतावेष्टितकम् ॥१४॥चरणेन चरणं आक्रम्य द्वितीयेनोरुदेशं आक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तैक बाहुर्द्वितीयेनांसं अवनमयन्ती ईषन्मन्दसीत्कृतकूजिता चुमबनार्थं एवाधिरोढुं इच्छेदिति [२] वृक्षाधिरूढकम् ॥१६॥तदुभयं स्थितकर्म ॥१७॥शयनगतावेवोरुव्यत्यासं भुजव्यत्यासं च सःसंघर्षं इव घनं संस्वजेते तत्[३] तिलतण्डुलकम् ॥१८॥रागान्धावनःअपेक्षितात्ययौ परस्परं अनुविशत इवोत्सङ्गगतायां अभिमुखोपविष्टायां शयने वेति [४] क्षीरजलकम् ॥१९॥तदुभयं रागकाले ॥२०॥इत्युपगूहनयोगा बाभ्रवीयाः ॥२१॥सुवर्णनाभस्य त्वधिकं एकाङ्गोपगूहनचतुष्टयम् ॥२२॥तत्रोरुसंदंशेनैकं ऊरुं ऊरुद्वयं वा सर्वप्राणं पीडयेदित्यूरूपगूहनम्[१] ॥२३॥जघनेन जघनं अवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचुम्बन प्रयोजनाय तदुपरि लङ्घयेत्तज्जघनोपगूहनम्[२] ॥२४॥स्तनाभ्यां उरः प्रविश्य तत्रैव भारं आरोपयेदिति स्तनालिङ्गनम्[३] ॥२५॥मुखे मुखं आसज्याक्षिणी अक्ष्णोर्ललाटेन ललाटं आहन्यात्साललाटिका[४] ॥२६॥संवाहनं अप्युपगूहनप्रकारं इत्येके मन्यन्ते । संस्पर्शत्वात् ॥२७॥पृथक्कालत्वाद्भिन्नप्रयोजनत्वादःसाधारणत्वान्नेति वात्स्यायनः ॥२८॥व्पृच्छतां शृण्वतां वापि तथा कथयतां अपि । उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम् ॥२९॥व्येऽपि ह्यःशास्त्रिताः केचित्संयोगा रागवर्धनाः । आदरेणैव तेऽप्यत्र प्रयोज्याः सांप्रयोगिकाः ॥३०॥व्शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः । रतिचक्रेप्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥३१॥चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे आलिङ्गनविचारा द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : June 27, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP