संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|किरातार्जुनीयम्| प्रसंग ९ किरातार्जुनीयम् प्रसंग १ प्रसंग २ प्रसंग ३ प्रसंग ४ प्रसंग ५ प्रसंग ६ प्रसंग ७ प्रसंग ८ प्रसंग ९ प्रसंग १० प्रसंग ११ प्रसंग ११ प्रसंग १२ प्रसंग १३ प्रसंग १४ प्रसंग १५ प्रसंग १६ प्रसंग १७ प्रसंग १८ किरातार्जुनीयम् - प्रसंग ९ 'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे. Tags : bharaviepicpoemकाव्यकिरातार्जुनीयम्भारवीमहाकाव्यसंस्कृत प्रसंग ९ Translation - भाषांतर वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः ।तत्प्रियार्थं इव यातुं अथास्तं भानुमानुपपयोधि ललम्बे ॥९.१॥मध्यमोपलनिभे लसदंशावेकतश्च्युतिं उपेयुषि भानौ ।द्यौरुवाह परिवृत्तिविलोलां हारयष्टिं इव वासरलक्ष्मीं॥ ९.२॥अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।क्षीबतां इव गतः क्षितिं एष्यंल्लोहितं वपुरुवाह पतङ्गः ॥९.३॥गम्यतां उपगते नयनानां लोहितायाति सहस्रमरीचौ ।आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥९.४॥मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः ।सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥९.५॥कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलं अभि त्वरयन्त्यः ।सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥९.६॥अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥९.७॥आकुलश्चलपतत्रिकुलानां आरवैरनुदितौषसरागः ।आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥९.८॥आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियं ऊहे ॥९.९॥प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥९.१०॥औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।संनिपत्य शनकैरिव निम्नादन्धकारं उदवाप समानि ॥९.११॥एकतां इव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे ।भास्वता निदधिरे भुवनानां आत्मनीव पतितेन विशेषाः ॥९.१२॥इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानां ।आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥९.१३॥यच्छति प्रतिमुखं दयितायै वाचं अन्तिकगतेऽपि शकुन्तौ ।नीयते स्म नतिं उज्झितहर्षं पङ्कजं मुखं इवाम्बुरुहिण्या ॥९.१४॥रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ।पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥९.१५॥रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय ।स्पष्टतारकं इयाय नभः श्रीर्वस्तुं इच्छति निरापदि सर्वः ॥९.१६॥व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशं अंशुसमूहः ॥९.१७॥उज्झती शुचं इवाशु तमिस्रां अन्तिकं व्रजति तारकराजे ।दिक्प्रसादगुणमण्डनं ऊहे रश्मिहासविशदं मुखं ऐन्द्री ॥९.१८॥नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गं इवाम्भः ॥९.१९॥द्यां निरुन्धदतिनीलघनाभं ध्वान्तं उद्यतकरेण पुरस्ताथ् ।क्षिप्यमाणं असितेतरभासा शम्भुनेव करिचर्म चकासे ॥९.२०॥अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥९.२१॥लेखया विमलविद्रुमभासा संततं तिमिरं इन्दुरुदासे ।दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥९.२२॥दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः ।हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः ॥९.२३॥उद्गतेन्दुं अविभिन्नतमिस्रां पश्यति स्म रजनीं अवितृप्तः ।व्यंशुकस्फुटमुखीं अतिजिह्मां व्रीडया नववधूं इव लोकः ॥९.२४॥न प्रसादं उचितं गमिता द्यैर्नोद्धृतं तिमिरं अद्रिवनेभ्यः ।दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥९.२५॥मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् ।मन्दमन्दं उदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥९.२६॥श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः ।उद्वमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥९.२७॥प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि ।क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥९.२८॥शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे ।न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥९.२९॥आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वं असह्यं॥ ९.३०॥गन्धं उद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानां ।आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥९.३१॥संविधातुं अभिषेकं उदासे मन्मथस्य लसदंशुजलौघः ।यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥९.३२॥ओजसापि खलु नूनं अनूनं नासहायं उपयाति जयश्रीः ।यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापं अनङ्गः ॥९.३३॥सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यं ।संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणं ईषे ॥९.३४॥न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा ।साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥९.३५॥प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।मानिनीभिरपहस्तितधैर्यः सादयन्निव मदोऽवललम्बे ॥९.३६॥कान्तवेश्म बहु संदिशतीभिर्यातं एव रतये रमणीभिः ।मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितं अप्युपकारि ॥९.३७॥आशु कान्तं अभिसारितवत्या योषितः पुलकरुद्धकपोलं ।निर्जिगाय मुखं इन्दुं अखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥९.३८॥उच्यतां स वचनीयं अशेषं नेश्वरे परुषता सखि साध्वी ।आनयैनं अनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥९.३९॥किं गतेन न हि युक्तं उपैतुं कः प्रिये सुभगमानिनि मानः ।योषितां इति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥९.४०॥योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म ।कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥९.४१॥शीधुपानविधुरासु निगृह्णन्मानं आशु शिथिलीकृतलज्जः ।संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥९.४२॥द्वारि चक्षुरधिपाणि कपोलौ कीवितं त्वयि कुतः कलहोऽस्याः ।कामिनां इति वचः पुनरुक्तं प्रीतये नवनवत्वं इयाय ॥९.४३॥साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातं ।सुभ्रुवो जनयति स्म विभूषां संगतावुपरराम च लज्जा ॥९.४४॥सव्यलीकं अवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।योषितः सुहृदिव स्म रुणद्धि प्राणनाथं अभिबाष्पनिपातः ॥९.४५॥शङ्किताय कृतबाष्पनिपातां ईर्ष्यया विमुखितां दयिताय ।मानिनिं अभिमुखाहितचित्तां शंसति स्म घनर्ॐअविभेदः ॥९.४६॥लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन ।व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतां उपपदे ॥९.४७॥ह्रीतय अगलितनीवि निरस्यन्नन्तरीयं अवलम्बितकाञ्चि ।मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥९.४८॥आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः ।सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥९.४९॥पाणिपल्लवविधूननं अन्तः सीत्कृतानि नयनार्धनिमेषाः ।योषितां रहसि गद्गदवाचां अस्त्रतां उपययुर्मदनस्य ॥९.५०॥पातुं आहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि ।सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥९.५१॥कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुं अनङ्गः ॥९.५२॥कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः ।इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥९.५३॥भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीं अतिरसां रसयित्वा ।ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥९.५४॥स्वादितः स्वयं अथैधितमानं लम्भितः प्रियतमैः सह पीतः ।आसवः प्रतिपदं प्रमदानां नैकरूपरसतां इव भेजे ॥९.५५॥भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानां ।आददे मृदुविलोकपलाशैरुत्पलैश्चषकवीचिषु कम्पः ॥९.५६॥ओष्ठपल्लवविदंशरुचीनां हृद्यतां उपययौ रमणानां ।फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥९.५७॥प्राप्यते गुणवतापि गुणानां व्यक्तं आश्रयवशेन विशेषः ।तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥९.५८॥वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीं ।जज्ञिरे बहुमताः प्रमदानां ओष्ठयावकनुदो मधुवाराः ॥९.५९॥लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥९.६०॥तुल्यरूपं असितोत्पलं अक्ष्णोः कर्णगं निरुपकारि विदित्वा ।योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥९.६१॥क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसम्भृतशोभः ।आययावतितरां इव वध्वाः सान्द्रतां अधरपल्लवरागः ॥९.६२॥रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥९.६३॥बद्धकोपविकृतीरपि रामाश्चारुताभिमततां उपनिन्ये ।वश्यतां मधुमदो दयितानां आत्मवर्गहितं इच्छति सर्वः ॥९.६४॥वाससां शिथिलतां उपनाभि ह्रीनिरासं अपदे कुपितानि ।योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयं॥ ९.६५॥भर्तृषूपसखि निक्षिपतीनां आत्मनो मधुमदोद्यमितानां ।व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥९.६६॥रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे ।व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥९.६७॥योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कं ।कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदं॥ ९.६८॥आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासं ।आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥९.६९॥मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुं इति शङ्कितनाथाः ।योषितो न मदिरां भृशं ईषुः प्रेम पश्यति भयान्यपदेऽपि ॥९.७०॥चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।संगमश्च दयितैः स्म नयन्ति प्रेम कां अपि भुवं प्रमदानां॥ ९.७१॥धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रमं आप ॥९.७२॥शीधुपानविधुरेषु वधूनां विघ्नतां उपगतेषु वपुःषु ।ईहितं रतिरसाहितभावं वीतलक्ष्यं अपि कामिषु रेजे ॥९.७३॥अन्योन्यरक्तमनसां अथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशं ।वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिं इयाय रात्रिः ॥९.७४॥निद्राविनोदितनितान्तरतिक्लमानां आयामिमङ्गलनिनादविबोधितानां ।रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतां इव समादधिरे रतानि ॥९.७५॥कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दं ।हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः ॥९.७६॥आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥९.७७॥गतवति नखलेखालक्ष्यतां अङ्गरागे समददयितपीताताम्रबिम्बाधराणां ।विरहविधुरं इष्टा सत्सखीवङ्गनानां हृदयं अवललम्बे रात्रिसम्भोगलक्ष्मीः ॥९.७८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP