संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|रामचरितमहाकाव्य| प्रथमः सर्गः रामचरितमहाकाव्य प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः रामचरितमहाकाव्य - प्रथमः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत प्रथमः सर्गः Translation - भाषांतर अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः ।दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥१.१॥शशाम वृष्टिर्मेघानां उत्सङ्गे तस्य भूभृतः ।विरराम न रामस्य धारासन्ततिरश्रुणः ॥१.२॥इतस्ततः परिणतिं भेजे बर्हिणकूजितं ।हा प्रिये राजपुत्रीति न रामपरिदेवितं॥ १.३॥काप्यभिख्या विरजसोः सूर्याचन्द्रमसोरभूथ् ।दाशरथ्योस्तथैवासीदयोगोपहता रुचिः ॥१.४॥निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः ।परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥१.५॥स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननं ।आसीत्तथैव तु मनो रामस्योत्कलिकाकुलं॥ १.६॥प्रपेदे पुनरुद्भेदः शुचिना कच्छकेतकैः ।उपक्रियायाः सदृशं नारेभे रविसूनुना ॥१.७॥आकृष्टमालतीगन्धः सिषेवे राघवं मरुथ् ।आनीतमैथिलीवार्तस्तं आर्तं न तु मारुतिः ॥१.८॥रामाय पूरापगमव्यक्तोद्देशाश्चकाशिरे ।आस्तेऽस्मासु न सीतेति शंसन्त्य इव निम्नगाः ॥१.९॥यदार्द्रविरहो रामः प्रापितः प्राणसंशयं ।नूनं तेनानुतापेन जग्मुर्जलदराजयः ॥१.१०॥द्यौर्मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः ।ययाचे सारसरुतैर्विचारं इव राघवं॥ १.११॥दिशो ददृशिरे तेन स्तेनं तं परिमार्गता ।मार्गदानापराधिन्यो गता दूरं भयादिव ॥१.१२॥तस्याकृतिविशेषस्य विशेषात्कष्टं ईदृशं ।कच्छाः काशच्छलादूहुरितीव पलितागमं॥ १.१३॥पश्यन्त्या इव कष्टां तां अवस्थां मैथिलीपतेः ।शुष्कपङ्कचयव्याजाद्विदद्रे हृदयं भुवः ॥१.१४॥वृष्टिविच्छेदजातेन तानवेनासमाप्तिना ।प्रपेदिरे जलधरास्तस्य सब्रह्मचारितां॥ १.१५॥ययौ विरहसंवर्तः पद्मिनीराजहंसयोः ।अपारदुःखार्णवयोर्न सीतारामभद्रयोः ॥१.१६॥शान्तनिर्झरझात्कारधाराः शिखरिणो बभुः ।रामस्य विशदालापशुश्रूषानिभृता इव ॥१.१७॥तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि ।स्मिताभमुकुलोद्भेदाः कदम्बवनराजयः ॥१.१८॥अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तयः ।अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥१.१९॥अब्रवीदथ कालज्ञस्तत्कालप्रतिपत्तये ।प्रणम्य लक्ष्मणो रामं रामाविरहनिःसहं॥ १.२०॥जातं विभातं अमलं पश्य प्रावृण्णिशा गता ।उत्साहकमलस्यायं विकासावसरस्तव ॥१.२१॥उच्छ्रयं तीरतरवो रवेरूर्जं अभीषवः ।मदं गोपतयो गृह्णन्त्यभियोगं जिगीषवः ॥१.२२॥प्रसीद दीयतां कर्णः कूजद्भिः कुररैरमी ।प्रार्थयन्तीव संचारं तटाः कर्दमदुर्गताः ॥१.२३॥भुवि भास्वदभीषूणां त्वदिषूणां च शत्रुषु ।अयं सम्पतितुं कालः स दुष्कालोऽतिवाहितः ॥१.२४॥सुदूरोन्नतपर्यन्तास्तीर्यन्ते संक्रमैरिव ।अनल्पगाधाः सरितस्तरुभिः पूरपातितैः ॥१.२५॥आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव ।कुलाभ्यां इव कूलाभ्यां आपत्स्वपि चकासति ॥१.२६॥जलजानां सुमनसां वयसां जलसेविनां ।अस्य प्रतिजलाधारं सामग्र्यं अवलोक्यते ॥१.२७॥युयुत्सारभसोत्खातसरित्खातकरोधसः ।कुकुद्मन्तो मदकलाः कलयन्ति जगन्त्यधः ॥१.२८॥विश्वेश कुरु विश्वासं आवर्तन्ते न ते घनाः ।अमी श्यामलयन्त्याशाः शुकाः शालिवनोन्मुखाः ॥१.२९॥मृगाः सम्प्रति शालेयं सम्पन्नं सम्पतन्त्यमी ।साकेतं अधितिष्ठन्तं अर्थिनस्त्वां इवोन्मुखाः ॥१.३०॥कार्यदिग्गृह्यतां कापि किं आर्य स्थीयते वृथा ।एवं एवायं अस्माकं इष्टोऽपि किं उपैष्यति ॥१.३१॥विजयाय भवासीनो मय्यर्पितवपुर्भरः ।मूर्च्छानुवलनव्यस्तः प्रस्तरस्त्यज्यतां अयं॥ १.३२॥प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः ।सार्यन्तां क्षणं उद्धूय स्थगितांसतटा जटाः ॥१.३३॥मुहूर्तं क्रियतां आर्य कपोलविरही करः ।व्युषितो वल्कलग्रन्थिरंसादुन्मोच्यतां अयं॥ १.३४॥इतो वितत्य दीयन्तां इषवः क्लिन्नयन्त्रणाः ।निर्मुक्तार्द्रजरच्चैलं आदत्तां आयतं धनुः ॥१.३५॥इतोऽवतीर्यतां प्रास्थादस्वास्थ्यं इदं उज्झ्यतां ।जहीषुभिर्दशग्रीवं दशदिग्वेधशोधितैः ॥१.३६॥ऋजुरादीयतां पन्थाः कार्यकन्था गरीयसी ।उत्सार्यतां इदं दूरं तमः किंकार्यतामयं॥ १.३७॥आर्यायाः शिवं एवास्ति शत्रुर्निहत एव ते ।अलं दत्त्वावसादाय त्रैलोक्यशरणं वपुः ॥१.३८॥राक्षसापशदः कोऽसौ त्वयि सज्यशरासने ।अनेन तेऽवसादेन दूरं आरोपितः पुनः ॥१.३९॥अश्रुवेगैः प्रमीलाभिर्विलापैरखिलः स ते ।आमृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ॥१.४०॥क्रियतां अधुनोत्साहश्चिन्त्यतां निधनं द्विषः ।कः स्वबाहुसहायानां महतां आत्मनिग्रहः ॥१.४१॥भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे ।तुभ्यं पुरुषनागाय निर्विघ्नतरसेऽधुना ॥१.४२॥प्रसीद कुरु भूयोऽपि देहयात्रां यथा तथा ।अनुल्लङ्घितविज्ञप्तिर्लक्ष्मणोऽवरजेषु ते ॥१.४३॥अगाधं धैर्यं आर्यस्य त्रिषु लोकेषु गीयते ।जनमात्रोचितः कोऽयं आकल्पकपरिग्रहः ॥१.४४॥अरोपशमितोदग्रजामदग्न्याग्नितेजसः ।प्रतीच्छति शरासारं तवार्य रुषितस्य कः ॥१.४५॥स्वकृत्यभारसन्न्यासी यावदित्थं विषीदसि ।तावदन्तकदंष्ट्राणां अरातिरतिथिर्न ते ॥१.४६॥आततायी स विज्ञातो जीवत्यार्येति च श्रुतं ।प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥१.४७॥न ज्ञायते परं व्यक्तं अरेर्मायाविनः पदं ।तन्मार्गणं च सुहृदा सुग्रीवेण प्रतिश्रुतं॥ १.४८॥दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः ।क्षणान्नूनं असवार्यपादमूले पतिष्यति ॥१.४९॥शालिपिङ्गमहीपृष्ठस्पर्धयेव भविष्यति ।रंहस्विहरिसंघातसम्पातकपिलं नभः ॥१.५०॥तेषां आरोषरुचिरैरचिरान्मुखमण्डलैः ।द्रक्ष्यते तरुणादित्यशतच्छन्नं इवाम्बरं॥ १.५१॥अहो दीप्तिरहो कान्तिरहो शीलं अहो बलं ।अहो शक्तिरहो भक्तिरहो प्रज्ञा हनूमतः ॥१.५२॥प्रगल्भेनाप्रमत्तेन तेनाभ्यन्तरमन्त्रिणा ।नूनं अस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥१.५३॥स च प्रत्युपकाराय त्वरयत्येनं आदृतः ।ध्रुवं बुद्धिवयोवृद्धः सचिवो जाम्बवानपि ॥१.५४॥तदेवं हेतुना केन वानरेन्द्रो विलम्बते ।नासौ कृतघ्नस्य भवेद्गुणवद्भृत्यसंग्रहः ॥१.५५॥आगन्तव्यं ध्रुवं तेन मार्गितार्या प्रवृत्तिना ।प्रपन्नपरकृत्यानां अत्युष्णो हि समुद्यमः ॥१.५६॥त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा ।न तेनामूर्ददृशिरे दिशः प्रोषितकालिकाः ॥१.५७॥कियच्चिरं पुनरसौ तस्य न श्रुतिं एष्यति ।क्रीडातटाकहंसानां निनादो मदमूर्छितः ॥१.५८॥उक्तैः किं अथ भूयोभिरद्य श्वो वागमिष्यति ।पर्युत्सुकितकिष्किन्धः सत्यसन्धो हरीश्वरः ॥१.५९॥व्यतिरेकेऽपि यत्कार्यं तदप्यार्य प्रधार्यतां ।गृह्यतां कार्यसिद्धिर्नस्तद्विलम्बतिरस्कृता ॥१.६०॥यस्तथोपकृतः पूर्वं आर्येणार्याकृतेऽधुना ।स शीतलः स्यादथवा परचित्तानि वेत्ति कः ॥१.६१॥स प्रतिश्रुतं अर्थं नः स्फीतो विस्मृतवानिव ।गत्वाशु स्मार्यतां आर्य कार्यतप्तस्य का क्षमा ॥१.६२॥तं अहं बोधयिष्यामि दण्डगर्भाभिरुक्तिभिः ।साम संमीलयत्येव सुखसक्तान्प्रमादिनः ॥१.६३॥प्रसीद जीयतां मोहः कोऽहं इत्यवधीयतां ।द्रुतं उत्तीर्ण एवास्ते व्यसनाब्धिः कियानयं॥ १.६४॥सूनृतैरिति स्ॐइत्रेः प्रीतः पीयूषवर्षिभिः ।तं अन्तर्वेदनावेगं जिगायेव रघूद्वहः ॥१.६५॥उन्मीलयामास दृशौ दिशः किंचिदलोकत ।उन्ननाम च तल्पान्तान्मोचयन्पक्ष्मला जटाः ॥१.६६॥सत्वरप्रह्वस्ॐइत्रिचीरोत्सारितरेणुनि ।शुचिनि क्वचिदासन्ने निषसाद शिलातले ॥१.६७॥उपविष्टस्तदा रामो न रेजे सीतया विना ।ध्वजो निर्वैजयन्तीकः पौरन्दर इवोच्छ्रितः ॥१.६८॥अनूपविष्टं अनुजं दनुजारिं इवाद्रिजिथ् ।प्रत्यभाषत वात्सल्यगद्गदानि पदानि सः ॥१.६९॥एह्येहि प्रियसंलाप ह्लादयालिङ्गितेन मां ।रुद्धं रुद्धं उपैत्यश्रु त्वां अपीक्षे न लक्ष्मण ॥१.७०॥हा वत्स भवतोऽपीयं अवस्थाङ्गेषु वर्तते ।ध्रियतां रामहतकः क्लेशयन्नेकबान्धवं॥ १.७१॥नास्ति वत्स चिकित्सास्य व्याधेर्विधुरजन्मनः ।यस्य यापनया क्षीणं इदं ते सान्त्वनामृतं॥ १.७२॥नैकदुर्वारघोराधिघट्टनाचलिता अपि ।तवाश्वासनया वत्स न गच्छन्ति ममासवः ॥१.७३॥पितुर्नः प्रियमित्रस्य लूनपक्षस्य मद्द्विषा ।संस्मरन्नोत्सहे वत्स मर्मच्छेदं जटायुषः ॥१.७४॥तातस्य तातमित्रस्य वत्सवत्सलयोस्तयोः ।अहं एव गतः पापो निधनाय निमित्ततां॥ १.७५॥प्रियापहारजः शाम्येत्सम्यगुन्मूलिते रिपौ ।मन्युर्देहावधिरयं तातमित्रविपत्तिभूः ॥१.७६॥नभस्तलात्खगपतौ पतति च्छिन्नपक्षतौ ।कोऽपरस्तां मम सुहृन्मा भैषीरित्यभाषत ॥१.७७॥ स्याद्वत्स रामहतकात्क्लीबः कः पुरुषोऽपरः ।एकपत्नीं अनुगतां अरातेर्यो न रक्षति ॥१.७८॥तया तेषु तपस्विन्या सीदतोरावयोरपि ।दण्डकारण्यकष्टेषु मुखं न विधुरीकृतं॥ १.७९॥विदेहराजस्य सुता स्नुषा दशरथस्य सा ।हतरामस्य जायेति भ्रमति स्म वने वने ॥१.८०॥स्वं अप्यपुष्णता कायं अपि जायां अरक्षता ।मया समः श्रुतः कोऽपि जातः क्लीबो रघोः कुले ॥१.८१॥त्वं केवलं न सुभ्राता तथा विलपता मुहुः ।तिर्यञ्चोऽपि मयामुष्मिन्वने लक्ष्मण रोदिताः ॥१.८२॥दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणां ।अवहन्निर्झरनिभान्नगानां अश्रुनिम्नगाः ॥१.८३॥आरादाकर्णितस्निग्धनवाब्दनिनदैरपि ।मत्कारुण्यादरण्येऽपि नानृत्यत कलापिभिः ॥१.८४॥सत्यं एष्यति सुग्रीवः सत्यं जीवति जानकी ।त्वद्वचो न विपर्येति भ्रातर्ब्रूहि पुनः पुनः ॥१.८५॥त्वद्वाक्यशीकरैरेभिर्निरुद्धबहिरुद्गमः ।ममान्तर्लेढि मर्माणि सीताविरहमुर्मुरः ॥१.८६॥तस्मादपि दहत्युच्चैरयं मां अपरः शिखी ।यद्वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥१.८७॥गुर्वी पुनश्च लज्जेयं उत्तमर्णैरिवाधुना ।मार्गितव्यो यदस्माभिः प्लवगाः प्रत्युपक्रियां॥ १.८८॥नास्ति प्रत्युपकाराशा तत्र नश्चपले कपौ ।येनातिलघुनोत्तुङ्गो लङ्घितः सत्यपादपः ॥१.८९॥उत्तिष्ठ वत्स गच्छावः साधयामोऽन्यतोऽधुना ।नवैश्वर्यसुखव्यग्रः सुग्रीवो नागं इष्यति ॥१.९०॥तपस्वी रमतां एवं चिराद्दारैः समागतः ।स पीड्यमानः प्रणयाद्विरसः किं करिष्यति ॥१.९१॥किं च वत्स दशासाम्याज्जाताः स्मः सुहृदः पुरा ।तस्याधुना तु विस्तीर्णविभवान्धस्य के वयं॥ १.९२॥गृहीतसाधुवर्त्मापि सद्यः सम्प्राप्य सम्पदं ।पतति स्खलितोऽतीव प्रमत्तः प्रहते पथि ॥१.९३॥स वत्स विरलो जन्तुर्विपत्कालप्रतिश्रुतं ।सद्यः सम्पन्मदो यस्य न विलुम्पति चेतसि ॥१.९४॥अस्तु साधुरसाधुर्वा न विचार्यः स मेऽधुना ।वत्स नोत्सहते चेतस्तत्र दोग्धुं उपक्रियां॥ १.९५॥असावनागतः श्रेयानागच्छन्वत्स वार्यतां ।प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंकटे ॥१.९६॥कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते ।अविमृश्य कृतोऽस्माभिः स पुनः कृपणः पणः ॥१.९७॥किं क्षिप्तं अचलप्रान्तादन्तःसुप्तशिवाशतं ।निर्देशपुरुषेणेव कङ्कालं दुन्दुभेर्मया ॥१.९८॥कस्यार्थस्य कृते विद्धाः सप्त सालास्तपस्विनः ।स मा प्रत्येतु वैधेयः किं न साधितं अन्यतः ॥१.९९॥अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेथ् ।विशिखं वालिनि व्यग्रे सुग्रीवस्य पशोः कृते ॥१.१००॥न परित्यज्यते मार्गस्तावन्निर्वाच्यकर्दमः ।यावत्पिहितकष्टाय कार्यायात्मा न दीयते ॥१.१०१॥इष्वैकया मया विद्धो बालिशेन वलीमुखः ।अनुद्धाराः शरास्तेन रोपिता मयि वाङ्मयाः ॥१.१०२॥अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा ।वत्स कालोचितं शाधि न रामः किंचिदीक्षते ॥१.१०३॥अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहं ।दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥१.१०४॥सनाथोभयपार्श्वस्य त्वया वत्स तया च मे ।वनेषु च सतः कष्टं अजनिष्ट न किंचन ॥१.१०५॥हा भीरु हा प्रियतमे हा मद्विरहकातरे ।क्वासीत्यर्धोक्तिनिस्संज्ञो जगाम स महीतलं॥ १.१०६॥मातः कैकेयि तुष्टासि भुङ्क्ष्व राज्यं अकण्टकं ।वदन्नित्यपतत्तस्य लक्ष्मणश्चरणाब्जयोः ॥१.१०७॥ततस्तौ साश्रुनयनौ मृगैर्विधुरवीक्षितौ ।निपेततुर्दिव इव भ्रष्टौ विधुरवी क्षितौ ॥१.१०८॥इति निपतितयोस्तयोर्द्वयोर्दशरथनन्दनयोर्महीतले ।दशभिरपि दिगङ्गनामुखैरधृतिवशादिव तत्यजे रुचिः ॥१.१०९॥एते निकामरसिकस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः ।यैर्द्वादशार्ककिरणोत्करदुर्निवारः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥१.११०॥इत्यभिनन्दकृतौ रामचरिते महाकाव्ये प्रथमः सर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP