संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय १|पाद ४| खण्ड १८ पाद ४ खण्ड १८ खण्ड १९ खण्ड २० खण्ड २१ पाद ४ - खण्ड १८ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड १८ Translation - भाषांतर २ - १७ - अन्यत्र सञ्ज्ञासमावेशान्नियमार्थम् वचनम् ।३ - १७ - अन्यत्र सञ्ज्ञासमावेशः भवति ।४ - १७ - क्वान्यत्र ।५ - १७ - लोके व्याकरणे च ।६ - १७ - लोके तावत् ।७ - १७ - इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।८ - १७ - कन्दुः कोष्ठः कुशूलः इति ।९ - १७ - एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति ।१० - १७ - व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानाम् समावेशः भवति ।११ - १७ - पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति ।१२ - १७ - अन्यत्र सञ्ज्ञासमावेशात् एतस्मात् कारणात् आ कडारात् अपि सञ्ज्ञानाम् समावेशः प्राप्नोति ।१३ - १७ - इष्यते च एका एव सञ्ज्ञा स्यात् इति ।१४ - १७ - तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।१५ - १७ - एवमर्थम् इदम् उच्यते ।१६ - १७ - अस्ति प्रयोजनम् एतत् ।१७ - १७ - किम् तर्हि इति ।१ - १६२ - कथम् त्वेतत्सूत्रम् पठितव्यम् ।२ - १६२ - किम् आ कडारात् एका सञ्ज्ञा इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति ।३ - १६२ - कुतः पुनः अयम् सन्देहः ।४ - १६२ - उभयथा हि आचार्येण शिष्याः सूत्रम् प्रतिपादिताः ॒ केचित् आ कडारात् एका सञ्ज्ञा इति , केचित् प्राक् कडारात् परम् कार्यम् इति ।५ - १६२ - कः च अत्र विशेषः ।६ - १६२ - तत्र एकसञ्ज्ञाधिकारे तद्वचनम् । तत्र एकसञ्ज्ञाधिकारे तत् वक्तव्यम् ।७ - १६२ - किम् ।८ - १६२ - एका सञ्ज्ञा भवति इति ।९ - १६२ - ननु च यस्य अपि परङ्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् ।१० - १६२ - परार्थम् मम भविष्यति ।११ - १६२ - विप्रतिषेधे च इति ।१२ - १६२ - मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति ।१३ - १६२ - सरूपाणाम् एकशेषः एकविभक्तौ इति ।१४ - १६२ - सञ्ज्ञाधिकारः च अयम् ।१५ - १६२ - तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।१६ - १६२ - तत्र एतावत् वाच्यम् ।१७ - १६२ - आ कडारात् एका ।१८ - १६२ - किम् ।१९ - १६२ - एका सञ्ज्ञा भवति इति ।२० - १६२ - अङ्गसञ्ज्ञया भपदसञ्ज्ञयोः असमावेशः ।२१ - १६२ - अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति ।२२ - १६२ - सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः ।२३ - १६२ - बाभ्रव्यः माण्डव्य इति ।२४ - १६२ - अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयाताम् ।२५ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।२६ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।२७ - १६२ - कथम् ।२८ - १६२ - पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा ।२९ - १६२ - कथम् ।३० - १६२ - एवम् स वक्ष्यति ।३१ - १६२ - यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदम् नः क्ये सिति च ।३२ - १६२ - स्वादिषु असर्वनामस्थाने यचि भम् ।३३ - १६२ - तस्य अन्ते प्रत्यये अङ्गमिति ।३४ - १६२ - तत्र आरम्भसामर्थ्याच् च भपदसञ्ज्ञे परङ्कार्यत्वात् च अङ्गसञ्ज्ञा भविष्यति ।३५ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे ।३६ - १६२ - कथम् ।अनुवृत्तिः क्रियते ।३७ - १६२ - पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।३८ - १६२ - कर्मधारयत्वे तत्पुरुषग्रहणम् । कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् ।३९ - १६२ - तत्पुरुषः समानाधिकरणः कर्मधारयः इति ।४० - १६२ - एकसञ्ज्ञाधिकारः इति चोदितम् ।४१ - १६२ - अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।४२ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।४३ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।४४ - १६२ - कथम् ।४५ - १६२ - पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा ।४६ - १६२ - कथम् ।४७ - १६२ - एवम् स वक्ष्यति ।४८ - १६२ - पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति ।४९ - १६२ - एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।५० - १६२ - तत्र आरम्भसामर्थ्यात् च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।५१ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा ।५२ - १६२ - कथम् ।५३ - १६२ - अनुवृत्तिः क्रियते ।५४ - १६२ - पर्यायः प्रसज्येत ।५५ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।५६ - १६२ - तत्पुरुषत्वे द्विगुचग्रहणम् ।५७ - १६२ - तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् ।५८ - १६२ - तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः ।५९ - १६२ - अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।६० - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।६१ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।६२ - १६२ - कथम् ।६३ - १६२ - पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा. कथम् ।६४ - १६२ - एवं स वक्ष्यति ।६५ - १६२ - तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति ।६६ - १६२ - एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।६७ - १६२ - तत्र आरम्भसामर्थ्यात् च द्विगुसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।६८ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा ।६९ - १६२ - कथम् ।७० - १६२ - अनुवृत्तिः क्रियते ।७१ - १६२ - पर्यायः प्रसज्येत ।७२ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।७३ - १६२ - गतिदिवःकर्महेतुमत्सु चग्रहणम् ।७४ - १६२ - गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् ।७५ - १६२ - उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः ।७६ - १६२ - अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञाम् बाधेत ।७७ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।७८ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।७९ - १६२ - कथम् ।८० - १६२ - पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा ।८१ - १६२ - अत्र आरम्भसामर्थ्यात् च उपसर्गसञ्ज्ञा परङ्कार्यत्वात् च गतिसञ्ज्ञा भविष्यति ।८२ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा ।८३ - १६२ - कथम् ।८४ - १६२ - अनुवृत्तिः क्रियते ।८५ - १६२ - पर्यायः प्रसज्येत ।८६ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।८७ - १६२ - गतिसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।८८ - १६२ - सावकाशा गतिसञ्ज्ञा ।८९ - १६२ - कः अवकाशः ।९० - १६२ - ऊर्यादीनि अवकाशः ।९१ - १६२ - प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा ।९२ - १६२ - गति ।९३ - १६२ - दिवः कर्म ।९४ - १६२ - साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः ।९५ - १६२ - अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञाम् बाधेत ।९६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।९७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।९८ - १६२ - कथम् ।९९ - १६२ - पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा ।१०० - १६२ - कथम् ।१०१ - १६२ - एवम् स वक्ष्यति ।१०२ - १६२ - दिवः साधकतमम् कर्म ।१०३ - १६२ - ततः करणम् ।१०४ - १६२ - करणसञ्ज्ञाम् च भवति साधकतमम् ।१०५ - १६२ - दिव इति निवृत्तम् ।१०६ - १६२ - तत्र आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा परङ्कार्यत्वात् च करणसञ्ज्ञा भविष्यति ।१०७ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा ।१०८ - १६२ - कथम् ।१०९ - १६२ - अनुवृत्तिः क्रियते ।११० - १६२ - पर्यायः प्रसज्येत ।१११ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।११२ - १६२ - दिवः कर्म ।११३ - १६२ - हेतुमत् ।११४ - १६२ - स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः ।११५ - १६२ - अक्रियमाणे हि चकारे अनवकाशा हेतुसञ्ज्ञा कर्तृसञ्ज्ञाम् बाधेत ।११६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।११७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोर्भावः सिद्धः ।११८ - १६२ - कथम् ।११९ - १६२ - पूर्वा तस्य हेतुसञ्ज्ञा परा कर्तृसञ्ज्ञा ।१२० - १६२ - कथम् ।१२१ - १६२ - एवम् स वक्ष्यति ।१२२ - १६२ - स्वतन्त्रः प्रयोजकः हेतुः इति ।१२३ - १६२ - ततः कर्ता ।१२४ - १६२ - कर्तृसञ्ज्ञः च भवति स्वतन्त्रः ।१२५ - १६२ - प्रयोजकः इति निवृत्तम् ।१२६ - १६२ - तत्र आरम्भसामर्थ्यात् च हेतुसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा भविष्यति ।१२७ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि कर्तृसञ्ज्ञापूर्विका हेतुसञ्ज्ञा ।१२८ - १६२ - कथम् ।१२९ - १६२ - अनुवृत्तिः क्रियते ।१३० - १६२ - पर्यायः प्रसज्येत ।१३१ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।१३२ - १६२ - गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे ।१३३ - १६२ - गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे बाधेयाताम् ।१३४ - १६२ - गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य ।१३५ - १६२ - परवचने हि नियमानुपत्तेः उभयसञ्ज्ञाभावः ।१३६ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।१३७ - १६२ - कथम् ।१३८ - १६२ - पूर्वे तस्य नदीघिसञ्ज्ञे परे गुरुलघुसञ्ज्ञे ।१३९ - १६२ - तत्र आरम्भसामर्थ्यात् च नदीघिसञ्ज्ञे परङ्कार्यत्वात् च गुरुलघुसञ्ज्ञे भविष्यतः ।१४० - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि नदीघिसंघिसञ्ज्ञापूर्विके गुरुलघुसञ्ज्ञे ।१४१ - १६२ - कथम् ।१४२ - १६२ - अनुवृत्तिः क्रियते ।१४३ - १६२ - पर्यायः प्रसज्येत ।१४४ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।१४५ - १६२ - परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा । परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा बाधेत ।१४६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।१४७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः सञ्ज्ञयोः भावः सिद्धः ।१४८ - १६२ - कथम् ।१४९ - १६२ - पूर्वा तस्य पुरुषसञ्ज्ञा परा परस्मैपदसञ्ज्ञा ।१५० - १६२ - कथम् ।१५१ - १६२ - एवं स वक्ष्यति ।१५२ - १६२ - तिङः त्रीणि त्रीणि प्रथममध्योत्तमाः इति ।१५३ - १६२ - एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति ।१५४ - १६२ - तत्र आरम्भसामार्थ्यात् च पुरुषसञ्ज्ञा परङ्कार्यत्वात् च परस्मैपदसञ्ज्ञा भविष्यति ।१५५ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकरः तस्य अपि परस्मैपदसञ्ज्ञापूर्विका पुरुषसञ्ज्ञा ।१५६ - १६२ - कथम् ।१५७ - १६२ - अनुवृत्तिः क्रियते ।१५८ - १६२ - पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।१५९ - १६२ - परस्मैपदसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।१६० - १६२ - सावकाशा परस्मैपदसञ्ज्ञा ।१६१ - १६२ - कः अवकाशः ।१६२ - १६२ - शतृक्वसू अवकाशः ।१ - ७३ - परवचने सिति पदं भम् ।२ - ७३ - परवचने सिति पदम् भसञ्ज्ञमपि प्राप्नोति ।३ - ७३ - अयम् ते योनिः ऋत्वियः ।४ - ७३ - प्रजम् विन्दाम ऋत्विजयाम् ।५ - ७३ - आरम्भसामर्थ्यात् च पदसञ्ज्ञा परङ्कार्यत्वात् च भसञ्ज्ञा प्राप्नोति ।६ - ७३ - गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् ।७ - ७३ - गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् अपि प्राप्नोति ।८ - ७३ - आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा प्राप्नोति ।९ - ७३ - न एषः दोषः ।१० - ७३ - आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायाम् कर्तृसञ्ज्ञा भवति इति यत् अयम् हृक्रोः अन्यतरस्याम् इति अन्तरस्याङ्ग्रहणम् करोति ।११ - ७३ - शेषवचनम् च घिसञ्ज्ञानिवृत्त्यर्थम् ।१२ - ७३ - शेषग्रहणम् च कर्तव्यम् ।१३ - ७३ - शेषः घि असखि इति ।१४ - ७३ - किम् प्रयोजनम् ।१५ - ७३ - घिसाञ्ज्ञानिवृत्त्यर्थम् ।१६ - ७३ - नदीसञ्ज्ञायाम् घिसञ्ज्ञा मा भूत् इति ।१७ - ७३ - शकट्यै पद्धत्यै बुद्धयै धेन्वै ।१८ - ७३ - इतरथा हि परङ्कार्यत्वात् च घिसञ्ज्ञा आरम्भसामर्थ्यात् च ङिति ह्रस्वः च इति नदीसञ्ज्ञा ।१९ - ७३ - न वा असम्भवात् ।२० - ७३ - न वा असम्भवात् ।२१ - ७३ - न वा कर्तव्यम् ।२२ - ७३ - नदीसञ्ज्ञायाम् घिसञ्ज्ञा कस्मात् न भवति ।२३ - ७३ - असम्भवात् ।२४ - ७३ - कः असौ असम्भवः ।२५ - ७३ - ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणः ।२६ - ७३ - ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणेन भवितव्यम् ।२७ - ७३ - तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञाभावः ।२८ - ७३ - तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञा न भविष्यति ।२९ - ७३ - किम् कारणम् ।३० - ७३ - आश्रयाभावात् ।३१ - ७३ - आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् यणादेशाभावः ।३२ - ७३ - आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् एवम् उच्यते यणादेशः अपि न प्राप्नोति ।३३ - ७३ - न एषः दोषः ।३४ - ७३ - नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञाभावः ।३५ - ७३ - नद्याश्रयः यणादेशः ।३६ - ७३ - यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालम् यणादेशेन भवितव्यम् ।३७ - ७३ - नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति ।३८ - ७३ - बहुव्रीह्यर्थम् तु । बह्व्रीहिप्रतिषेधार्थम् तु शेषग्रहणम् कर्तव्यम् ।३९ - ७३ - शेषः बवुव्रीहिः इति ।४० - ७३ - किं प्रयोजनम् ।४१ - ७३ - प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु । अव्ययीभावे ।४२ - ७३ - उन्मत्तगङ्गम् लोहितगङ्गम् ।४३ - ७३ - उपमाने ।४४ - ७३ - शस्त्रीश्यामा कुमुदश्येनी ।४५ - ७३ - द्विगु ।४६ - ७३ - पञ्चगवम् दशगवम् ।४७ - ७३ - कृल्लोपे ।४८ - ७३ - निष्कौशाम्बिः निर्वाराणसिः ।४९ - ७३ - तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहिप्रतिषेधः ।५० - ७३ - तत्र शेषवचनात् दोषः भवति ।५१ - ७३ - सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति ।५२ - ७३ - सङ्ख्या ।५३ - ७३ - द्वीरावतीकः देशः त्रीरावतीकः देशः ।५४ - ७३ - समानाधिकरण ।५५ - ७३ - वीर्पुरुषकः ग्रामः ।५६ - ७३ - नञ्समासे ।५७ - ७३ - अब्राह्मणकः देशः अवृषलकः देशः ।५८ - ७३ - कृल्लोपे च शेषवचनात् प्रादिभिः न बहुव्रीहिः ।५९ - ७३ - कृल्लोपे च शेषवचनात् प्रादिभिः न प्राप्नोति ।६० - ७३ - प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति ।६१ - ७३ - अथ एकसञ्ज्ञाधिकारे कथम् सिध्यति ।६२ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिः ।६३ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः भविष्यति ।६४ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः ।६५ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः ।६६ - ७३ - निष्कौशाम्बिः निर्वाराणसिः ।६७ - ७३ - तत्पुरुषः अत्र बाधकः भविष्यति ।६८ - ७३ - तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः । तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः ।६९ - ७३ - प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति ।७० - ७३ - सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् ।७१ - ७३ - सिद्धमेतत् ।७२ - ७३ - कथम् ।७३ - ७३ - प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् ।१ - ४८ - कानि पुनः अस्य योगस्य प्रयोजनानि ।२ - ४८ - प्रयोजनम् ह्रस्वसञ्ज्ञाम् दीर्घप्लुतौ ।३ - ४८ - ह्रस्वसञ्ज्ञाम् दीर्घप्लुतसञ्ज्ञे बाधेते ।४ - ४८ - तिङ्सार्वधातुकम् लिङ्लिटोः आर्धधातुकम् ।५ - ४८ - तिङः सार्वधातुकसञ्ज्ञाम् लिङ्लिटोःार्धधातुसञ्ज्ञा बाधते ।६ - ४८ - अपत्यम् वृद्धम् युवा ।७ - ४८ - अपत्यम् वृद्धम् यवुसञ्ज्ञा बाधते ।८ - ४८ - घिम् नदी ।९ - ४८ - घिसञ्ज्ञाम् नदीसञ्ज्ञा बाधते ।१० - ४८ - लघु गुरु ।११ - ४८ - लघुसञ्ज्ञाम् गुरुसञ्ज्ञा बाधते ।१२ - ४८ - पदम् भम् ।१३ - ४८ - पदसञ्ज्ञाम् भसञ्ज्ञा बाधते ।१४ - ४८ - अपादाद्नम् उत्तराणि धनुषा विध्यति कंसपात्र्याम् भुङ्क्ते गाम् दोग्धि धनुः विध्यति इति ।१५ - ४८ - अपादानसञ्ज्ञाम् उत्तराणि कारकाणि बाधन्ते ।१६ - ४८ - क्व ।१७ - ४८ - धनुषा विध्यति ।१८ - ४८ - कंसपात्र्याम् भुङ्क्ते ।१९ - ४८ - गाम् दोग्धि ।२० - ४८ - धनुः विध्यति ।२१ - ४८ - धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति अपादानसञ्ज्ञा प्राप्नोति साधकतमम् करणम् इति च करणसञ्ज्ञा ।२२ - ४८ - करणसञ्ज्ञा परा सा भवति ।२३ - ४८ - कंसपात्र्याम् भुङ्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणम् इति च अधिकरणसञ्ज्ञा ।२४ - ४८ - अधिकरणसञ्ज्ञा परा सा भवति ।२५ - ४८ - गाम् दोग्धि इति अत्र अपायुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमम् कर्म ।२६ - ४८ - इति च कर्मसञ्ज्ञा ।२७ - ४८ - कर्मसञ्ज्ञा परा सा भवति ।२८ - ४८ - धनुः विध्यति इति अत्र अपाययुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च ।२९ - ४८ - कर्तृसञ्ज्ञा परा सा भवति ।३० - ४८ - क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् । क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञाम् बाधते ।३१ - ४८ - करणम् पराणि साधु असिः छिनत्ति ।३२ - ४८ - करणसञ्ज्ञाम् पराणि आणि बाधन्ते ।३३ - ४८ - क्व ।३४ - ४८ - धनुः विध्यति ।३५ - ४८ - असिः छिनत्ति इति ।३६ - ४८ - अधिकरणम् कर्म गेहम् प्रविशति । अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।३७ - ४८ - क्व ।३८ - ४८ - गेहम् प्रविशति इति ।३९ - ४८ - अधिकरणम् कर्ता स्थाली पचति ।४० - ४८ - अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।४१ - ४८ - क्व ।४२ - ४८ - स्थाली पचति इति ।४३ - ४८ - अध्युपसृष्टम् कर्म । अध्युपसृष्टम् कर्म अधिकरणसञ्ज्ञाम् बाधते ।४४ - ४८ - गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा ।४५ - ४८ - गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते ।४६ - ४८ - परस्मैपदम् आत्मनेपदम् । परस्मैपदसञ्ज्ञाम् आत्मनेपदसञ्ज्ञा बाधते ।४७ - ४८ - समाससञ्ज्ञाः च ।४८ - ४८ - समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते ।१ - २७ - अर्थवत् प्रातिपदिकम् । अर्थवत् प्रातिपदिकसञ्ज्ञम् भवति ।२ - २७ - गुणवचनम् च ।३ - २७ - गुणवचनसञ्ज्ञम् च भवति अर्थवत् ।४ - २७ - समासकृत्तद्धिताव्ययसर्वनाम असर्वलिङ्गा जातिः ।५ - २७ - ४१॥समास । समाससञ्ज्ञा च वक्तव्या ।६ - २७ - कृत् ।७ - २७ - कृत्सञ्ज्ञा च वक्तव्या ।८ - २७ - तद्धित ।९ - २७ - तद्धितसञ्ज्ञा च वक्तव्या ।१० - २७ - अव्यय ।११ - २७ - अव्ययसञ्ज्ञा च वक्तव्या ।१२ - २७ - सर्वनाम ।१३ - २७ - सर्वनामसञ्ज्ञा च वक्तव्या ।१४ - २७ - असर्वलिङ्गा जातिः इति एतत् च वक्तव्यम् ।१५ - २७ - सङ्ख्या ।१६ - २७ - सङ्ख्यासञ्ज्ञा च वक्तव्या ।१७ - २७ - डु च ।१८ - २७ - डुसञ्ज्ञा च वक्तव्या ।१९ - २७ - का पुनः डुसञ्ज्ञा ।२० - २७ - षट्सञ्ज्ञा ।२१ - २७ - एकद्रव्योपनिवेशिनी सञ्ज्ञा ।२२ - २७ - एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत् च वक्तव्यम् ।२३ - २७ - किमर्थम् इदमुच्यते ।२४ - २७ - यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते ।२५ - २७ - सन्ति च एव अत्र काः चित् अपूर्वाः सञ्ज्ञाः ।२६ - २७ - अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् ।२७ - २७ - गुणवचनसञ्ज्ञायाः च एताभिः बाधनम् यथा स्यात् इति ।१ - ८६ - विप्रतिषेधः इति कः अयम् शब्दः ।२ - ८६ - विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ् ।३ - ८६ - इतरेतरप्रतिषेधः विप्रतिषेधः ।४ - ८६ - अन्योन्यप्रतिषेधः विप्रतिषेधः ।५ - ८६ - कः पुनः विप्रतिषेधः ।६ - ८६ - द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः ।७ - ८६ - द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः ।८ - ८६ - क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः ।९ - ८६ - वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः ।१० - ८६ - किम् च स्यात् ।११ - ८६ - एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रसङ्गः ।१२ - ८६ - एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः ।१३ - ८६ - इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति ।१४ - ८६ - कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात् ।१५ - ८६ - न एतत् विप्रतिषिद्धम् ।१६ - ८६ - यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः ।१७ - ८६ - तृजादिभिः तुल्यम् । तृजादिभिः तुल्यम् पर्यायः प्राप्नोति ।१८ - ८६ - तत् यथा तृजादयः पर्यायेण भवन्ति ।१९ - ८६ - किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति ।२० - ८६ - अनवयप्रसङ्गात् प्रतिपदम् विधेः च ।२१ - ८६ - अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते ।२२ - ८६ - अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् ।२३ - ८६ - अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात् ।२४ - ८६ - किम् कारणम् ।२५ - ८६ - तुल्यबलत्वात् ।२६ - ८६ - तुल्यबले हि उभे शास्त्रे ।२७ - ८६ - तत् यथा ।२८ - ८६ - द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति ।२९ - ८६ - सः तयोः पर्यायेण कार्यम् करोति ।३० - ८६ - यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति ।३१ - ८६ - किम् पुनः कारणम् उभयोः न करोति ।३२ - ८६ - यौगपद्यासम्भवात् ।३३ - ८६ - न अस्ति यौगपद्येन सम्भवः ।३४ - ८६ - तत्र प्रतिपत्त्यर्थम् वचनम् ।३५ - ८६ - तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् ।३६ - ८६ - तव्यदादीनाम् तु अप्रसिद्धिः ।३७ - ८६ - तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः ।३८ - ८६ - न हि किम् चित् तव्यदादिषु नियमकारि शास्त्रम् आरभ्यते येन तव्यदादयः स्युः ।३९ - ८६ - यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु ।४० - ८६ - न एषः दोषः ।४१ - ८६ - अनवकाशाः तव्यदादयः उच्यन्ते च ।४२ - ८६ - ते वचनात् भविष्यन्ति ।४३ - ८६ - यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु ।४४ - ८६ - एतावत् इह सूत्रम् विप्रतिषेधे परम् इति ।४५ - ८६ - पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।४६ - ८६ - पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात् सिद्धम् इति ।४७ - ८६ - किम् पुनः इयता सूत्रेण उभयम् लभ्यम् ।४८ - ८६ - लभ्यम् इति आह ।४९ - ८६ - कथम् ।५० - ८६ - इह भवता द्वौ हेतू व्यपदिष्टौ ।५१ - ८६ - तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च ।५२ - ८६ - तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते ।५३ - ८६ - नियमः ।५४ - ८६ - विप्रतिषेधे परम् एव भवति इति ।५५ - ८६ - तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।५६ - ८६ - यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते ।५७ - ८६ - द्वारम् ।५८ - ८६ - विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति ।५९ - ८६ - तदा एतत् उपपन्नम् भवति पुनःप्रसङ्गविज्ञानात् सिद्धम् इति ।६० - ८६ - विप्रतिषेधे परम् इति उक्त्वा अङ्गाधिकारे पूर्वम् इति वक्तव्यम् ।६१ - ८६ - किम् कृतम् भवति ।६२ - ८६ - पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति ।६३ - ८६ - गुणवृद्ध्यौत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् ।६४ - ८६ - नुमचिरतृज्वद्भावेभ्यः नुट् इति ।६५ - ८६ - कथम् ये परविप्रतिषेधाः ।६६ - ८६ - इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति ।६७ - ८६ - सूत्रम् च भिद्यते ।६८ - ८६ - यथान्यासम् एव अस्तु ।६९ - ८६ - कथम् ये पूर्वविप्रतिषेधाः ।७० - ८६ - विप्रतिषेधे परम् इति एव सिद्धम् ।७१ - ८६ - कथम् ।७२ - ८६ - परशब्दः अयम् बह्वर्थः ।७३ - ८६ - अस्ति एव व्यवस्थायाम् वर्तते ।७४ - ८६ - तत् यथा पूर्वः परः इति ।७५ - ८६ - अस्ति अन्यार्थे वर्तते ।७६ - ८६ - परपुत्रः परभार्या ।७७ - ८६ - अन्यपुत्रः अन्यभार्या इति गम्यते ।७८ - ८६ - अस्ति प्राधान्ये वर्तते ।७९ - ८६ - तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे ।८० - ८६ - प्रधानम् इति गम्यते ।८१ - ८६ - अस्ति इष्टवाची परशब्दः ।८२ - ८६ - तत् यथा ।८३ - ८६ - परम् धाम गतः इति ।८४ - ८६ - इष्टम् धाम इति गम्यते ।८५ - ८६ - तत् यः इष्टवाची परशब्दः तस्य इदम् ग्रहणम् ।८६ - ८६ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।१ - १९७ - अन्तरङ्गम् च ।२ - १९७ - अन्तरङ्गम् च बलीयः भवति इति वक्तव्यम् ।३ - १९७ - किम् प्रयोजनम् ।४ - १९७ - प्रयोजनम् यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ।५ - १९७ - गुणात् यणादेशः ॒ स्योनः , स्योना ।६ - १९७ - गुणः च प्राप्नोति यणादेः च ।७ - १९७ - परत्वात् गुणः स्यात् ।८ - १९७ - यणादेशः भवत्यन्तरङ्गतः ।९ - १९७ - वृद्धेः यणादेशः ।१० - १९७ - द्यौकामिः स्यौकामिः ।११ - १९७ - वृद्धिः च प्राप्नोति यणादेः च ।१२ - १९७ - परत्वात् वृद्धिः स्यात् ।१३ - १९७ - यणादेशः भवति अन्तरङ्गतः ।१४ - १९७ - द्विर्वचनात् यणादेशः ।१५ - १९७ - दुद्यूषति सुस्यूषति ।१६ - १९७ - द्विर्वचनम् च प्राप्नोति यणादेः च ।१७ - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।१८ - १९७ - यणादेशः भवति अन्तरङ्गतः ।१९ - १९७ - अल्लोपस्य च यणादेशस्य च न अस्ति सम्प्रधारणा ।२० - १९७ - स्वरात् यणादेशः ।२१ - १९७ - द्यौकामिः स्यौकामिः ।२२ - १९७ - स्वरः च प्राप्नोति यणादेः च ।२३ - १९७ - परत्वात् स्वरः स्यात् ।२४ - १९७ - यणादेशः भवति अन्तरङ्गतः ।२५ - १९७ - गुणात् एकादेशः ।२६ - १९७ - काद्रवेयः मन्त्रम् अपश्यत् ।२७ - १९७ - गुणः च प्राप्नोति एकादेशः च ।२८ - १९७ - परत्वात् गुणः स्यात् ।२९ - १९७ - एकादेशः भवति अन्तरङ्गतः ।३० - १९७ - वृद्धेः एकादेशः ।३१ - १९७ - वैक्ष्माणिः सौस्थितिः ।३२ - १९७ - वृद्धिः च प्राप्नोति एकादेशः च ।३३ - १९७ - परत्वात् वृद्धिः स्यात् ।३४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।३५ - १९७ - द्विर्वचनात् एकादेशः ।३६ - १९७ - ज्ञाया ओदनः ज्ञौदनः ।३७ - १९७ - ज्ञौदनम् इच्छति ज्ञौदनीयति ।३८ - १९७ - ज्ञौदनीयतेः सन् जुज्ञौदनीयिषति ।३९ - १९७ - द्विर्वचनम् च प्राप्नोति एकादेशः च ।४० - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।४१ - १९७ - एकादेशः भवति अन्तरङ्गतः ।४२ - १९७ - अल्लोपात् एकादेशः ।४३ - १९७ - शुना शुने ।४४ - १९७ - अल्लोपः च प्राप्नोति एकादेशः च ।४५ - १९७ - परत्वात् अल्लोपः स्यात् ।४६ - १९७ - एकादेशः भवति अन्तरङ्गतः ।४७ - १९७ - न एतत् अस्ति प्रयोजनम् ।४८ - १९७ - न अस्ति अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा ।४९ - १९७ - अयम् अस्ति विशेषः ।५० - १९७ - अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत ।५१ - १९७ - न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।५२ - १९७ - किम् कारणम् ।५३ - १९७ - न गोश्वन्साववर्ण इति प्रतिषेधात् ।५४ - १९७ - न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।५५ - १९७ - कस्य तर्हि ।५६ - १९७ - तृतीयादिस्वरस्य ।५७ - १९७ - यत्र तर्हि तृतीयादिस्वरः न अस्ति ।५८ - १९७ - शुनः पश्य इति ।५९ - १९७ - एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् शिष्मः ।६० - १९७ - किम् तर्हि ।६१ - १९७ - येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः ।६२ - १९७ - यत्र तर्हि विभक्तिः न अस्ति ।६३ - १९७ - बह्हुशुनी इति ।६४ - १९७ - यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।६५ - १९७ - न एवम् शक्यम् ।६६ - १९७ - इह अपि प्रसज्येत ॒ कुमारी इति ।६७ - १९७ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नोदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति ।६८ - १९७ - अन्तोदात्तार्थम् यत्नम् करोति ।६९ - १९७ - सिद्धम् हि स्यान् ङीपा एव ।७० - १९७ - स्वरात् एकादेकादेशः ।७१ - १९७ - सौत्थितिः वैक्ष्माणिः ।७२ - १९७ - स्वरः च प्राप्नोति एकादेशः च ।७३ - १९७ - परत्वात्स्वरः स्यात् ।७४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।७५ - १९७ - गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।७६ - १९७ - वृद्धेः इत्त्वोत्त्वे ।७७ - १९७ - स्तौर्णिः पौर्तिः ।७८ - १९७ - वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च ।७९ - १९७ - परत्वात् वृद्धिः स्यात् ।८० - १९७ - इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।८१ - १९७ - द्विर्वचनात् इत्त्वोत्त्वे ।८२ - १९७ - आतेस्तीर्यते आपोपूर्यते ।८३ - १९७ - द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च ।८४ - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।८५ - १९७ - इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।८६ - १९७ - अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।८७ - १९७ - स्वरे नास्ति विशेषः ।८८ - १९७ - इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् ।८९ - १९७ - इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् ।९० - १९७ - अयजे इन्द्रम् अवपे इन्द्रम् ।९१ - १९७ - वृक्षे इन्द्रम् प्लक्षे इन्द्रम् ।९२ - १९७ - ये इन्द्रम् ते इन्द्रम् ।९३ - १९७ - आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च ।९४ - १९७ - परत्वात् सवरणदीर्घत्वम् स्यात् ।९५ - १९७ - आत् गुणः भवति अन्तरङ्गतः ।९६ - १९७ - न वा सवर्णदीर्घत्वस्य अनवकाशत्वात् ।९७ - १९७ - न वा एतत् अन्तरङ्गेण अपि सिध्यति ।९८ - १९७ - किम् कारणम् ।९९ - १९७ - सवर्णदीर्घत्वस्य अनवकाशत्वात् ।१०० - १९७ - अनवकाशम् सवर्णदीर्घत्वम् आत् गुणम् बाधेत ।१०१ - १९७ - न एतत् अन्तरङ्गे अस्ति अनवकाशम् परम् इति ।१०२ - १९७ - इह अपि स्योनः , स्योना इति शक्यम् वक्तुम् न वा परत्वात् गुणस्य इति ।१०३ - १९७ - ऊङापोः एकादेशः ईत्वलोपाभ्याम् ।१०४ - १९७ - ऊङापोः एकादेशः ईत्वलोपाभ्याम् भवति अन्तरङ्गतः प्रयोजनम् ।१०५ - १९७ - ईत्वात् एकादेशः ।१०६ - १९७ - खट्वीयति मालीयति ।१०७ - १९७ - ईत्वम् च प्राप्नोति एकादेशः च ।१०८ - १९७ - परत्वात् ईत्वम् स्यात् ।१०९ - १९७ - एकादेशः भवति अन्तरङ्गतः ।११० - १९७ - लोपात् एकादेशः ।१११ - १९७ - कामण्डलेयः भाद्रबाहेयः ।११२ - १९७ - लोपः च प्राप्नोति एकादेशः च ।११३ - १९७ - परत्वात् लोपः स्यात् ।११४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।११५ - १९७ - अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत ।११६ - १९७ - सङ्ख्यातानुदेशः मा भूत् इति ।११७ - १९७ - आपः अपि एकादेशः लोपे प्रयोजयति ।११८ - १९७ - चौडिः बालाकिः ।११९ - १९७ - आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः । आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः भवन्ति अन्तरङ्गतः ।१२० - १९७ - वेञ् वानीयम् शो शानीयम् ग्लै ग्लानीयम् म्लै म्लानीयम् ग्लाच्छत्त्रम् च्लाच्छत्रम् ।१२१ - १९७ - आत्त्वम् च प्राप्नोति एते च विधयः ।१२२ - १९७ - परत्वात् एते विधयः स्युः ।१२३ - १९७ - आत्त्वम् भवति अन्तरङ्गतः ।१२४ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् च प्रयोजनम् ।१२५ - १९७ - अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रम् अतिनुच्छत्रम् आराशस्त्रि इदम् धानाशष्कुलि इदम् निष्कौशाम्बि इदम् निर्वाराणसि इदम् निष्कौशाम्बिच्छत्रम् निर्वाराणासिच्छत्रम् ।१२६ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् च प्राप्नोति एते च विधयः ।१२७ - १९७ - परत्वात् एते विधयः स्युः ।१२८ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् भवति अन्तरङ्गतः ।१२९ - १९७ - तुक् यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः । यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः तुक् भवति अन्तरङ्गतः ।१३० - १९७ - यणादेशात् ।१३१ - १९७ - अग्निचित् अत्र सोमसुत् अत्र ।१३२ - १९७ - एकादेशात् ।१३३ - १९७ - अग्निचित् इदम् सोमसुत् उदकम् ।१३४ - १९७ - गुणात् ।१३५ - १९७ - अग्निचिते सोमसुते ।१३६ - १९७ - वृद्धेः ।१३७ - १९७ - प्रऋच्छकः प्रार्च्छकः ।१३८ - १९७ - औत्त्वात् ।१३९ - १९७ - अग्निचिति सोमसुति ।१४० - १९७ - दीर्घत्वात् ।१४१ - १९७ - जगद्भ्याम् जनगद्भ्याम् ।१४२ - १९७ - ईत्वात् ।१४३ - १९७ - जगत्यति जनगत्यति ।१४४ - १९७ - मुमः ।१४५ - १९७ - अग्निचिन्मन्यः सोमसुन्मन्यः ।१४६ - १९७ - एत्वात् ।१४७ - १९७ - जगद्भ्यः जनगद्भ्यः ।१४८ - १९७ - रीविधेः ।१४९ - १९७ - सुकृत्यति पापक्र्ट्यति ।१५० - १९७ - अनङानङ्भ्याम् च इति वक्तव्यम् ।१५१ - १९७ - सुकृत् सुकृत्द्दुष्क्र्टौ ।१५२ - १९७ - तुक् च प्राप्नोति एते च विधयः ।१५३ - १९७ - परत्वात् एते विधयः स्युः ।१५४ - १९७ - तुक् भवति अन्तरङ्गतः ।१५५ - १९७ - इयङादेशः गुणात् ।१५६ - १९७ - इयङादेशः गुणात् भवति अन्तरङ्गतः प्रयोजनम् ।१५७ - १९७ - धियति रियति ।१५८ - १९७ - इयङादेशः च प्राप्नोति गुणः च ।१५९ - १९७ - परत्वात् गुणः स्यात् ।१६० - १९७ - इयङादेशः भवति अन्तरण्गतः ।१६१ - १९७ - उवङादेशः च इति वक्तव्यम् ।१६२ - १९७ - प्रादुद्रुवत् प्रासुस्रुवत् ।१६३ - १९७ - श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् ।१६४ - १९७ - श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् भवति अन्तरण्गतः प्रयोजनम् ।१६५ - १९७ - शुशुवतुः शुशुवुः ।१६६ - १९७ - पूर्वत्वम् च प्राप्नोति यणादेशः च ।१६७ - १९७ - परत्वात् यणादेशः स्यात् ।१६८ - १९७ - पूर्वत्वम् भवति अन्तरण्गतः ।१६९ - १९७ - ह्वः आकारलोपात् ।१७० - १९७ - ह्वः आकारलोपात् पूर्वत्वम् भवति अन्तरङ्गतः प्रयोजनम् ।१७१ - १९७ - जुहुवतुः जुहुवुः ।१७२ - १९७ - पूर्वत्वम् च प्राप्नोति आकारलोपः च परत्वात् आकारलोपः स्यात् ।१७३ - १९७ - पूर्वत्वम् भवति अन्तरङ्गतः ।१७४ - १९७ - स्वरः लोपात् ।१७५ - १९७ - स्वरः लोपात् भवति अन्तरङ्गतः प्रयोजनम् ।१७६ - १९७ - औपगवी सौदामनी ।१७७ - १९७ - स्वरः च प्राप्नोति लोपः च ।१७८ - १९७ - परत्वात् लोपः स्यात् ।१७९ - १९७ - स्वरः भवति अन्तरङ्गतः ।१८० - १९७ - प्रत्ययविधिः एकादेशात् ।१८१ - १९७ - प्रत्ययविधिः एकादेशात् भवति अन्तरङ्गतः प्रयोजनम् ।१८२ - १९७ - अग्निः इन्द्रः वायुः उदकम् ।१८३ - १९७ - प्रत्ययविधिः च प्राप्नोति एकादेशः च ।१८४ - १९७ - परत्वात् एकादेशः स्यात् ।१८५ - १९७ - । प्रत्ययविधिः भवति अन्तरङ्गतः ।१८६ - १९७ - यणादेशात् च इति वक्तव्यम् ।१८७ - १९७ - अग्निः अत्र वायुः अत्र ।१८८ - १९७ - लादेशः वर्णविधेः । लादेशः वर्णविधेः भवति अन्तरङ्गतः प्रयोजनम् ।१८९ - १९७ - पचतु अत्र पठ्तु अत्र ।१९० - १९७ - लादेशः च प्राप्नोति यणादेशः च ।परत्वात् यणादेशः स्यात् ।१९१ - १९७ - लादेशः भवति अन्तरङ्गतः ।१९२ - १९७ - तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् ।१९३ - १९७ - तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् भवति अन्तरङ्गतः प्रयोजनम् ।१९४ - १९७ - पूर्वशालाप्रियः अपरशालाप्रियः टत्पुरुषान्तोदात्तत्वम् च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वम् च ।१९५ - १९७ - परत्वात् पूर्वपदप्रकृतिस्वरत्वम् स्यात् ।१९६ - १९७ - तत्पुरुषान्तोदात्तत्वम् भवति अन्तरङ्गतः ।१९७ - १९७ - एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।१ - ६० - यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।२ - ६० - किम् प्रयोजनम् ।३ - ६० - पचावेदम् पचामेदम् ।४ - ६० - असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति ।५ - ६० - उभे तर्हि कर्तव्ये ।६ - ६० - न इति आह ।७ - ६० - अनया एव सिद्धम् ।८ - ६० - इह अपि स्योनः स्योना इति असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरङ्गलक्षणः यणादेशो भविष्यति ।९ - ६० - यदि असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिरङ्गलक्षणस्य ऊठः अन्तरङ्गलक्षणः यणादेशः न प्राप्नोति ।१० - ६० - न एषः दोषः ।११ - ६० - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रक्ल्̥प्तिः इति ।१२ - ६० - सा तर्हि एषा परिभाषा कर्तव्या ।१३ - ६० - न कर्तव्या ।१४ - ६० - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह ।१५ - ६० - इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति ।१६ - ६० - एषा च न कर्तव्या ।१७ - ६० - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् शास्ति ।१८ - ६० - तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् ।१९ - ६० - तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।२० - ६० - पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकम् तिलोदकम् ।२१ - ६० - उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् ।२२ - ६० - न एषः दोषः ।२३ - ६० - आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।२४ - ६० - कथम् कृत्वा ज्ञापकम् ।२५ - ६० - इन्द्रे द्वौ अचौ ।२६ - ६० - तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन ।२७ - ६० - ततः अनच्कः इन्द्रः सम्पन्नः ।२८ - ६० - तत्र कः प्रसङ्गः वृद्धेः ।२९ - ६० - पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।३० - ६० - यणादेशात् इयुवौ । यणादेशात् इयुवौ अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।३१ - ६० - वैयाकरणः सौवश्वः इति ।३२ - ६० - लक्षणम् हि भवति य्वोः वृद्धिप्रसङ्गे इयुवौ भवतः इति ।३३ - ६० - न एषः दोषः ।३४ - ६० - अनवकाशौ इयुवौ ।३५ - ६० - अचि इति उच्यते ।३६ - ६० - किम् पुनः कारणम् अचि ति उच्यते ।३७ - ६० - इह मा भूताम् ।३८ - ६० - ऐतिकायनः औपगवः इति ।३९ - ६० - स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति ।४० - ६० - यत्र तर्हि लोपः न अस्ति ।४१ - ६० - प्रैयमेधः प्रैयम्गवः इति ।४२ - ६० - उसि पररूपात् च ।४३ - ६० - उसि पररूपात् च अन्तरङ्गतः अभिनिर्वृत्तात् इयादेशः न प्राप्नोति ।४४ - ६० - पचेयुः यजेयुः ।४५ - ६० - न एषः दोषः ।४६ - ६० - न एवम् विज्ञायते या इति एतस्य इय् भवति इति ।४७ - ६० - कथम् तर्हि ।४८ - ६० - यास् इति एतस्य इय् भवति इति ।४९ - ६० - लुक् लोपयणयवायावेकादेशेभ्यः ।५० - ६० - लोपयणयवायावेकादेशेभ्यः लुक् बलीयान् इति वक्तव्यम् ।५१ - ६० - लोपात् ।५२ - ६० - गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः ।५३ - ६० - गोमान् इव आचरति गोमत्यते यवमत्यते ।५४ - ६० - यणादेशात् ।५५ - ६० - ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः कुलम् सेनानिकुलम् ।५६ - ६० - अयवायावेकादेशेभ्यः ।५७ - ६० - गवे हितम् गोहितम् रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् ।५८ - ६० - लुक् च प्राप्नोति एते च विधयः ।५९ - ६० - परत्वात् एते विधयः स्युः ।६० - ६० - लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP