पाद ४ - खण्ड २०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


२ - ५७ - ग्रामात् आगच्छति शकटेन ।

३ - ५७ - न एतत् अस्ति ।

४ - ५७ - करणसञ्ज्ञा अत्र बाधिका भविष्यति ।

५ - ५७ - इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।

६ - ५७ - अत्र अपि अधिकरणसञ्ज्ञा बाधिका भविष्यति ।

७ - ५७ - इदम् तर्हि वृक्षस्य पर्णम् पतति ।

८ - ५७ - कुड्यस्य पिण्डः पतिति इति ।

९ - ५७ - जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् । जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् ।

१० - ५७ - जुगुप्सा ।

११ - ५७ - अधर्मात् जुगुप्सते. अधर्मात् बीभत्सते ।

१२ - ५७ - विराम । धर्मात् विरमति. धर्मात् निवर्तते ।

१३ - ५७ - प्रमाद ।

१४ - ५७ - धर्मात् प्रमाद्यति ।

१५ - ५७ - धर्मात् मुह्यति ।

१६ - ५७ - इह च उपसम्ख्यानम् कर्तव्यम् ।

१७ - ५७ - साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति ।

१८ - ५७ - तत् तर्हि इदम् वक्तव्यम् ।

१९ - ५७ - न वक्तव्यम् ।

२० - ५७ - इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति ।

२१ - ५७ - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति ।

२२ - ५७ - सः बुद्ध्या सम्प्राप्य निवर्तते ।

२३ - ५७ - तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् ।

२४ - ५७ - इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति ।

२५ - ५७ - यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः पश्यति न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति ।

२६ - ५७ - सः बुद्ध्या सम्प्राप्य निवर्तते ।

२७ - ५७ - तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् ।

२८ - ५७ - इह च साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति ।

२९ - ५७ - यः तैः साम्यम् गतवान् भवति सः एतत्प्रयुङ्क्ते ।

३० - ५७ - गतियुक्तेषु अपादानसञ्ज्ञा न पपद्यते अध्रुवत्वात् । गतियुक्तेषु अपादानसञ्ज्ञा न उपपद्यते ।

३१ - ५७ - अश्वात् त्रस्तात् पतितः ।

३२ - ५७ - रथात् प्रवीतात् पतितः ।

३३ - ५७ - सार्थात् गच्छतः हीनः इति ।

३४ - ५७ - किम् कारणम् ।

३५ - ५७ - अध्रुवत्वात् ।

३६ - ५७ - न वा अध्रौव्यस्य अविविक्षितत्वात् ।

३७ - ५७ - न वा एषः दोषः ।

३८ - ५७ - किम् कारणम् ।

३९ - ५७ - अध्रौव्यस्य अविवक्षितत्वात् ।

४० - ५७ - न अत्र अध्रौव्यम् विवक्षितम् ।

४१ - ५७ - किम् तर्हि ।

४२ - ५७ - ध्रौव्यम् ।

४३ - ५७ - इह तावत् अश्वात् त्रस्तात् पतितः इति ।

४४ - ५७ - यत् तदश्वे अश्वत्वम् आशुगामित्वम् तत् ध्रुवम् तत् च विवक्षितम् ।

४५ - ५७ - रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् ।

४६ - ५७ - सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् ।

४७ - ५७ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् ।

४८ - ५७ - धावतः पतितः ।

४९ - ५७ - त्वरमाणात् पतितः इति ।

५० - ५७ - अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् ।

५१ - ५७ - कथम् पुनः सतः नाम अविवक्षा स्यात् ।

५२ - ५७ - सतः अपि अविवक्षा भवति ।

५३ - ५७ - तत् यथा अलोमिका एडका ।

५४ - ५७ - अनुदरा कन्य इति ।

५५ - ५७ - असतः च विवक्षा भवति ।

५६ - ५७ - समुद्रः कुण्डिका ।

५७ - ५७ - विन्ध्यः वर्धितकम् इति

१ - १० - अयम् योगः शक्यः अवक्तुम् ।

२ - १० - कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति ।

३ - १० - इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति ।

४ - १० - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि माम् वृकाः पश्यन्ति ध्रुवः मे मृत्युः इति ।

५ - १० - सः बुद्ध्या सम्प्राप्य निवर्तते ।

६ - १० - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

७ - १० - इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति ।

८ - १० - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि इमम् पश्यन्ति ध्रुवम् अस्य वधबन्धपरिक्लेशाः इति ।

९ - १० - सः बुद्ध्या सम्प्राप्य निवर्तते ।

१० - १० - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

१ - ५ - अयम् अपि योगः शक्यः अवक्तुम् ।

२ - ५ - कथम् अध्ययनात् पराजयते इति ।

३ - ५ - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति ।

४ - ५ - सः बुद्ध्या सम्प्राप्य निवर्तते ।

५ - ५ - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

१ - २७ - किम् उदाहरणम् ।

२ - २७ - माषेभ्यः गाः वारयति ।

३ - २७ - भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः ।

४ - २७ - यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः ।

५ - २७ - तस्य अपि माषाः एव ईप्सिताः ।

६ - २७ - आतः च ईप्सिताः यवेभ्य्ः गाः वारयति ।

७ - २७ - इह कूपात् अन्धम् वारयति इति कूपे अपादानसञ्ज्ञा न प्राप्नोति ।

८ - २७ - न हि तस्य कूपः ईप्सितः ।

९ - २७ - कः तर्हि ।

१० - २७ - अन्धः ।

११ - २७ - तस्य अपि कूपः एव ईप्सितः ।

१२ - २७ - पश्यति अयम् अन्धः कूपम् मा प्रापत् इति ।

१३ - २७ - अथ वा यथा एव अस्य अन्यत्र अपश्यतः ईप्सा एवम् कूपे अपि ।

१४ - २७ - इह अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्राप्नोति ।

१५ - २७ - कर्मसञ्ज्ञात्र बाधिका भविष्यति ।

१६ - २७ - अग्नौ अपि तर्हि बाधिका स्यात् ।

१७ - २७ - तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा ।

१८ - २७ - वारणर्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् ।

१९ - २७ - वारणार्थेषु कर्मग्रहणम् अनर्थकम् ।

२० - २७ - किम् कारणम् ।

२१ - २७ - कर्तुः ईप्सिततमम् कर्म इति वचनात् ।

२२ - २७ - कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् ।

२३ - २७ - अयम् अपि योगः शक्यः अवक्तुम् ।

२४ - २७ - कथम् माषेभ्यः गाः वारयति इति ।

२५ - २७ - पश्यति अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् सस्यविनाशः सस्यविनाशे अधर्मः च एव राजभयम् च ।

२६ - २७ - सः बुद्ध्या सम्प्राप्य निवर्तते ।

२७ - २७ - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

१ - ५ - अयम् अपि योगः शक्यः अवक्तुम् ।

२ - ५ - कथम् उपाध्यायात् अन्तर्धत्ते इति ।

३ - ५ - पश्यति अयम् यदि माम् उपाध्यायः पश्यति ध्रुवम् प्रेषणम् उपालम्भः वा इति ।

४ - ५ - सः बुद्ध्या सम्प्राप्य निवर्तते ।

५ - ५ - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।

१ - ३० - उपयोगे इति किमर्थम् ।

२ - ३० - नटस्य शृणोति ।

३ - ३० - ग्रन्थिकस्य शृणोति ।

४ - ३० - उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति ।

५ - ३० - एषः अपि हि उपयोगः ।

६ - ३० - आतः च उपयोगः यत् आरम्भकाः रङ्गम् गच्छन्ति नटस्य श्रोष्यामः , ग्रन्थिकस्य श्रोष्यामः इति ।

७ - ३० - एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः ।

८ - ३० - तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः उपयोगः इति ।

९ - ३० - कः च साधीयः ।

१० - ३० - यः ग्रन्थार्थयोः ।

११ - ३० - अथ वा उपयोगः कः भवितुम् अर्हति ।

१२ - ३० - यः नियमपूर्वकः ।

१३ - ३० - तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति ।

१४ - ३० - किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् ।

१५ - ३० - कः च अत्र विशेषः ।

१६ - ३० - आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञाप्रसङ्गः । आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञा प्राप्नोति ।

१७ - ३० - अस्तु तर्हि अकारकम् ।

१८ - ३० - अकारकम् इति चेत् उपयोगवचनानर्थक्यम् ।

१९ - ३० - यदि अकारकम् उपयोगवचनम् अनर्थकम् ।

२० - ३० - अस्तु तर्हि कारकम् ।

२१ - ३० - ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् कर्मसञ्ज्ञाप्रसङ्गः इति ।

२२ - ३० - न एषः दोषः ।

२३ - ३० - परिगणनम् तत्र क्रियते ।

२४ - ३० - दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् इति ।

२५ - ३० - अयम् अपि योगः शक्यः अवक्तुम् ।

२६ - ३० - कथम् उपाध्यायात् अधीते इति ।

२७ - ३० - अपक्रामति तस्मात् तदध्ययनम् ।

२८ - ३० - यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

२९ - ३० - सत्ततत्वात् ।

३० - ३० - अथ वा ज्योतिर्वत् ज्ञानानि भवन्ति ।

१ - ७ - अयम् अपि योगः शक्यः अवक्तुम् ।

२ - ७ - कथम् गोमयात् वृश्चिकः जायते ।

३ - ७ - गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति ।

४ - ७ - अपक्रामन्ति ताः तेभ्यः ।

५ - ७ - यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

६ - ७ - सन्ततत्वात् ।

७ - ७ - अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।

१ - ६ - अयम् अपि योगः शक्यः अवक्तुम् ।

२ - ६ - कथम् हिमवतः गङ्गा प्रभवति इति ।

३ - ६ - अपक्रामन्ति ताः तस्मात् आपः ।

४ - ६ - यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।

५ - ६ - सन्ततत्वात् ।

६ - ६ - अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।

१ - १७ - कर्मग्रहणम् किमर्थम् ।

२ - १७ - यम् अभिप्रैति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव सम्प्रदानसञ्ज्ञा प्रसज्येत ।

३ - १७ - कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति ।

४ - १७ - कर्म निमित्तत्वेन आश्रीयते ।

५ - १७ - अथ यम्सग्रहणम् किमर्थम् ।

६ - १७ - कर्मणा अभिप्रैति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव सम्प्रदानसञ्ज्ञा प्रसज्येत ।

७ - १७ - यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति ।

८ - १७ - यम्सग्रहणात् अभिप्रयतः सम्प्रदानसञ्ज्ञा निर्भज्यते ।

९ - १७ - अथ अभिप्रग्रहणम् किमर्थम् ।

१० - १७ - कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् ।

११ - १७ - उपाध्यायाय गाम् ददाति इति ।

१२ - १७ - इह न स्यात् ।

१३ - १७ - उपाध्यायाय गाम् अदात् ।

१४ - १७ - उपाध्यायाय गाम् दास्यति इति ।

१५ - १७ - अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति ।

१६ - १७ - अभिः आभिमुख्ये वर्तते प्रशब्दः आदिकर्मणि ।

१७ - १७ - तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति ।

१ - २५ - क्रियाग्रहणम् अपि कर्तव्यम् ।

२ - २५ - इह अपि यथा स्यात् ।

३ - २५ - श्राद्धाय निगर्हते ।

४ - २५ - युद्धाय सन्नह्यते ।

५ - २५ - पत्ये शेते इति ।

६ - २५ - तत् तर्हि वक्तव्यम् ।

७ - २५ - न वक्तव्यम् ।

८ - २५ - कथम् ।

९ - २५ - क्रियाम् हि लोके कर्म इति उपचरन्ति ।

१० - २५ - काम् क्रियाम् करिष्यसि ।

११ - २५ - किम् कर्म करिष्यसि इति ।

१२ - २५ - एवम् अपि कर्तव्यम् ।

१३ - २५ - कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।

१४ - २५ - क्रिया अपि कृत्रिमम् कर्म ।

१५ - २५ - न सिध्यति ।

१६ - २५ - कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् ।

१७ - २५ - क्रिया अपि क्रियया ईप्सिततमा भवति ।

१८ - २५ - कया क्रियया ।

१९ - २५ - सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा ।

२० - २५ - इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः ।

२१ - २५ - एवम् क्रिया अपि कृत्रिमम् कर्म ।

२२ - २५ - एवम् अपि कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा ।

२३ - २५ - पशुना रुद्रम् यजते ।

२४ - २५ - पशुम् रुद्राय ददाति इति अर्थः ।

२५ - २५ - अग्नौ किल पशुः प्रक्षिप्यते तत् रुद्राय पह्रियते इति ।

१ - ६ - किमेते एकार्थाः आहोस्वित् नानार्थाः ।

२ - ६ - किम् च अतः ।

३ - ६ - यदि एकार्थाः किमर्थम् पृथक् निर्दिश्यन्ते ।

४ - ६ - अथ नानार्थाः कथम् कुपिना शक्यन्ते विशेषयितुम् ।

५ - ६ - एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति ।

६ - ६ - न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति ।

१ - २५ - तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् करणसञ्ज्ञा प्रसज्येत ।

२ - २५ - सर्वाणि हि कारकाणि साधकानि ।

३ - २५ - तमग्रहणे पुनः क्रियमाणे न दोषः भवति ।

४ - २५ - न एतत् अस्ति प्रयोजनम् ।

५ - २५ - पूर्वाः तावत् सञ्ज्ञाः अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च अनवकाशत्वात् च ।

६ - २५ - इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च अपादानसञ्ज्ञा साधकत्वात् च करणसञ्ज्ञा प्राप्नोति ।

७ - २५ - तमग्रहणे पुनः क्रियमाणे न दोषः भवति ।

८ - २५ - एवम् तर्हि लोकतः एतत् सिद्धम् ।

९ - २५ - तत् यथा ।

१० - २५ - लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति ।

११ - २५ - तत्र अभिरूपतमाय इति गम्यते ।

१२ - २५ - एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति ।

१३ - २५ - तत्र साधकतमम् इति विज्ञास्यते ।

१४ - २५ - एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् ज्ञापयति आचार्यः कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति ।

१५ - २५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१६ - २५ - अपादानम् आचार्यः किम् न्याय्यम् मन्यते ।

१७ - २५ - यत्र सम्प्राप्य निवृत्तिः ।

१८ - २५ - तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति ।

१९ - २५ - साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् ।

२० - २५ - कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति ।

२१ - २५ - तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते ।

२२ - २५ - यत्र कृत्स्नः आधारात्मा व्याप्तः भवति ।

२३ - २५ - तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति ।

२४ - २५ - गङ्गायाम् गावः कूपे गर्गर्कुलम् इति अत्र न स्यात् ।

२५ - २५ - कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति ।

१ - ८ - वसेः अश्यर्थस्य प्रतिषेधः । वसेः अश्यर्थस्य प्रतिषेधः वक्तव्यः ।

२ - ८ - ग्राम उपवसति इति ।

३ - ८ - सः तर्हि वक्तव्यः ।

४ - ८ - न वक्तव्यः ।

५ - ८ - न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् ।

६ - ८ - कस्य तर्हि ।

७ - ८ - अनुपसर्गस्य ।

८ - ८ - ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति ।

१ - ६ - तमग्रहणम् किमर्थम् ।

२ - ६ - कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह॒ अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्रसज्येत ।

३ - ६ - न एषः दोषः ।

४ - ६ - कर्मसञ्ज्ञा तत्र बाधिका भविष्यति ।

५ - ६ - अग्नौ अपि तर्हि बाधिका स्यात् ।

६ - ६ - इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति ।

१ - २० - इह उच्यते ओदनम् पचति इति ।

२ - २० - यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत ।

३ - २० - न एषः दोषः ।

४ - २० - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

५ - २० - ओदनार्थाः तण्डुलाः ओदनः इति ।

६ - २० - अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति ।

७ - २० - उभ्यथा अपि भवितव्यम् ।

८ - २० - कथम् ।

९ - २० - इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः ।

१० - २० - तण्डुलान् पचन् ओदनम् निर्वर्तयति इति ।

११ - २० - इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी ।

१२ - २० - तण्डुलविकारम् ओदनम् निर्वर्तयति इति ।

१३ - २० - इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति ।

१४ - २० - सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति ।

१५ - २० - आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति ।

१६ - २० - आमन्त्र्यमाणः आह दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीय इति ।

१७ - २० - अत्र कर्मसञ्ज्ञा प्राप्नोति ।

१८ - २० - तत् हि तस्य ईप्सिततमम् भवति ।

१९ - २० - तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः ।

२० - २० - तत् यथा भुञ्जीय अहम् ओदनम् यदि मृदुविशदः स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् भुञ्जीय पयोगुणमोदनम् भुञ्जीय इति ।

१ - १६ - ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञाप्रसङ्गः क्रियेप्सितत्वात् ।

२ - १६ - ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञा न प्राप्नोति ।

३ - १६ - गुडम् भक्षयति इति ।

४ - १६ - किम् कारणम् ।

५ - १६ - क्रियेप्सितत्वात् ।

६ - १६ - क्रिया तस्य ईप्सिता ।

७ - १६ - न वा उभयेप्सितत्वात् ।

८ - १६ - न वा एषः दोषः ।

९ - १६ - किम् कारणम् ।

१० - १६ - उभयेप्सितत्वात् ।

११ - १६ - उभयम् तस्य ईप्सितम् ।

१२ - १६ - आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति ।

१३ - १६ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति ।

१४ - १६ - स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति ।

१५ - १६ - तस्य क्रियामात्रम् ईप्सितम् ।

१६ - १६ - यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति ।

१ - २२ - किम् उदाहरणम् ।

२ - २२ - विषम् भक्षयति इति ।

३ - २२ - न एतत् अस्ति ।

४ - २२ - पूर्वेण अपि एतत् सिध्यति ।

५ - २२ - न सिध्यति ।

६ - २२ - कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् ।

७ - २२ - विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति ।

८ - २२ - कथम् ।

९ - २२ - इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि अनुनिशम्य विषभक्षणम् एव ज्यायः मन्यते ।

१० - २२ - आतः च ईप्सितम् यत् तत् भक्षयति ।

११ - २२ - यत् तर्थि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् ।

१२ - २२ - किम् पुनः तत् ।

१३ - २२ - ग्रामान्तरम् अयम् गच्छन् चौरान् पश्यति अहिम् लङ्घयति कण्टकान् मृद्नाति ।

१४ - २२ - इह ईप्सितस्य अपि कर्मसञ्ज्ञा आरभ्यते अनीप्सितस्य अपि ।

१५ - २२ - यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् ।

१६ - २२ - ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति ।

१७ - २२ - अत्र अपि सिद्धम् ।

१८ - २२ - कथम् ।

१९ - २२ - अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति ।

२० - २२ - किम् तर्हि ।

२१ - २२ - पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति ।

२२ - २२ - अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति ।

१ - ४३ - केन अकथितम् ।

२ - ४३ - अपादानादिभिः विशेषकथाभिः ।

३ - ४३ - किम् उदाहरणम् ।

४ - ४३ - दुहियाचिरुधिप्रछिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ ब्रुविशासिगुणेन च यत्सचते तत् अकीर्तितम् आचरितम् कविना ।

५ - ४३ - दुहि ॒ गाम् दोग्धि पयः ।

६ - ४३ - न एतत् अस्ति ।

७ - ४३ - कथिता अत्र पूर्वा अपादन्सञ्ज्ञा ।

८ - ४३ - दुहि ।

९ - ४३ - याचि ॒ इदम् तर्हि पौरवम् गाम् याचते इति ।

१० - ४३ - न एतत् अस्ति ।

११ - ४३ - कथिता अत्र पूर्वा अपादन्सञ्ज्ञा ।

१२ - ४३ - न याचनात् एव अपायः भवति ।

१३ - ४३ - याचितः असौ यदि ददाति ततः अपायेन युज्यते ।

१४ - ४३ - याचि ।

१५ - ४३ - रुधि ॒ अन्ववरुणद्धि गाम् व्रजम् ।

१६ - ४३ - न एतत् अस्ति ।

१७ - ४३ - कथिता अत्र पूर्वा अधिकरणसञ्ज्ञा ।

१८ - ४३ - रुधि ।

१९ - ४३ - प्रच्छि ॒ माणवकम् पन्थानम् पृच्छति ।

२० - ४३ - न एतत् अस्ति ।

२१ - ४३ - कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।

२२ - ४३ - न प्रश्नात् एव अपायः भवति ।

२३ - ४३ - पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते ।

२४ - ४३ - प्रच्छि. भिक्षि ॒ पौरवम् गाम् भिक्षते ।

२५ - ४३ - न एतत् अस्ति ।

२६ - ४३ - कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।

२७ - ४३ - न भिक्षणात् एव अपायः भवति ।

२८ - ४३ - भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते ।

२९ - ४३ - भिक्षि ।

३० - ४३ - चिञ् ॒ वृक्षम् अवचिनोति फलानि ।

३१ - ४३ - न एतत् अस्ति ।

३२ - ४३ - कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।

३३ - ४३ - ब्रुविशासिगुणेन च यत् सचते तत् अकीर्तितम् आचरितम् कविना ।

३४ - ४३ - ब्रुविशासिगुणेन च यत् सचते सम्बध्यते तत् च दाहरणम् ।

३५ - ४३ - किम् पुनः तत् ।

३६ - ४३ - पुत्रम् ब्रूते धर्मम् ।

३७ - ४३ - पुत्रम् अनुशास्ति धर्मम् इति ।

३८ - ४३ - न एतत् अस्ति ।

३९ - ४३ - कथिता अत्र पूर्वा सम्प्रदानसञ्ज्ञा ।

४० - ४३ - तस्मात् त्रीणि एव उदाहरणानि ।

४१ - ४३ - पौरवम् गाम् याचते ।

४२ - ४३ - माणवकम् पन्थानम् पृच्छति ।

४३ - ४३ - पौरवम् गाम् भिक्षते इति ।

१ - ५७ - अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते ।

२ - ५७ - कथिते लादयः ।

३ - ५७ - कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या । कथिते लादयः चेत् स्युः षष्ट्ःीम् कुर्यात् तदा गुणे ।

४ - ५७ - कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या ।

५ - ५७ - दुह्यते गोः पयः ।

६ - ५७ - याच्यते पौरवस्य कम्बलः इति ।

७ - ५७ - कथम् ।

८ - ५७ - अकारकम् ह्यकथितत्वात् ।

९ - ५७ - अकारकम् हि एतत् भवति ।

१० - ५७ - किम् कारणम् ।

११ - ५७ - अकथितत्वात् ।

१२ - ५७ - कारकम् चेत् तु न अकथा ।

१३ - ५७ - अथ कारकम् न अकथितम् ।

१४ - ५७ - अथ कारके सति का कर्तव्या ।

१५ - ५७ - कारकम् चेत् विजानीयात् याम् याम् मन्येत सा भवेत् ।

१६ - ५७ - कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या ।

१७ - ५७ - दुह्यते गोः पयः ।

१८ - ५७ - याच्यते पौरवात् कम्बलः इति ।

१९ - ५७ - कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे ।

२० - ५७ - कथिते लादिभिः अभिहिते त्वविधिः एषः भवति ।

२१ - ५७ - किम् इदम् त्वविधिः इति ।

२२ - ५७ - तव विधिः त्वविधिः ।

२३ - ५७ - त्वमतिः ।

२४ - ५७ - किमिदम् त्वमतिः इति ।

२५ - ५७ - तव मतिः त्वमतिः ।

२६ - ५७ - न एवम् अन्ये मन्यन्ते ।

२७ - ५७ - कथम् तर्हि अन्ये मन्यन्ते ।

२८ - ५७ - गुणकर्मणि लादिविधिः सपरे ।

२९ - ५७ - गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन ।

३० - ५७ - गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सः णौ इति ।

३१ - ५७ - ध्रुवचेष्टितयुक्तिषु च अपि अगुणे तत् अनल्पमतेः वचनम् स्मरत । ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति ।

३२ - ५७ - तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् ।

३३ - ५७ - अपरः आह ॒ प्रधानकर्मणि आख्येये लादीन् आहुः द्विकर्मणाम् । प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् ।

३४ - ५७ - अजाम् नयति ग्रामम् ।

३५ - ५७ - अजा नीयते ग्रामम् ।

३६ - ५७ - अजा नीता ग्रामम् इति ।

३७ - ५७ - अप्रधाने दुहादीनाम् । अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् ।

३८ - ५७ - दुह्यते गौः पयः ।

३९ - ५७ - ण्यन्ते कर्तुः च कर्मणः । लादयः भवन्ति इति वक्तव्यम् ।

४० - ५७ - गम्यते देवदत्तः ग्रामम् यज्ञदत्तेन ।

४१ - ५७ - के पुनः धातूनाम् द्विकर्मकाः ।

४२ - ५७ - नीवह्योः हरतेः च अपि गत्यर्थानाम् तथा एव च द्विकर्मकेषु ग्रहणम् द्रष्टव्यम् इति निश्चयः ।

४३ - ५७ - अजाम् नयति ग्रामम् ।

४४ - ५७ - भारम् वहति ग्रामम् ।

४५ - ५७ - भारम् हरति ग्रामम् ।

४६ - ५७ - गत्यर्थानाम् ।

४७ - ५७ - गमयति देवदत्तम् ग्रामम् ।

४८ - ५७ - यापयति देवदत्तम् ग्रामम् ।

४९ - ५७ - सिद्धम् वा अपो अन्यकर्मणः ।

५० - ५७ - सिद्धम् वा पुनः एतत् भवति ।

५१ - ५७ - कुतः ।

५२ - ५७ - अन्यकर्मणः ।

५३ - ५७ - अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः ।

५४ - ५७ - अजाम् असौ गृहीत्वा ग्रामम् नयति ।

५५ - ५७ - अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः भवेत् । अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् ।

५६ - ५७ - अजा नीयते ग्रामम् इति ।

५७ - ५७ - परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति ।

१ - २७ - कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा हि अर्कर्मणाम् ।

२ - २७ - कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् कर्मसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

३ - २७ - काल ।

४ - २७ - मासम् आस्ते ।

५ - २७ - मासम् स्वपिति ।

६ - २७ - भाव ।

७ - २७ - गोदोहम् आस्ते ।

८ - २७ - गोदोहम् स्वपिति ।

९ - २७ - अध्वगन्तव्य ।

१० - २७ - क्रोशम् आस्ते ।

११ - २७ - क्रोशम् स्वपिति ।

१२ - २७ - देशः च अकर्मणाम् कर्मसञ्ज्ञः भवति इति वक्तव्यम् ।

१३ - २७ - कुरून् स्वपिति ।

१४ - २७ - पञ्चालान् स्वपिति ।

१५ - २७ - विपरीतम् तु यत् कर्म तत् कल्म कवयः विदुः । किमिदम् कल्म इति ।

१६ - २७ - अपरिसमाप्तम् कर्म कल्म ।

१७ - २७ - न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते ।

१८ - २७ - किम् तर्हि ।

१९ - २७ - द्वितीया एव ।

२० - २७ - यस्मिन् तु कर्मणि उपजायते अन्यत् धात्वर्थयोगा अपि च यत्र षष्ठी तत् कर्म कल्म इति च कल्म न उक्तम् धातोः हि वृत्तिः न रलत्वतः अस्ति ।

२१ - २७ - एतेन कर्मसञ्ज्ञा सर्वा सिद्धा भवति कथितेन ।

२२ - २७ - तत्र ईप्सितस्य किम् स्यात् प्रयोजनम् कर्मसञ्ज्ञायाः ।

२३ - २७ - यत् तु कथितम् पुरस्तात् ईप्सिततयुक्तम् च तस्य सिद्ध्यर्थम् ।

२४ - २७ - ईप्सितम् एव तु यत् स्यात् तस्य भविष्यति कथितेन ।

२५ - २७ - अथ इह कथम् भवितव्यम् ।

२६ - २७ - नेता अश्वस्य स्रुघ्नम् इति आहोस्वित् नेता अश्वस्य स्रुघ्नस्य इति ।

२७ - २७ - उभयथा गोणिकापुत्रः ।

१ - ३७ - शब्दकर्म इति कथम् इदम् विज्ञायते ।

२ - ३७ - शब्दः येषाम् क्रिया इति आहोस्वित् शब्दः येषाम् कर्म इति ।

३ - ३७ - कः च अत्र विशेषः ।

४ - ३७ - शब्दकर्मनिर्देशे शब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः । शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः ।

५ - ३७ - के पुनः ह्वयतादयः ।

६ - ३७ - ह्वयति क्रन्दति शब्दायते ।

७ - ३७ - ह्वयति देवदत्तः ।

८ - ३७ - ह्वाययति देवदत्तेन ।

९ - ३७ - क्रन्दति देवदत्तः ।

१० - ३७ - क्रन्दयति देवदत्तेन ।

११ - ३७ - शब्दायते देवदत्तः ।

१२ - ३७ - शब्दाययति देवदत्तेन इति ।

१३ - ३७ - शृणोत्यादीन् आम् च उपसम्ख्यानम् अशब्दक्रियत्वात् ।

१४ - ३७ - शृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् ।

१५ - ३७ - के पुनः शृणोत्यादयः ।

१६ - ३७ - शृणोति विजानाति उपलभते ।

१७ - ३७ - शृणोति देवदत्तः ।

१८ - ३७ - श्रावयति देवदत्तम् ।

१९ - ३७ - विजानाति देवदत्तः ।

२० - ३७ - विज्ञापयति देवदत्तम् ।

२१ - ३७ - उपलभते देवदत्तः ।

२२ - ३७ - उपलम्भयति देवदत्तम् ।

२३ - ३७ - किम् पुनः कारणम् न सिध्यति ।

२४ - ३७ - अशब्दक्रियत्वाद् ।

२५ - ३७ - अस्तु तर्हि शब्दः येषाम् कर्म इति ।

२६ - ३७ - शब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् । शब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपसङ्ख्यानम् कर्तव्यम् ।

२७ - ३७ - के पुनः जल्पतिप्रभृअतयः ।

२८ - ३७ - जल्पति विलपति आभाषते ।

२९ - ३७ - जल्पति देवदत्तः ।

३० - ३७ - जल्पयति देवदत्तम् ।

३१ - ३७ - विलपति देवदत्तः ।

३२ - ३७ - विलापयति देवदत्तम् ।

३३ - ३७ - आभाषते देवदत्तः ।आभाषयति देवदत्तम् ।

३४ - ३७ - दृशेः सर्वत्र ।

३५ - ३७ - दृशेः सर्वत्र उपसङ्ख्यानम् कर्तव्यम् ।

३६ - ३७ - पश्यति रूपतर्कः कार्षापणम् ।

३७ - ३७ - दर्शयति रूपतर्कम् कार्षापणम् ।

१ - २६ - अदिखादिनीवहीनाम् प्रतिषेधः ।

२ - २६ - अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः ।

३ - २६ - अत्ति देवदत्तः ।

४ - २६ - आदयते देवदत्तेन ।

५ - २६ - अपरः आह ॒ सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि ।

६ - २६ - इदम् एकम् इष्यते ॒ क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः ॒ इदम् एषाम् जग्धम् ।

७ - २६ - खादि ।

८ - २६ - खादति देवदत्तः ।

९ - २६ - खादयति देवदत्तेन ।

१० - २६ - नी ।

११ - २६ - नयति देवदत्तः ।

१२ - २६ - नाययति देवदत्तेन ।

१३ - २६ - वहेरनियन्तृकर्तृकस्य ।

१४ - २६ - वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम् ।

१५ - २६ - वहति भारम् देवदत्तः ।

१६ - २६ - वाहयति भारम् देवदत्तेन ।

१७ - २६ - अनियन्तृकर्तृकस्य इति किमर्थम् ।

१८ - २६ - वहन्ति यवान् बलीवर्दाः ।

१९ - २६ - वाहयन्ति बलीवर्दान् यवान् ।

२० - २६ - भक्षेः अहिंसार्थस्य ।

२१ - २६ - भक्षेः अहिम्सार्थस्य इति वक्तव्यम् ।

२२ - २६ - भक्षयति पिण्डीम् देवदत्तः ।

२३ - २६ - भक्षयति पिण्डीम् देवदत्तेन ।

२४ - २६ - अहिम्सार्थस्य इति किमर्थम् ।

२५ - २६ - भक्षयन्ति यवान् बलीवर्दाः ।

२६ - २६ - भक्षयन्ति बलीवर्दान् यवान् ।

१ - १९ - अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् ।

२ - १९ - अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १९ - मासम् आस्ते देवदत्तः ।

४ - १९ - मासम् आसयति देवदत्तम् ।

५ - १९ - मासम् शेते देवदत्तः ।

६ - १९ - मासम् शाययति देवदत्तम् ।

७ - १९ - सिद्धम् तु कालकर्मकाणाम् अकर्मकवद्वचनात् ।

८ - १९ - सिद्धम् एतत् ।

९ - १९ - कथम् ।

१० - १९ - कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् ।

११ - १९ - तत् तर्हि वक्तव्यम् ।

१२ - १९ - न वक्तव्यम् ।

१३ - १९ - अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः ।

१४ - १९ - ते एवम् विज्ञास्यामः ।

१५ - १९ - क्व चित् ये अकर्मकाः इति ।

१६ - १९ - अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् ।

१७ - १९ - न च एतेन कर्मणा कः चित् अपि अकर्मकः ।

१८ - १९ - अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् ।

 - १९ - न च एतत् कर्म क्व चित् अपि न भवति ।

१ - १० - हृक्रोः वावचने अभिवादिदृश्योः आत्मनेपदे उपसङ्ख्यानम् ।

२ - १० - हृक्रोर्वावचने अभिवादिदृशोः आत्मनेपदे उपसङ्ख्यानम् कर्तव्यम् ।

३ - १० - अभिवदति गुरुम् देवदत्तः ।

४ - १० - अभिवादयते गुरुम् देवदत्तम् ।

५ - १० - अभिवादयते गुरुम् देवदत्तेन ।

६ - १० - पश्यन्ति भृत्याः राजानम् ।

७ - १० - दर्शयते भृत्यान् राजा ।

८ - १० - दर्शयते भृत्यैः राजा ।

९ - १० - कथम् च अत्र आत्मनेपदम् ।

१० - १० - एकस्य णेः अणौ इ ति अपरस्य णिचः च इति ।

१ - १२ - किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः ।

२ - १२ - किम् च अतः ।

३ - १२ - तन्तुवाये प्राप्नोति ।

४ - १२ - न एषः दोषः ।

५ - १२ - अयम् तन्त्रशब्दः अस्ति एव विताने वर्तते ।

६ - १२ - तत् यथा ॒ आस्तीर्णम् तन्त्रम् ।

७ - १२ - प्रेतम् तन्त्रम् ।

८ - १२ - वितानः इति गम्यते ।

९ - १२ - अस्ति प्राधान्ये वर्तते ।

१० - १२ - तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते ।

११ - १२ - स्वप्रधानः इति गम्यते ।

१२ - १२ - तत् यः प्राधान्ये वर्तते तन्त्रशब्दः तस्य इदम् ग्रहणम् ।

१ - १८ - स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् अस्वत्रन्त्वात् ।

२ - १८ - स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् कर्तव्यम् ।

३ - १८ - पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति ।

४ - १८ - किम् पुनः कारणम् न सिध्यति ।

५ - १८ - अस्वतन्त्रत्वात् ।

६ - १८ - न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् ।

७ - १८ - न वा कर्तव्यम् ।

८ - १८ - किम् कारणम् ।

९ - १८ - स्वातन्त्र्यात् ।

१० - १८ - स्वतन्त्रः असौ भवति ।

११ - १८ - इतरथा हि अकुर्वति अपि कारयति इति स्यात् ।

१२ - १८ - यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् ।

१३ - १८ - न अकुर्वत् इ इति चेत् स्वतन्त्रः ।

१४ - १८ - न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति ।

१५ - १८ - शक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति ।

१६ - १८ - साधीयः ज्ञापकम् भवति ।

१७ - १८ - प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति ।

१८ - १८ - यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति ।

१ - १६ - प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञाप्रसिद्धिः ।

२ - १६ - प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञायाः अप्रसिद्धिः ।

३ - १६ - स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते ।

४ - १६ - न च असौ स्वतन्त्रम् प्रयोजयति ।

५ - १६ - स्वतन्त्रत्वात् सिद्धम् ।

६ - १६ - सिद्धम् एतत् ।

७ - १६ - कथम् ।

८ - १६ - स्वतन्त्रत्वात् ।

९ - १६ - स्वतन्त्रम् असौ प्रयोजयति ।

१० - १६ - स्वतन्त्रत्वात् सिद्धम् इति चेत् स्वतन्त्रपरतन्त्रत्वम् विप्रतिषिद्दम् ।

११ - १६ - यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् ।

१२ - १६ - उक्तम् वा ।

१३ - १६ - किम् उक्तम् ।

१४ - १६ - एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति ।

१५ - १६ - अपरम् उक्तम् ।

१६ - १६ - न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तमसम्शयेन तुल्यम् इति ।

१ - २६ - किमर्थम् रेफाधिकः ईश्वरशब्दः गृह्यते ।

२ - २६ - रीश्वरात् वीश्वरात् मा भूत् ।

३ - २६ - रीश्वरात् इति उच्यते वीश्वरात् मा भूत् ।

४ - २६ - शकि णमुल्कमुलौ ईश्वरे तोसुन्कसुनौ इति ।

५ - २६ - न एतत् अस्ति प्रयोजनम् ।

६ - २६ - आचार्यप्रवृत्तिः ज्ञापयति अनन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च अव्ययसञ्ज्ञाम् शास्ति ।

७ - २६ - कृत् मेजन्तः परः अपि सः ।

८ - २६ - परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति ।

९ - २६ - तदर्थम् एतत् स्यात् ।

१० - २६ - यत् तर्हि अव्ययीभावस्य अव्ययसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः नन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति ।

११ - २६ - समासेषु अव्ययीभावः ।

१२ - २६ - समासस्य एतत् ज्ञापकम् स्यात् ।

१३ - २६ - अव्ययीभावः एव समासः अव्ययसञ्ज्ञः भवति न अन्यः इति ।

१४ - २६ - एवम् तर्हि लोकतः एतत् सिद्धम् ।

१५ - २६ - तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति ।

१६ - २६ - लौकिकम् च अतिवर्तते ।

१७ - २६ - द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति ।

१८ - २६ - तस्मात् रेफादिकः ईश्वरशब्दः ग्रहीतव्यः ।

१९ - २६ - अथ प्राग्वचनम् किमर्थम् ।

२० - २६ - प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् ।

२१ - २६ - प्राग्वचनम् क्रियते निपातसञ्ज्ञायाः अनिवृत्तिः यथा स्यात् ।

२२ - २६ - अक्रियमाणे हि प्राग्वचने अनवकाशाः गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः निपातसञ्ज्ञाम् बाधेरन् ।

२३ - २६ - ताः मा बाधिषत इति प्राग्वचनम् क्रियते ।

२४ - २६ - अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः एताः सञ्ज्ञाः कस्मात् एव न बाधन्ते ।

२५ - २६ - क्रियमाणे हि प्राग्वचने सत्याम् निपातसञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते ।

२६ - २६ - तत्र वचनात् समावेशः भवति ।

१ - १८ - अयम् सत्त्वशब्दः अस्ति एव द्रव्यपदार्थकः ।

२ - १८ - तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति ।

३ - १८ - अस्ति क्रियापदार्थकः ।

४ - १८ - सद्भावः सत्त्वम् इति ।

५ - १८ - कस्य इदम् ग्रहणम् ।

६ - १८ - द्रव्यपदार्थकस्य ।

७ - १८ - कुतः एतत् ।

८ - १८ - एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च ।

९ - १८ - किम् पुनः अयम् पर्युदासः ।

१० - १८ - यत् अन्यत् सत्त्ववचनात् इति ।

११ - १८ - आहोस्वित् प्रसज्य अयम् प्रतिषेधः ।

१२ - १८ - सत्त्ववचने न इति ।

१३ - १८ - किम् च अतः ।

१४ - १८ - यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति ।

१५ - १८ - क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् अन्यश्च विधिना आश्रीयते ।

१६ - १८ - अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना निपातसञ्ज्ञा प्राप्नोति ।

१७ - १८ - अथ प्रसज्यप्रतिषेधः न दोषः भवति ।

१८ - १८ - यथा न दोषः तथा अस्तु ।

१ - ९ - प्रादयः इति योगविभागः ।

२ - ९ - प्रादयः इति योगविभागः कर्तव्यः ।

३ - ९ - प्रादयः सत्त्ववचनाः निपातसञ्ज्ञाः भवन्ति ।

४ - ९ - ततः उपसर्गाः क्रियायोगे इति ।

५ - ९ - किमर्थः योगविभागः ।

६ - ९ - निपातसञ्ज्ञार्थः ।

७ - ९ - निपातसञ्ज्ञा यथा स्यात् ।

८ - ९ - एकयोगे हि निपातसञ्ज्ञाभावः । एकयोगे हि सति निपातसञ्ज्ञाया अभावः स्यात् ।

९ - ९ - यस्मिन् एव विशेषे गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः तस्मिन् एव विशेषे निपातसञ्ज्ञा स्यात् ।

१ - ७ - मरुच्छब्दस्य उप्सङ्ख्यानम् ।

२ - ७ - मरुच्छब्दस्य उप्सङ्ख्यानम् कर्तव्यम् ।

३ - ७ - मरुद्दत्तो मरुत्यः ।

४ - ७ - अच उपसर्गात् इति तत्त्वम् यथा स्यात् ।

५ - ७ - श्रच्छब्दस्य उपसम्ख्यानम् ।

६ - ७ - श्रच्छब्दस्य उपसम्ख्यानम् कर्तव्यम् ।

७ - ७ - श्रद्धा ।

१ - ८ - कारिकाशब्दस्य ।

२ - ८ - कारिकाशब्दस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - ८ - कारिकाकृत्य ।

४ - ८ - पुनश्चनसौ छन्दसि ।

५ - ८ - पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवतः इति वक्तव्यम् ।

६ - ८ - पुनरुत्स्यूतम् वासः देयम् ।

७ - ८ - पुनर्निष्कृतः रथः ।

८ - ८ - उशिक् दूतः चनोहितः ।

१ - ५५ - गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति इति वचनम् ।

२ - ५५ - गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

३ - ५५ - किम् प्रयोजनम् ।

४ - ५५ - प्रयोजनम् घञ् षट्वणत्वे ।

५ - ५५ - घञ् ।

६ - ५५ - प्रवृद्धः भावः प्रभावः ।

७ - ५५ - अनुपसर्गे इति प्रतिषेधः मा भूत् ।

८ - ५५ - षत्वम् ।

९ - ५५ - विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः ।

१० - ५५ - उपसर्गात् इति षत्वम् मा भूत् ।

११ - ५५ - णत्वम् ।

१२ - ५५ - प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः ।

१३ - ५५ - उपसर्गादिति णत्वम् मा भूत् ।

१४ - ५५ - वृद्धिविधौ च धातुग्रहणानर्थक्यम् । वृद्धिविधौ च धातुग्रहणम् अनर्थकम् ।

१५ - ५५ - उपसर्गात् ऋति धातौ इति ।

१६ - ५५ - तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति ।

१७ - ५५ - क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति ।

१८ - ५५ - यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति ।

१९ - ५५ - वद्विध्नभावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः भवति ।

२० - ५५ - वद्विधि. यत् उद्वतः निवतः यासि बप्सत् ।

२१ - ५५ - वद्विधि ।

२२ - ५५ - नस्भाव ।

२३ - ५५ - प्रणसम् मुखम् उन्नसम् मुखम् ।

२४ - ५५ - नस्भाव ।

२५ - ५५ - अबीत्त्व ।प्रेपम् परेपम् ।

२६ - ५५ - अबित्त्व ।

२७ - ५५ - स्वाङ्गादिस्वर ।

२८ - ५५ - प्रस्फिक् प्रोदरः ।

२९ - ५५ - स्वाङ्गादिस्वर ।

३० - ५५ - णत्व ।

३१ - ५५ - प्र णः शूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा ।

३२ - ५५ - उपसर्गात् इति एते विधयः न प्राप्नुवन्ति ।

३३ - ५५ - वद्विधिनस्भावबीत्त्वस्वाङ्गदिस्वरणत्वेषु वचनप्रामाण्यात् सिद्धम् ।

३४ - ५५ - अनवकाशाः एते विधयः ।

३५ - ५५ - ते वचनप्रामाण्यात् भविष्यन्ति ।

३६ - ५५ - सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु ।

३७ - ५५ - सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः ।

३८ - ५५ - नुम्विधि ॒ सुलभम् दुर्लभम् ।

३९ - ५५ - उपसर्गात् इति नुम् मा भूत् इति ।

४० - ५५ - न सुदुर्भ्याम् केवलाभ्याम् ।

४१ - ५५ - इति एतत् न वक्तव्यम् भवति ।

४२ - ५५ - न एतत् अस्ति प्रयोजनम् ।

४३ - ५५ - क्रियते एतत् न्यासे एव ।

४४ - ५५ - तत्वम् ।

४५ - ५५ - सुदत्तम् ।

४६ - ५५ - अचः उपसर्गात् तः इति तत्वम् मा भूत् इति ।

४७ - ५५ - षत्वम् ।

४८ - ५५ - सुसिक्तम् घटशतेन सुस्तुतम् श्लोकशतेन ।

४९ - ५५ - उपसर्गात् इति षत्वम् मा भूतिति ।

५० - ५५ - सुः पूजायाम् इति एतत् न वक्तव्यम् भवति ।

५१ - ५५ - न एतत् अस्ति प्रयोजनम् ।

५२ - ५५ - क्रियत एतत् न्यासे एव ।

५३ - ५५ - णत्वम् ।

५४ - ५५ - दुर्नयम् दुर्नीतमिति ।

५५ - ५५ - उपसर्गात् इति णत्वम् मा भूत् इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP