संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| गृहस्थधर्मप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - गृहस्थधर्मप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः गृहस्थधर्मप्रकरणम् Translation - भाषांतर कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥१.९७॥ शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ।प्रातःसंध्यां उपासीत दन्तधावनपूर्वकम् ॥१.९८॥ हुत्वाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः ।वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥१.९९॥ उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥१.१००॥ वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥१.१०१॥ बलिकर्मस्वधाहोम स्वाध्यायातिथिसत्क्रियाः ।भूतपित्रमरब्रह्म मनुष्याणां महामखाः ॥१.१०२॥ देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।अन्नं भूमौ श्वचाण्डाल वायसेभ्यश्च निक्षिपेत् ॥१.१०३॥ अन्नं पितृमनुष्येभ्यो देयं अप्यन्वहं जलम् ।स्वाध्यायं सततं कुर्यान्न पचेदन्नं आत्मने ॥१.१०४॥ बालस्ववासिनीवृद्ध गर्भिण्यातुरकन्यकाः ।संभोज्यातिथिभृत्यांश्च दंपत्योः शेषभोजनम् ॥१.१०५॥ आपोशनेनोपरिष्टादधस्तादश्नता तथा ।अनग्नं अमृतं चैव कार्यं अन्नं द्विजन्मना ॥१.१०६॥ अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।अप्रणोद्योऽतिथिः सायं अपि वाग्भूतृणोदकैः ॥१.१०७॥ सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥१.१०८॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥१.१०९॥ प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः ।प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥१.११०॥ अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः ।मान्यावेतौ गृहस्थस्य ब्रह्मलोकं अभीप्सतः ॥१.१११॥ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥१.११२॥ अतिथिं श्रोत्रियं तृप्तं आसीमन्तं अनुव्रजेत् ।अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥१.११३॥ उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च ।भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥१.११४॥ ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् ॥१.११५॥ विद्याकर्मवयोबन्धु वित्तैर्मान्या यथाक्रमम् ।एतैः प्रभूतैः शूद्रोऽपि वार्धके मानं अर्हति ॥१.११६॥ वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ।पन्था देयो नृपस्तेषां मान्यः स्नातश्च भूपतेः ॥१.११७॥ इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥१.११८॥ प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।कुसीदकृषिवाणिज्य पाशुपाल्यं विशः स्मृतम् ॥१.११९॥ शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिग्भवेत् ।शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितं आचरन् ॥१.१२०॥ भार्यारतिः शुचिर्भृत्य भर्ता श्राद्धक्रियारतः ।नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥१.१२१॥ अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥१.१२२॥ वयोबुद्ध्यर्थवाग्वेष श्रुताभिजनकर्मणाम् ।आचरेत्सदृशीं वृत्तिं अजिह्मां अशठां तथा ॥१.१२३॥ त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः ।प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥१.१२४॥ प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥१.१२५॥ एषां असंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः ।हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥१.१२६॥ चाण्डालो जायते यज्ञ करणाच्छूद्रभिक्षितात् ।यज्ञार्थं लब्धं अददद्भासः काकोऽपि वा भवेत् ॥१.१२७॥ कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा ।जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥१.१२८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP