संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| गणपतिकल्पप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - गणपतिकल्पप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः गणपतिकल्पप्रकरणम् Translation - भाषांतर विनायकः कर्मविघ्न सिद्ध्यर्थं विनियोजितः ।गणानां आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥१.२७१॥ तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥१.२७२॥ काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ॥१.२७३॥ व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।विमना विफलारम्भः संसीदत्यनिमित्ततः ॥१.२७४॥ तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।कुमारी च न भर्तारं अपत्यं गर्भं अङ्गना ॥१.२७५॥ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥१.२७६॥ स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥१.२७७॥ सर्वाउषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥१.२७८॥ अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् ।मृत्तिकां रोचनां गन्धान्गुग्गुलुं चाप्सु निक्षिपेत् ॥१.२७९॥ या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥१.२८०॥ सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् ।तेन त्वां अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥१.२८१॥ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।भगं इन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥१.२८२॥ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ॥१.२८३॥ स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ॥१.२८४॥ मितश्च सम्मितश्चैव तथा शालकटङ्कटौ ।कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ॥१.२८५॥ नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥१.२८६॥ कृताकृतांस्तण्डुलांश्च पललौदनं एव च ।मत्स्यान्पक्वांस्तथैवामान्मांसं एतावदेव तु ॥१.२८७॥ पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधां अपि ।मूलकं पूरिकापूपांस्तथैवोण्डेरकस्रजः ॥१.२८८॥ दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥१.२८९॥ विनायकस्य जननीं उपतिष्ठेत्ततोऽम्बिकाम् ।दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णं अञ्जलिम् ॥१.२९०॥ रूपं देहि यशो देहि भगं भवति देहि मे ।पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥१.२९१॥ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।ब्राह्मणान्भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥१.२९२॥ एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।कर्मणां फलं आप्नोति श्रियं चाप्नोत्यनुत्तमाम् ॥१.२९३॥ आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।महागणपतेश्चैव कुर्वन्सिद्धिं अवाप्नुयात् ॥१.२९४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP