संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| वर्णजातिविवेकप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - वर्णजातिविवेकप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः वर्णजातिविवेकप्रकरणम् Translation - भाषांतर सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥१.९०॥ विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥१.९१॥ वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ ।वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥१.९२॥ ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥१.९३॥ क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारं एव च ।शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥१.९४॥ माहिष्येण करण्यां तु रथकारः प्रजायते ।असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥१.९५॥ जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा ।व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥१.९६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP