संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|नवमप्रपाठकः| द्वितीयोऽर्द्धः नवमप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयोऽर्द्धः नवमप्रपाठकः - द्वितीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीयोऽर्द्धः Translation - भाषांतर अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे ॥१८१६॥पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥१८१७॥ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥१८१८॥इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुं ॥१८१९॥इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिं ॥१८२०॥ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥१८२१॥प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः ।यस्य त्वं सख्यमाविथ ॥१८२२॥तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥१८२३॥तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥१८२४॥अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति ।महिषीव वि जायते ॥१८२५॥यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२६॥अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति ।अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२७॥नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः ।युञ्जे वाचं शतपदीं ॥१८२८॥युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि ।गायत्रं त्रैष्टुभं जगत्॥१८२९॥गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता ।देवा ओकांसि चक्रिरे ॥१८३०॥अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः ।सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥१८३१॥पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा ।पुनर्नः पाह्यंहसः ॥१८३२॥सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।विश्वप्स्न्या विश्वतस्परि ॥१८३३॥यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।स्तोता मे गोसखा स्यात्॥१८३४॥शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।यदहं गोपतिः स्यां ॥१८३५॥धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।गामश्वं पिप्युषी दुहे ॥१८३६॥आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।महे रणाय चक्षसे ॥१८३७॥यो वः शिवतमो रसस्तस्य भाजयतेह नः ।उशतीरिव मातरः ॥१८३८॥तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।आपो जनयथा च नः ॥१८३९॥वात आ वातु बेषजं शम्भु मयोभु नो हृदे ।प्र न अयूंषि तारिषत्॥१८४०॥उत वात पितासि न उत भ्रातोत नः सखा ।स नो जीवातवे कृधि ॥१८४१॥यददो वात ते गृहे३ऽमृतं निहितं गुहा ।तस्यो नो देहि जीवसे ॥१८४२॥अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः ।सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥१८४३॥अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव ।अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥१८४४॥अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार ।सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥१८४५॥नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युं ॥१८४६॥ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि ।वसानो अत्कं सुरभिं दृशे कं स्व३र्ण नाम जनत प्रियाणि ॥१८४७॥द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥१८४८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP