संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|हर्षचरितम्| परिशिष्टम् हर्षचरितम् प्रथम उच्छ्वासः द्वितीय उच्छ्वासः तृतीय उच्छ्वासः चतुर्थ उच्छ्वासः षष्ठ उच्छ्वासः सप्तम उच्छ्वासः अष्टम उच्छ्वासः परिशिष्टम् हर्षचरितम् - परिशिष्टम् हर्षचरित संस्कृत में बाणबट्ट द्वारा रचित एक ग्रन्थ है। इसमें भारतीय सम्राट हर्ष का जीवनचरित वर्णित है। Tags : banabhattaepicharshacharitapoemकाव्यबाणभट्टमहाकाव्यसंस्कृतहर्षचरित परिशिष्टम् Translation - भाषांतर बाण-प्रशस्तयःश्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे ऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने ।आः सर्वत्र गभीरधीरकविताविन्द्याटवीचातुरी-सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥१॥(श्रीचन्द्रदेवस्य)हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनांश्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तथ् ।या बाणेन तु तस्य सूक्तिनिकरैरुट्टङ्किताः कीर्तयस्ताः कल्पप्रलयेऽपि यान्ति न मनाङ्मन्ये परिम्लानतां॥ २॥(रुय्यककृतव्यक्तिविवेकव्याख्याने)अर्थेश्वरं हन्त भजेऽभिनन्दं वागीश्वरं वाक्पतिराजमीडे ।रसेश्वरं न्ॐइ च कालिदासं बाणं तु सर्वश्वरमानतोऽस्मि ॥३॥(उदयसुन्दर्यां सोढ्वलस्य)परिशीलितैव सरसं कविराजैर्बहुभिरत्र वाग्देवी ।बाणेन तु वैजात्यात्कथयति नामैव वाणीति ॥४॥(विश्वेश्वरस्य)कादम्बरीसहोदर्या सुधये वै बुधे हृदि ।हर्षाख्यायिकया ख्यातिं बाणोऽब्धिरिव लब्दवान्॥ ५॥शश्वद्बाणद्वितीयेन नमदाकारधारिणा ।धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥६॥(त्रिविक्रमस्य)जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥७॥(गोवर्धनस्य)हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः ।भवेत्कविकुरङ्गाणां चापलं तत्र कारणं॥ ८॥सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः ।वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥९॥सचित्रवर्णविच्छित्तिहारिणोरवनीपतिः ।श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥१०॥(नवसाहसाङ्के)प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः ।सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः ॥११॥(वीरनारायणचरिते)युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः ।बाणध्वनावनध्यायो भवतीति स्मृतिर्यतः ॥१२॥रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।तत्किं तरुणी नहि नहि, वाणी बाणस्य मधुरशीलस्य ॥१३॥सहर्षचरिता शश्वत्कृतकादम्बरीकथा ।बाणस्य वाण्यनार्तेव स्वच्छन्दं भ्रमति क्षितौ ॥१४॥बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः ।सिन्धुमन्धुः किमन्वेति द्युमणिः कतमो मणिः ॥१५॥(रघुनाथचरिते)शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते ।शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥१६॥केवलोऽपि स्फुरन्बाणः करोति विमदान्कवीन् ।कि पुनः क्लृप्तसन्धानपुलिन्दकृतसन्निधिः ॥१७॥(धनपालस्य)दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।प्रविष्ठे त्वन्तरं बाणे कण्ठे वागेव रुध्यते ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP