संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय १|पाद ४| खण्ड १९ पाद ४ खण्ड १८ खण्ड १९ खण्ड २० खण्ड २१ पाद ४ - खण्ड १९ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड १९ Translation - भाषांतर १ - १०४ - यू इति किमर्थम् ।२ - १०४ - खट्वा माला ।३ - १०४ - किम् च स्यात् ।४ - १०४ - खट्वाबन्धुः मालाबन्धुः ।५ - १०४ - नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।६ - १०४ - इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत ।७ - १०४ - न एषः दोषः ।८ - १०४ - आचार्यप्रवृत्तिः ज्ञापयति न आपः नदीसञ्ज्ञा भवति इति यत् अयम् ङेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति ।९ - १०४ - इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत ।१० - १०४ - किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः ।११ - १०४ - किम् चातः ।१२ - १०४ - यदि दीर्घयोः ग्रहणम् यू इति निर्देशः न उपपद्यते ।१३ - १०४ - दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।१४ - १०४ - उत्तरत्र च विशेषणम् न प्रकल्पेत यू ह्रस्वौ इति ।१५ - १०४ - यदि यू न ह्रस्वौ ।१६ - १०४ - अथ ह्रस्वौ न यू ।१७ - १०४ - यू ह्रस्वौ चेति विप्रतिषिद्धम् ।१८ - १०४ - अथ ह्रस्वयोः हे शकटे अत्र अपि प्रसज्येत ।१९ - १०४ - न एषः दोषः ।२० - १०४ - अवश्यम् अत्र विभाषा नदीसञ्ज्ञा एषितव्या ।२१ - १०४ - उभयम् हि इष्यते ॒ हे शकटि हे शकटे इति ।२२ - १०४ - इह तर्हि शकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।२३ - १०४ - इह च बहुशकटिः इति नद्यृतः चेति नित्यः कप् प्रसज्येत ।२४ - १०४ - न एषः दोषः ।२५ - १०४ - ङिति ह्रस्वः च इति अयम् नियमार्थः भविष्यति ।२६ - १०४ - ङिति एव यू ह्रस्वौ नदीसञ्ज्ञौ भवतः न न्यत्र इति ।२७ - १०४ - कैमर्थक्यात् नियमः भवति ।२८ - १०४ - विधेयम् न अस्ति इति कृत्वा ।२९ - १०४ - इह च अस्ति विधेयम् ।३० - १०४ - किम् ।३१ - १०४ - नित्या नदीसञ्ज्ञा प्राप्ता सा विभाषा विधेया ।३२ - १०४ - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।३३ - १०४ - अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः ।३४ - १०४ - बाढम् प्रकल्पेत ।३५ - १०४ - नित्यः तर्थि भविष्यति । तत् कथम् ।३६ - १०४ - योगविभागः करिष्यते ।३७ - १०४ - इदम् अस्ति ।३८ - १०४ - यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।३९ - १०४ - ततः ङिति ।४० - १०४ - ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।४१ - १०४ - ततः ह्रस्वौ ।४२ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।४३ - १०४ - इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।४४ - १०४ - यदि एवम् शकटये अत्र गुणः न प्राप्नोति ।४५ - १०४ - द्वितीयः योगविभागः करिष्यते ।४६ - १०४ - शेषग्रहणम् न करिष्यते ।४७ - १०४ - कथम् ।४८ - १०४ - इदम् अस्ति ।४९ - १०४ - यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।५० - १०४ - ततः ङिति ।५१ - १०४ - ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।५२ - १०४ - ततः ह्रस्वौ ।५३ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।५४ - १०४ - ततः ह्रस्वौ ।५५ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।५६ - १०४ - इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।५७ - १०४ - ततः घि ।५८ - १०४ - घिसञ्ज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति ।५९ - १०४ - ततः असखि ।६० - १०४ - सखिवर्जितौ च यू ह्रस्वौ घिसञ्ज्ञौ भवतः ।६१ - १०४ - स्त्र्याख्यौ ङिति इति च निवृत्तम् ।६२ - १०४ - यदि तर्हि शेषग्रहणम् न क्रियते न अर्थः एकेन अपि योगविभागेन ।६३ - १०४ - अविशेषेण नदीसञ्ज्ञा उत्सर्गः ।६४ - १०४ - तस्याः ह्रस्वयोः घिसञ्ज्ञा बाधिका ।६५ - १०४ - तस्याम् नित्यायाम् प्राप्तायाम् ङिति विभाषा आरभ्यते ।६६ - १०४ - अथ वा पुनः अस्तु दीर्घयोः ।६७ - १०४ - ननु च उक्तम् निर्देशः न उपपद्यते ।६८ - १०४ - दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।६९ - १०४ - वा छन्दसि इति एवम् भविष्यति ।७० - १०४ - छन्दसि इति उच्यते न च इदम् छन्दः ।७१ - १०४ - छन्दोवत् सूत्राणि भवन्ति इति ।७२ - १०४ - यत् अपि उच्यते उत्तरत्र विशेषेणम् न प्रकल्पेत यू ह्रस्वौ इति ।७३ - १०४ - यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू ।७४ - १०४ - यू ह्रस्वौ इति विप्रतिषिद्धम् इति ।७५ - १०४ - न एतत् विप्रतिषिद्धम् ।७६ - १०४ - आह अयम् यू ह्रस्वौ इति ।७७ - १०४ - यदि यू न ह्रस्वौ ।७८ - १०४ - अथ ह्रस्वौ न यू ।७९ - १०४ - ते एवम् विज्ञास्यामः य्वोः यौ ह्रस्वौ इति ।८० - १०४ - कौ च य्वोः ह्रस्वौ ।८१ - १०४ - सवर्णौ ।८२ - १०४ - अथ स्त्र्याख्यौ इति कः अयम् शब्दः ।८३ - १०४ - स्त्रियम् आचक्षाते स्त्र्याख्यौ ।८४ - १०४ - यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति ।८५ - १०४ - अनुपसर्गे हि कः विधीयते ।८६ - १०४ - न तर्हि इदानीम् इदम् भवति यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।८७ - १०४ - ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।८८ - १०४ - छन्दोवत् कवयः कुर्वन्ति ।८९ - १०४ - न हि एषा इष्टिः ।९० - १०४ - एवम् तर्हि कर्मसाधनः भविष्यति ॒ स्त्रियाम् आख्यायेते स्त्र्याख्यौ ।९१ - १०४ - यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।९२ - १०४ - तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।९३ - १०४ - एवम् तर्हि बहुव्रीहिः भविष्यति ।९४ - १०४ - स्त्रियाम् आख्या अनयोः स्त्र्याख्यौ ।९५ - १०४ - एवम् अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।९६ - १०४ - तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।९७ - १०४ - एवम् तर्हि विच् भविष्यति ।९८ - १०४ - अथ वा पुनः अस्तु कः एव ।९९ - १०४ - स्त्रियम् आचक्षाते स्त्र्याख्यौ इति ।१०० - १०४ - ननु च उक्तम् स्त्र्याख्यायौ इति प्राप्नोति ।१०१ - १०४ - अनुपसर्गे हि कः विधीयते ।१०२ - १०४ - मूलविभुजादिपाठात् कः भविष्यति ।१०३ - १०४ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।१०४ - १०४ - ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।१ - ५८ - अथ आख्याग्रहणम् किमर्थम् ।२ - ५८ - नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् । नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् ।३ - ५८ - स्त्रीविषयौ एव यौ नित्यम् तयोः एव नदीसञ्ज्ञा यथा स्यात् ।४ - ५८ - इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति ।५ - ५८ - प्रथमलिङ्गग्रहणम् च ।६ - ५८ - प्रथमलिङ्गग्रहणम् च कर्तव्यम् ।७ - ५८ - प्रथमलिङ्गे यौ स्त्र्याखौ इति वक्तव्यम् ।८ - ५८ - किम् प्रयोजनम् ।९ - ५८ - प्रयोजनम् क्विब्लुप्समासाः । कुमार्यै ब्राह्मणाय ।१० - ५८ - लुप् ।११ - ५८ - खरकुट्यै ब्राह्मणाय ।१२ - ५८ - अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय ।१३ - ५८ - तत् तर्हि वक्तव्यम् ।१४ - ५८ - न वक्तव्यम् ।१५ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् ।१६ - ५८ - अवयवः अत्र स्त्रीविषयः तदाश्रया नदीसञ्ज्ञा भविष्यति ।१७ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः अवयवस्य इयङुवङ्स्थानत्वात् ।१८ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत ।१९ - ५८ - आध्यै प्रध्यै ब्राह्मण्यै ।२० - ५८ - किम् कारणम् ।२१ - ५८ - अवयवस्य इयङुवङ्स्थानत्वात् ।२२ - ५८ - अवयवः अत्र इयङुवङ्स्थानः ।२३ - ५८ - सिद्धम् त्वङ्गरूपग्रहणात् यस्य अङ्गस्य इयुवौ तत्प्रतिषेधात् ।२४ - ५८ - सिद्धम् एतत् ।२५ - ५८ - कथम् ।२६ - ५८ - अङ्गरूपम् गृह्यते ।२७ - ५८ - यस्य अङ्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् ।२८ - ५८ - न च एतस्य अङ्गस्य इयुवौ भवतः ।२९ - ५८ - ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने ।३० - ५८ - ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ।३१ - ५८ - शकट्यै अतिशकट्यै ब्रामणाण्यै ।३२ - ५८ - क्व मा भूत् ।३३ - ५८ - शकटये अतिशकटये ब्राह्मणाय ।३४ - ५८ - धेन्वै अतिधेन्वै ब्राह्मण्यै ।३५ - ५८ - क्व मा भूत् ।३६ - ५८ - धेनवे अतिधेनवे ब्राह्मणाय ।३७ - ५८ - श्रियै अतिश्रियै ब्राह्मण्यै ।३८ - ५८ - क्व मा भूत् ।३९ - ५८ - श्रिये अतिश्रिये ब्राह्मणाय ।४० - ५८ - भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।४१ - ५८ - क्व मा भूत् ।४२ - ५८ - भ्रुवे अतिभ्रुवे ब्राह्मणाय ।४३ - ५८ - अपरः आह ॒ ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ॒ शकट्यै , अतिशकट्यै ब्रामणाण्यै ।४४ - ५८ - क्व मा भूत् ।४५ - ५८ - शकटये अतिशकटये ब्राह्मणाय ।४६ - ५८ - धेन्वै अतिधेन्वै ब्राह्मण्यै ।४७ - ५८ - क्व मा भूत् ।४८ - ५८ - धेनवे अतिधेनवे ब्राह्मणाय ।४९ - ५८ - श्रियै अतिश्रियै ब्राह्मण्यै ।५० - ५८ - क्व मा भूत् ।५१ - ५८ - श्रिये अतिश्रिये ब्राह्मणाय ।५२ - ५८ - भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।५३ - ५८ - क्व मा भूत् ।५४ - ५८ - भ्रुवे अतिभ्रुवे ब्राह्मणाय ।५५ - ५८ - किमर्थम् पुनः इदम् उच्यते ।५६ - ५८ - प्रथमलिङ्गग्रहणम् चोदितम् ।५७ - ५८ - तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।५८ - ५८ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति ।१ - ३७ - योगविभागः कर्तव्यः ।२ - ३७ - षष्थीयुक्तः छन्दसि ।३ - ३७ - षष्थीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञः भवति ।४ - ३७ - ततः वा ।५ - ३७ - वा छन्दसि सर्वे विधयो भवति ।६ - ३७ - सुपाम् व्यत्ययः ।७ - ३७ - तिङाम् व्यत्ययः ।८ - ३७ - वर्णव्यत्ययः ।९ - ३७ - लिङ्गव्यत्ययः ।१० - ३७ - कालव्यत्ययः ।११ - ३७ - पुरुषव्यत्ययः ।१२ - ३७ - आत्मनेपदव्यत्ययः ।१३ - ३७ - परस्मैपदव्यत्ययः ।१४ - ३७ - सुपाम् व्यत्ययः ।१५ - ३७ - युक्त मात असीत् धुरि दक्षिणायाः ।१६ - ३७ - दक्षिणायाम् इति प्राप्ते ।१७ - ३७ - तिङाम् व्यत्ययः ।१८ - ३७ - चषलम् ये अश्वयूपय तक्षति ।१९ - ३७ - तक्षन्ति इति प्राप्ते ।२० - ३७ - वर्णव्यत्ययः ।२१ - ३७ - त्रिष्टुभौजः शुभितम् उग्रवीरम् ।२२ - ३७ - सुहितमिति प्राप्ते ।२३ - ३७ - लिङ्गव्यत्ययः ।२४ - ३७ - मधोः गृह्णाति मधोः तृप्ताः इव आसते ।२५ - ३७ - मधुनः इति प्राप्ते ।२६ - ३७ - कालव्यत्ययः ।२७ - ३७ - श्वः अग्नीन् आधास्यमानेन श्वः सोमेन यक्षमाणेन ।२८ - ३७ - श्वः आधाता श्वः यष्टा इति प्राप्ते ।२९ - ३७ - पुरुषव्यत्ययः ।३० - ३७ - अधा सः वीरैः दशभिः वियूयाः ।३१ - ३७ - वियूयात् इति प्राप्ते ।३२ - ३७ - आत्मनेपदव्यत्ययः ।३३ - ३७ - ब्रह्मचारिणम् इच्छते ।३४ - ३७ - इच्छति इति प्राप्ते ।३५ - ३७ - परस्मैपदव्यत्ययः ।३६ - ३७ - प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति ।३७ - ३७ - युध्यते इति प्राप्ते ।१ - ६१ - यस्मात् इति व्यपदेशाय ।२ - ६१ - अथ प्रत्ययग्रहणम् किमर्थम् ।३ - ६१ - यस्मात् विधिः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत ।४ - ६१ - प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति ।५ - ६१ - अथ विधिग्रहणम् किमर्थम् ।६ - ६१ - यस्मात् प्रत्ययः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत ।७ - ६१ - विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति ।८ - ६१ - तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः ।९ - ६१ - यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् अङ्गसञ्ज्ञम् भवति इति ।१० - ६१ - अथ तदादिग्रहणम् किमर्थम् ।११ - ६१ - अङ्गसञ्ज्ञायाम् तदादिवचनम् स्यादिनुमर्थम् । अङ्गसञ्ज्ञायाम् तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च ।१२ - ६१ - स्याद्यर्थम् तावत् ।१३ - ६१ - करिष्यावः करिष्यामः ।१४ - ६१ - नुमर्थम् ।१५ - ६१ - कुण्डानि वनानि ।१६ - ६१ - मित्सुटोः उपसम्ख्यानम् ।१७ - ६१ - मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् ।१८ - ६१ - मित्वतः ।१९ - ६१ - भिनत्ति छिनत्ति अभिनत् अच्छिनत् ।२० - ६१ - सुड्वतः ।२१ - ६१ - सञ्चरकस्तु सञ्चस्करुः ।२२ - ६१ - किम् पुनः कारणम् न सिध्यति ।२३ - ६१ - सुटः बहिरङ्गत्वात् ।२४ - ६१ - बहिरङ्गः सुट् ।२५ - ६१ - अन्तरङ्गः गुणः ।२६ - ६१ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।२७ - ६१ - वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् ।२८ - ६१ - यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन ।२९ - ६१ - इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् ।३० - ६१ - भवेत् एवमर्थेन न अर्थः ।३१ - ६१ - इदम् तु न सिध्यति सञ्चकरतुः सञ्चस्करुः ।३२ - ६१ - किम् पुनः कारणम् न सिध्यति ।३३ - ६१ - इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि ।३४ - ६१ - सिद्धम् तु तदाद्यादिवचनात् ।३५ - ६१ - सिद्धम् एतत् ।३६ - ६१ - कथम् ।३७ - ६१ - तदाद्यादि अङ्गसञ्ज्ञम् भवति इति वक्तव्यम् ।३८ - ६१ - किम् इदम् तदाद्यादि इति ।३९ - ६१ - तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति ।४० - ६१ - सः तर्हि तथा निर्देशः कर्तव्यः ।४१ - ६१ - न कर्तव्यः ।४२ - ६१ - उत्तरपदलोपः अत्र द्रष्टव्यः ।४३ - ६१ - तत् यथा ॒ उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , एवम् तदाद्यादि तदादि इति ।४४ - ६१ - तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा सिद्धम् एतत् ।४५ - ६१ - तदेकदेशभूतम् तद्ग्रहणेन गृह्यते. तद् यथा ।४६ - ६१ - गङ्गा यमुना देवदत्ता इति ।४७ - ६१ - अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते ।४८ - ६१ - तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते ।४९ - ६१ - विषमः उपन्यासः ।५० - ६१ - इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च ।५१ - ६१ - पञ्च सप्त इति ॒ एकेन अपि अपाये न भवन्ति ।५२ - ६१ - द्रोणः खारी आढकम् इति ॒ नैवा अधिके भवन्ति न च न्यूने ।५३ - ६१ - के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च ।५४ - ६१ - तैलम् घृतम् इति ॒ खार्याम् अपि भवन्ति द्रोणे अपि ।५५ - ६१ - शुक्लः नीलः कृष्णः इति ॒ हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये ।५६ - ६१ - अङ्गसञ्ज्ञा च अपि अक्तपरिमाणानाम् क्रियते ।५७ - ६१ - सा केन अधिकस्य स्यात् ।५८ - ६१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् शास्ति ।५९ - ६१ - कथम् कृत्वा ज्ञापकम् ।६० - ६१ - इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गो यत् सककारयोः स्यात् ।६१ - ६१ - पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् शास्ति ।१ - ४५ - अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् ।२ - ४५ - प्रत्ययग्रहणम् पदादौ अप्रसङ्गार्थम् ।३ - ४५ - प्रत्ययग्रहणम् क्रियते पदादौ अङ्गसञ्ज्ञा मा भूत् इति ।४ - ४५ - किम् च स्यात् ।५ - ४५ - स्त्र्यर्थम् , श्र्यर्थम् , भ्वर्थम् ॒ अङ्गस्य इति इयङुवङौ स्याताम् ।६ - ४५ - परिमाणार्थम् च ।७ - ४५ - परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते ।८ - ४५ - यस्मात् प्रत्ययविधिः तदादि अङ्गम् इति इयति उच्यमाने दाशतयस्य अपि अङ्गसञ्ज्ञा प्रसज्येत ।९ - ४५ - तत् तर्हि कर्तव्यम् ।१० - ४५ - न कर्तव्यम् ।११ - ४५ - केन इदानीम् अङ्गकार्यम् भविष्यति ।१२ - ४५ - प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये ।१३ - ४५ - प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः ।१४ - ४५ - सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः तदादितदन्तविज्ञानात् ।१५ - ४५ - सिद्धम् एतत् ।१६ - ४५ - कथम् ।१७ - ४५ - प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या ।१८ - ४५ - कः पुनः अत्र विशेषः एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा ।१९ - ४५ - अवश्यम् एषा परिभाषा कर्तव्या ।२० - ४५ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।२१ - ४५ - प्रयोजनम् धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः ।२२ - ४५ - धातु ।२३ - ४५ - देवदत्तः चिकीर्षति ।२४ - ४५ - सङ्घातस्य धातुसञ्ज्ञा प्राप्नोति ।२५ - ४५ - प्रातिपदिक ।२६ - ४५ - देवदत्त्ः गार्ग्यः ।२७ - ४५ - सङ्घातस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति ।२८ - ४५ - प्रत्यय ।२९ - ४५ - महान्तम् पुत्रम् इच्छति ।३० - ४५ - सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति ।३१ - ४५ - समास ।३२ - ४५ - ऋद्धस्य राज्ञः पुरुषः ।३३ - ४५ - सम्घातस्य समाससञ्ज्ञा प्राप्नोति ।३४ - ४५ - तद्धितविधि ।३५ - ४५ - देवदत्तः गार्ग्यायणः ।३६ - ४५ - सम्घातात् तद्धितोत्पत्तिः प्राप्नोति ।३७ - ४५ - स्वर ।३८ - ४५ - देवदत्तः गार्ग्यः ।३९ - ४५ - सम्घात्स्य ञ्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति ।४० - ४५ - प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति ।४१ - ४५ - सा तर्हि एषा परिभाषा कर्तव्या ।४२ - ४५ - न कर्तव्या ।४३ - ४५ - एवम् वक्ष्यामि ॒ यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते ।४४ - ४५ - ततः अङ्गम् ।४५ - ४५ - अङ्गसञ्ज्ञम् च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये ।१ - १९ - यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति ।२ - १९ - एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि ॒ कृद्ग्रहणे गतिकारकपूर्वस्य अपि ।३ - १९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या ।४ - १९ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।५ - १९ - प्रयोजनम् समासतद्धितविधिस्वराः ।६ - १९ - समास ।७ - १९ - अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति ।८ - १९ - समास ।९ - १९ - तद्धितविधि ।१० - १९ - साङ्कूटिनम् व्यावक्रोशी ।११ - १९ - सम्घातात् तद्धितोपत्तिः सिद्धा भवति ।१२ - १९ - तद्धितविधि ।१३ - १९ - स्वर ।१४ - १९ - दूरात् आगतः दूरादागतः इति ।१५ - १९ - अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एषः स्वरः सिद्धः भवति ।१६ - १९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति ।१७ - १९ - सा तर्हि एषा परिभाषा कर्तव्या ।१८ - १९ - न कर्तव्या ।१९ - १९ - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति ।१ - २१ - अन्तग्रहणम् किमर्थम् न सुप्तिङ् पदम् इति एव उच्यते ।२ - २१ - केन इदानीम् तदन्तानाम् भविष्यति ।३ - २१ - तदन्तविधिना ।४ - २१ - अतः उत्तरम् पठति ।५ - २१ - पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ।६ - २१ - पदसञ्ज्ञायाम् अन्तग्रहणम् क्रियते ज्ञापकार्थम् ।७ - २१ - किम् ज्ञाप्यम् ।८ - २१ - एतत् ज्ञापयति आचार्यः अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिः न भवति इति ।९ - २१ - किम् एतस्य ज्ञापने प्रयोजनम् ।१० - २१ - तरप्तमौ घः ।११ - २१ - तरप्तमबन्तस्य घसञ्ज्ञा न भवति ।१२ - २१ - किम् च स्यात् ।१३ - २१ - कुमारी गौरितरा ।१४ - २१ - घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।१५ - २१ - यदि एतत् ज्ञाप्यते सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् ।१६ - २१ - कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् ।१७ - २१ - इदम् तृतीयम् ज्ञापकार्थम् ।१८ - २१ - द्वे तावत् क्रियेते न्यासे एव ।१९ - २१ - यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति ।२० - २१ - न कर्तव्यम् ।२१ - २१ - अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा ।१ - ५ - किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् ।२ - ५ - नियमार्थः अयमारम्भः ।३ - ५ - नान्तमेव क्ये पदसञ्ज्ञम् भवति न अन्यत् ।४ - ५ - क्व मा भूत् ।५ - ५ - वाच्यति स्रुच्यति१ - २५ - असर्वनामस्थाने इति उच्यते ।२ - २५ - तत्र ते राजा तक्षा असर्वनामस्थाने इति पदसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।३ - २५ - न अप्रतिषेधात् ।४ - २५ - न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति ।५ - २५ - किम् तर्हि ।६ - २५ - पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति ।७ - २५ - सर्वनामस्थाने अव्यापारः ।८ - २५ - यदि केन चित्प्राप्नोति तेन भविष्यति ।९ - २५ - पूर्वेण च प्राप्नोति ।१० - २५ - अप्राप्तेः वा ।११ - २५ - अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।१२ - २५ - कुतः एतत् ।१३ - २५ - अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।१४ - २५ - पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।१५ - २५ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।१६ - २५ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।१७ - २५ - अथ वा योगविभागः करिष्यते ।१८ - २५ - स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति ।१९ - २५ - ततः सर्वनामस्थाने अयचिपूर्वम् पदसञ्ज्ञम् भवति ।२० - २५ - ततो भम् ।२१ - २५ - भसञ्ज्ञम् च भवति यजादौ असर्वनामस्थाने इति ।२२ - २५ - यदि तर्हि सौ अपि पदम् भवति एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति ।२३ - २५ - वाक्यपदयोः अन्त्यस्य इति एवम् तत् ।२४ - २५ - भुवद्वद्भ्यः धारयद्भ्यः एतयोः पदसञ्ज्ञा वक्तव्या ।२५ - २५ - भुवद्वद्भ्यः धारयद्वद्भ्यः ।१ - १८ - भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः ।२ - १८ - भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः ।३ - १८ - अनुकम्पितः षडड्गुलिः षडिकः ।४ - १८ - सिद्धम् अचः स्थानिवत्त्वात् ।५ - १८ - सिद्धम् एतत् ।६ - १८ - कथम् ।७ - १८ - अचः स्थानिवद्भावात् भसञ्ज्ञा न भविष्यति ।८ - १८ - इह अपि तर्हि प्राप्नोति ।९ - १८ - वागाशीर्दत्तः वाचिकः इति ।१० - १८ - वक्ष्यति एतत् ॒ सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति ।११ - १८ - इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति ।१२ - १८ - वक्ष्यति एतत् ॒ षषः ठाजादिवचनात् सिद्धम् इति ।१३ - १८ - नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् ।१४ - १८ - नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् ।१५ - १८ - नभस्वत् अङ्गिरस्वत् मनुष्वत् ।१६ - १८ - वृषण् वस्वश्वयोः ।१७ - १८ - वृषण् इति एतस्य वस्वशयोः भसञ्ज्ञा वक्तव्या ।१८ - १८ - वृषण्वसुः वृषणश्वस्य यत् शिरः वृषणश्वस्य मेने ।१ - ९ - अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत ।२ - ९ - तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् यशस्वान् ।३ - ९ - इह न स्यात् पयस्वी यशस्वी ।४ - ९ - अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च ।५ - ९ - यदि अर्थग्रहणम् क्रियते पयस्वान् यशस्वान् अत्र न प्राप्नोति ।६ - ९ - किम् कारणम् ।७ - ९ - न हि मतुप् मत्वर्थे वर्तते ।८ - ९ - मतुप् अपि मत्वर्थे वर्तते ।९ - ९ - तत् यथा देवदत्तशालायाम् ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः अपि आनीयते ।(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; १ - २ - उभयसञ्ज्ञान्यपि इति वक्तव्यम् ।(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; २ - २ - सः सुष्ठुभा सः ऋक्वता गणेन ।१ - ६० - बहुषु बहुवचनम् इति उच्यते ।२ - ६० - केषु बहुषु ।३ - ६० - अर्थेषु ।४ - ६० - यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति ।५ - ६० - बहवः ते अर्थाः मूलम् स्कन्धः फलम् पलाशम् इति ।६ - ६० - एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति शब्दसञ्ज्ञाः एताः ।७ - ६० - येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु ।८ - ६० - केषु च अर्थेषु स्वादयः विधीयन्ते ।९ - ६० - कर्मादिषु ।१० - ६० - न वै कर्मादयः विभक्त्यर्थाः ।११ - ६० - के तर्हि ।१२ - ६० - एकत्वादयः ।१३ - ६० - एकत्वादिषु अपि वै विभक्यर्थेषु अवश्यम् कर्मादयः निमित्तत्वेन उपादेयाः ।१४ - ६० - कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।१५ - ६० - सः तर्हि तथा निर्देशः कर्तव्यः ।१६ - ६० - न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।१७ - ६० - इह च ॒ इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति ।१८ - ६० - बहुषु बहुवचनम् इति एषः योगः परः करिष्यते ।१९ - ६० - सूत्रविपर्यासः कृतः भवति ।२० - ६० - इह च ॒ बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति ।२१ - ६० - न एषः दोषः ।२२ - ६० - यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति निर्देशः इति तन् न ।२३ - ६० - अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।२४ - ६० - कथम् ।२५ - ६० - इह कदा चित् गुणः गुणिविशेषकः भवति ।२६ - ६० - तत् यथा पटः शुक्लः इति ।२७ - ६० - कदा चित् च गुणिना गुणः व्य्पदिश्यते ।२८ - ६० - पठस्य शुक्लः इति ।२९ - ६० - तत् यदा तावत् गुणः गुणिविशेषकः भवति पटः शुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः ।३० - ६० - तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।३१ - ६० - यदा तु गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानः तदा गुणः भवति ।३२ - ६० - तदा द्रव्ये षष्ठी ।३३ - ६० - तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति निर्देशः ।३४ - ६० - न च इह वयम् एकत्वादिभिः कर्मादीन् विशेषयिष्यामः ।३५ - ६० - किम् तर्हि ।३६ - ६० - कर्मादिभिः एकत्वादीन् विशेषयिष्यामः ।३७ - ६० - कथम् ।३८ - ६० - एकस्मिन् एकवचनम् ।३९ - ६० - कस्यैकस्मिन् ।४० - ६० - कर्मणः ।४१ - ६० - द्वयोः द्विवचनम् ।४२ - ६० - कयोः द्वयोः ।४३ - ६० - कर्मणोः ।४४ - ६० - बहुषु बहुवचनम् ।४५ - ६० - केषाम् बहुषु ।४६ - ६० - कर्मणाम् इति ।४७ - ६० - कथम् बहुषु बहुवचनमिति ।४८ - ६० - एतत् एव ज्ञापयति आचार्यः नानाधिकरणवाची यः बहुशब्दः तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति ।४९ - ६० - किम् एतस्य ज्ञापने प्रयोजनम् ।५० - ६० - यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति ।५१ - ६० - यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः ।५२ - ६० - एकशब्दः अयम् बह्वर्थः ।५३ - ६० - अस्ति एव सम्ख्यावाची ।५४ - ६० - तत् यथा एकः द्वौ बहवः इति ।५५ - ६० - अस्ति असहायवाची ।५६ - ६० - तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति ।५७ - ६० - अस्ति अन्यार्थे वर्तते ।५८ - ६० - तत् यथा सधमादः द्युम्नः एकाः ताः ।५९ - ६० - अन्याः इति अर्थः ।६० - ६० - तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।१ - ३७ - किमर्थम् पुनः इदम् उच्यते ।२ - ३७ - सुप्तिङाम् अविशेषविधानात् दृष्तविप्रयोगत्वात् च नियमार्थम् वचनम् । सुपः अविशेषेण प्रातिपदिकमात्रात् विधीयन्ते ।३ - ३७ - तिङः अविशेषेण धातुमात्रात् विधीयन्ते ।४ - ३७ - तत्र एतत् स्यात् यदि अप्यविशेषेण विधीयन्ते न एव विप्रयोगः लक्ष्यते इति ।५ - ३७ - दृष्टविप्रयोगत्वात् च ।६ - ३७ - दृश्यते खलु अपि विप्रयोगः ।७ - ३७ - तद्यथा ॒ अक्षीणि मे दर्शनीयानि , पादाः मे सुकुमाराः इति ।८ - ३७ - सुप्तिङोः अविशेषविधानात् दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति ।९ - ३७ - इष्यते च अव्यतिकरः स्यात् इति ।१० - ३७ - तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।११ - ३७ - एवमर्थम् इदम् उच्यते ।१२ - ३७ - अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः ॒ एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति ।१३ - ३७ - आहोस्वित् अर्थनियमः ॒ एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति ।१४ - ३७ - कः च अत्र विशेषः ।१५ - ३७ - तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् ।१६ - ३७ - तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञा न प्राप्नोति ।१७ - ३७ - उच्चैः नीचैः इति ।१८ - ३७ - किम् कारणम् ।१९ - ३७ - असुबन्तत्वात् ।२० - ३७ - अर्थनियमे सिद्धम् ।२१ - ३७ - अर्थनियमे सिद्धम् भवति ।२२ - ३७ - अस्तु अर्थनियमः ।२३ - ३७ - अथ वा पुनः अस्तु प्रत्ययनियमः ।२४ - ३७ - ननु च उक्तम् ॒ तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् इति ।२५ - ३७ - न एषः दोषः ।२६ - ३७ - सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।२७ - ३७ - तथा तिङाम् ।२८ - ३७ - प्रसिद्धः नियमः तत्र ।२९ - ३७ - प्रसिद्धः तत्र नियमः ।३० - ३७ - नियमः प्रकृतेषु वा ।३१ - ३७ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।३२ - ३७ - के च प्रकृताः ।३३ - ३७ - एकत्वादयः ।३४ - ३७ - एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।३५ - ३७ - द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।३६ - ३७ - बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।३७ - ३७ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः इति अव्ययात् लुकम् शास्ति ।१ - ४९ - किम् इदम् कारके इति ।२ - ४९ - सञ्ज्ञानिर्देशः ।३ - ४९ - किम् वक्तव्यम् एतत् ।४ - ४९ - न हि ।५ - ४९ - कथम् अनुच्यमानम् गंस्यते ।६ - ४९ - इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दाः तैः निर्देशाः क्रियन्ते पशुः अपत्यम् देवता इति याः वा एताः कृत्रिमाः टिघुघभसञ्ज्ञाः ताभिः ।७ - ४९ - न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः शब्दः न खलु अपि कृत्रिमा सञ्ज्ञा अन्यत्र अविधानात् ।८ - ४९ - सञ्ज्ञाधिकारः च अयम् ।९ - ४९ - तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।१० - ४९ - कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः ।११ - ४९ - कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः ।१२ - ४९ - साधकम् निर्वर्तकम् कारकसञ्ज्ञम् भवति इति वक्तव्यम् ।१३ - ४९ - इतरथा हि अनिष्टप्रसङ्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य । इतरथा हि अनिष्टम् प्रसज्येत ।१४ - ४९ - अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत ।१५ - ४९ - क्व ।१६ - ४९ - ग्रामस्य समीपात् आगच्छति इति ।१७ - ४९ - न एषः दोषः ।१८ - ४९ - न अत्र ग्रामः अपाययुक्तः ।१९ - ४९ - किम् तर्हि ।२० - ४९ - समीपम् ।२१ - ४९ - यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा ।२२ - ४९ - तत् यथा ग्रामात् आगच्छति इति ।२३ - ४९ - कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।२४ - ४९ - कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य. क्व ।२५ - ४९ - ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।२६ - ४९ - न एषः दोषः ।२७ - ४९ - अयम् अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते ।२८ - ४९ - तत् यथा कः चित् कम् चित् सञ्चक्ष्य आह असौ अत्र अकथितः ।२९ - ४९ - असंकीर्तितः इति गम्यते ।३० - ४९ - अस्ति अप्राधान्ये वर्तते ।३१ - ४९ - तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति ।३२ - ४९ - तत् यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।३३ - ४९ - अपादानम् च वृक्षस्य पर्णम् पतति इति ।३४ - ४९ - अपादानसञ्ज्ञा च प्राप्नोति ।३५ - ४९ - क्व ।३६ - ४९ - वृक्षस्य पर्णम् पतति ।३७ - ४९ - कुड्यस्य पिण्डः पतति इति ।३८ - ४९ - ना वा अपायस्याविवक्षितत्वात् ।३९ - ४९ - न वा एषः दोषः ।४० - ४९ - किम् कारणम् ।४१ - ४९ - अपायस्य अविवक्षितत्वात् ।४२ - ४९ - न अत्र अपायः विवक्षितः ।४३ - ४९ - किम् तर्हि ।४४ - ४९ - सम्बन्धः ।४५ - ४९ - यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा ।४६ - ४९ - तत् यथा ।४७ - ४९ - वृक्षात् पर्णम् पतति इति ।४८ - ४९ - सम्बन्धस्तु तदा न विवक्षितः भवति ।४९ - ४९ - न ज्ञायते कङ्कस्य वा कुररस्य वा इति ।१ - ९३ - अयम् तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।२ - ९३ - न एषः दोषः ।३ - ९३ - कारकः इति महती सञ्ज्ञा क्रियते ।४ - ९३ - सञ्ज्ञा च नाम यतः न लघीयः ।५ - ९३ - कुतः एतत् ।६ - ९३ - लघ्वर्थम् हि सञ्ज्ञाकारणम् ।७ - ९३ - तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।८ - ९३ - करोति इति कारकम् इति ।९ - ९३ - अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दानुपपत्तिः । अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दः न उपपद्यते ।१० - ९३ - करणम् कारकम् अधिकरणम् कारकम् इति ।११ - ९३ - सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः ।१२ - ९३ - सिद्धः करणाधिकरणयोः कर्तृभावः ।१३ - ९३ - कुतः ।१४ - ९३ - प्रतिकारकम् क्रियाभेदात् पचादीनाम् ।१५ - ९३ - पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते ।१६ - ९३ - किम् इदम् प्रतिकारकम् इति ।१७ - ९३ - कारकम् कारकम् प्रति प्रतिकारकम् ।१८ - ९३ - कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् ।१९ - ९३ - अधिश्रयणोदकासेचनतण्डुलावपनैधोपदकर्षणिक्रियाः प्रधानस्य कर्तुः पाकः ।२० - ९३ - अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन् एव देवदत्तः पचति इति उच्यते ।२१ - ९३ - तत्र तदा पचिः वर्तते ।२२ - ९३ - एषः प्रधानकर्तुः पाकः ।२३ - ९३ - एतत् प्रधानकर्तुः कर्तृत्वम् ।२४ - ९३ - द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः ।२५ - ९३ - द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये ।२६ - ९३ - तत्र तदा पचिः वर्तते ।२७ - ९३ - एषः धिकरणस्य पाकः ।२८ - ९३ - एतत् अधिकरणस्य कर्तृत्वम् ।२९ - ९३ - एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः ।३० - ९३ - एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते ।३१ - ९३ - तत्र तदा पचिः वर्तते ।३२ - ९३ - एषः करणस्य पाकः ।एतत् करणस्य कर्तृत्वम् ।३३ - ९३ - उद्यमननिपातनानि कर्तुः छिदिक्रिया ।३४ - ९३ - उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते ।३५ - ९३ - तत्र तदा छिदिः वर्तते ।३६ - ९३ - एषः प्रधानकर्तुः छेदः ।३७ - ९३ - एतत् प्रधानकर्तुः कर्तृत्वम् ।३८ - ९३ - यत् तत् न तृणेन तत्परशोः छेदनम् । यत् तत् समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत् परशोः छेदनम् ।३९ - ९३ - अवश्यम् च एतत् एवम् विज्ञेयम् ।४० - ९३ - इतरथा हि असितृणयोः छेदने अविशेषः स्यात् ।४१ - ९३ - यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात् ।४२ - ९३ - यत् असिना छिद्यते तृणेन अपि तत् छिद्येत ।४३ - ९३ - अपादानादीनाम् तु अप्रसिद्धिः ।४४ - ९३ - अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः ।४५ - ९३ - यथा हि भवता करणाधिकरणयोः कर्तृत्वम् निर्दर्शितम् न तथा अपादानादीनाम् कर्तृत्वम् निदर्श्यते ।४६ - ९३ - न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा ।४७ - ९३ - न वा एषः दोषः ।४८ - ९३ - किम् कारणम् ।४९ - ९३ - स्वतन्त्रपरतन्त्रत्वात् ।५० - ९३ - सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् ।५१ - ९३ - तयोः पर्यायेण वचनम् ।५२ - ९३ - तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति ।५३ - ९३ - वचनाश्रया च सञ्ज्ञा भविष्यति ।५४ - ९३ - तत् यथा ।५५ - ९३ - बलाहकात् विद्योतते ।५६ - ९३ - बलाहके विद्योतते ।५७ - ९३ - बलाहकः विद्योतते इति ।५८ - ९३ - किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति ।५९ - ९३ - एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति ।६० - ९३ - पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् निदर्शितम् अपादानीनाम् कर्तृत्वनिर्दर्शनाय ।६१ - ९३ - पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय ।६२ - ९३ - किम् तर्हि ।६३ - ९३ - सञ्ज्ञायाः अप्रसिद्धिः ।६४ - ९३ - यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् कर्तृसञ्ज्ञा एव प्राप्नोति ।६५ - ९३ - अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा इति एव ।६६ - ९३ - यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् निदर्शितम् सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् ।६७ - ९३ - यत् तत् प्रक्षालनम् परिवर्तनम् वा ।६८ - ९३ - न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति ।६९ - ९३ - कथम् तर्हि ।७० - ९३ - सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति ।७१ - ९३ - तत्र च सौ स्वतन्त्रा ।७२ - ९३ - क्व इदानीम् परतन्त्रा ।७३ - ९३ - एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा ।७४ - ९३ - ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति ।७५ - ९३ - तत्र असौ स्वतन्त्रा ।७६ - ९३ - क्व इदानीम् परतन्त्रा ।७७ - ९३ - एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा ।७८ - ९३ - तत् यथा अमात्यादीनाम् राज्ञा सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् ।७९ - ९३ - किम् पुनः प्रधानम् ।८० - ९३ - कर्ता ।कथम् पुनः ज्ञायते कर्ता प्रधानम् इति ।८१ - ९३ - यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति ।८२ - ९३ - ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति ।८३ - ९३ - न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् ।८४ - ९३ - उभौ च अन्योन्यविशेषकौ भवतः ।८५ - ९३ - कथम् ।८६ - ९३ - एकद्रव्यसमवायित्वात् ।८७ - ९३ - तत् यथा गार्ग्यः देवदत्तः इति ।८८ - ९३ - न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् ।८९ - ९३ - उभौ च अन्योन्यविशेषकौ भवतः एकद्रव्यसमवायित्वात् ।९० - ९३ - एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् ।९१ - ९३ - अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति ।९२ - ९३ - एवम् च कृत्वा निर्देशः उपपन्नः भवति कारके इति ।९३ - ९३ - इतरथा हि कारकेषु इति ब्रूयात् ।१ - ५७ - ध्रुवम् इति किमर्थम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP