संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|नवमप्रपाठकः| तृतीयोऽर्द्धः नवमप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयोऽर्द्धः नवमप्रपाठकः - तृतीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद तृतीयोऽर्द्धः Translation - भाषांतर आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनां ।सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥१८४९॥सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥१८५०॥स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।सं सृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ॥१८५१॥बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः ।प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानां ॥१८५२॥बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥१८५३॥गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वं ॥१८५४॥अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकं सेना अवतु प्र युत्सु ॥१८५५॥इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रं ॥१८५६॥इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रं ।महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१८५७॥उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि ।उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥१८५८॥अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ॥१८५९॥असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना ।तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात्॥१८६०॥अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्तां ॥१८६१॥प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥१८६२॥अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥१८६३॥कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना ।मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान्॥१८६४॥अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि ।उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥१८६५॥यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥१८६६॥वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥१८६७॥वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।यो अस्मां अभिदासत्यधरं गमया तमः ॥१८६८॥इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ ।तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत् ॥१८६९॥मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्तां ।उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१८७०॥अन्धा अमित्रा भवताशीर्षाणोऽहय इव ।तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरं ॥१८७१॥यो नः स्वोऽरणो यश्च निष्ट्यो जिघांसति ।देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरं ॥१८७२॥मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ॥१८७३॥भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥१८७४॥स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP