संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय १|पाद २| खण्ड १२ पाद २ खण्ड ११ खण्ड १२ खण्ड १३ खण्ड १४ पाद २ - खण्ड १२ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड १२ Translation - भाषांतर १ - ३७ - समाहारः स्वरितः इति उच्यते ।२ - ३७ - कस्य समाहारः स्वरितसञ्ज्ञः भवति ।३ - ३७ - अचोः इति आह ।४ - ३७ - समाहारः अचोः चेत् न अभावात् ।५ - ३७ - समाहारः अचोः चेत् तत् न ।६ - ३७ - किम् कारणम् ।७ - ३७ - अभावात् ।८ - ३७ - न हि अचोः समाहारः अस्ति ।९ - ३७ - ननु अयम् अस्ति गाङ्गेनूपे इति ।१० - ३७ - न एषः अचोः समाहारः ।११ - ३७ - अन्यः अयम् उदात्तानुदात्तयोः स्थाने एकः आदिश्यते ।१२ - ३७ - एवम् तर्हि गुणयोः ।१३ - ३७ - गुणयोः चेत् न अच्प्रकरणात् ।१४ - ३७ - गुणयोः समहारः इति चेत् तत् न ।१५ - ३७ - किम् कारणम् ।१६ - ३७ - अच्प्रकरणात् ।१७ - ३७ - अच् इति वर्तते ।१८ - ३७ - सिद्धम् तु अच्समुदायस्य अभावात् तद्गुणे सम्प्रत्ययः ।१९ - ३७ - सिद्धम् एतत् ।२० - ३७ - कथम् ।२१ - ३७ - अच्समुदायः न अस्ति इति कृत्वा तद्गुणस्य अचः समाहारगुणस्य सम्प्रत्ययः भविष्यति ।२२ - ३७ - कथम् पुनः समाहारः इति अनेन अच् शक्यः प्रतिनिर्देष्टुम् ।२३ - ३७ - मतुब्लोपः अत्र द्रष्टव्यः ।२४ - ३७ - तत् यथा पुष्पकाः एषाम् ते पुष्पकाः, कालकाः एषाम् ते कालकाः इति एवम् समाहारवान् समाहारः ।२५ - ३७ - अथ वा अकारः मत्वर्थीयः ।२६ - ३७ - तत् यथा तुन्दः, घाटः इति ।२७ - ३७ - यदि एवम् त्रैस्वर्यम् न प्रकल्पते ।२८ - ३७ - तत्र कः दोषः ।२९ - ३७ - त्रैस्वर्यम् अधीमहे इति एतत् न उपपद्यते ।३० - ३७ - न एतत् गुणापेक्षम् ।३१ - ३७ - किम् तर्हि ।३२ - ३७ - अजपेक्षम् ।३३ - ३७ - त्रैस्वर्यम् अधीमहे त्रिप्रकारैः अज्भिः अधीमहे कैः चित् उदात्तगुणैः कैः चित् अनुदात्तगुणैः कैः चित् उभयगुणैः ।३४ - ३७ - तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः ।३५ - ३७ - यः इदानीम् उभयगुणः सः तृतीयाम् आख्याम् लभते कल्माषः इति वा सारङ्गः इति वा ।३६ - ३७ - एवम् इह अपि उदात्तगुणः उदात्तः अनुदात्तगुणः अनुदात्तः ।३७ - ३७ - यः इदानीम् उभयवान् स तृतीयाम् आख्याम् लभते स्वरितः इति ।१ - ३४ - अर्धह्रस्वम् इति उच्यते ।२ - ३४ - तत्र दीर्घप्लुतयोः न प्राप्नोति ।३ - ३४ - कन्या शक्तिके३ शक्तिके ।४ - ३४ - न एषः दोषः ।५ - ३४ - मात्रचः अत्र लोपः द्रष्टव्यः ।६ - ३४ - अर्धह्रस्वमात्रम् अर्धह्रस्वम् इति ।७ - ३४ - किमर्थम् इदम् उच्यते ।८ - ३४ - आमिश्रीभूतम् इव इदम् भवति ।९ - ३४ - तत् यथा क्षीरोदके सम्पृक्ते आमिश्रीभूतत्वात् न ज्ञायते कियत् क्षीरम् कियत् उदकम् कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति ।१० - ३४ - एवम् इह अपि आमिश्रीभूतत्वात् न ज्ञायते कियत् उदात्तम् कियत् अनुदात्तम् कस्मिन् अवकाशे उदात्तम् कस्मिन् अवकाशे अनुदात्तम् इति ।११ - ३४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे इयत् उदात्तम् इयत् अनुदात्तम् अस्मिन् अवकाशे उदात्तम् अस्मिन् अवकाशे अनुदात्तम् इति ।१२ - ३४ - यदि अयम् एवम् सुहृत् किम् अन्यानि अपि एवञ्जातीयकानि न उपदिशति ।१३ - ३४ - कानि पुनः तानि ।१४ - ३४ - स्थानकरणानुप्रदानानि ।१५ - ३४ - व्याकरणम् नाम इयम् उत्तरा विद्या ।१६ - ३४ - सः असौ छन्दःशास्त्रेषु अभिविनीतः उपलब्ध्या अवगन्तुम् उत्सहते ।१७ - ३४ - यदि एवम् न अर्थः अनेन ।१८ - ३४ - इदम् अपि उपलब्ध्या गमिष्यति ।१९ - ३४ - सञ्ज्ञाकरणम् तर्हि इदम् तस्य स्वरितस्य आदितः अर्धह्रस्वम् उदात्तसञ्ज्ञम् इति ।२० - ३४ - किम् कृतम् भवति ।२१ - ३४ - त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न कर्तव्यम् भवति उदात्तस्वरितपरस्य सन्नतरः, उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य न उदात्तस्वरितोदयम् इति ।२२ - ३४ - सञ्ज्ञाकरणम् हि नाम यतः न लघीयः ।२३ - ३४ - कुतः एतत् ।२४ - ३४ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।२५ - ३४ - लघीयः च त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न पुनः सञ्ज्ञाकरणम् ।२६ - ३४ - त्रिः उदात्तप्रदेशेषु स्वरितग्रहणे नव अक्षराणि सञ्ज्ञाकरणे पुनः एकादश ।२७ - ३४ - एवम् तर्हि उभयम् अनेन क्रियते अन्वाख्यानम् च सञ्ज्ञा च ।२८ - ३४ - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।२९ - ३४ - लभ्यम् इति आह ।३० - ३४ - कथम् ।३१ - ३४ - अन्वर्थग्रहणम् विज्ञास्यते तस्य स्वरितस्य आदितः अर्धह्रस्व्रम् उदात्तसञ्ज्ञम् भवति इति ।३२ - ३४ - ऊर्ध्वम् आत्तम् इति च अतः उदात्तम् ।३३ - ३४ - यदि तर्हि सञ्ज्ञाकरणम् उदात्तादेः यत् उच्यते तत् स्वरितादेः अपि प्राप्नोति ।३४ - ३४ - अन्वाख्यानम् एव तर्हि इदम् मन्दबुद्धेः ।१ - २९ - स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरात् ऊर्ध्वम् उदात्तादनुदात्तस्यस्वरितात् कार्यम् स्वरितात् इति सिद्ध्यर्थम् ।२ - २९ - स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरः इति एतस्मात् सूत्रात् इदम् सूत्रकाण्डम् ऊर्ध्वम् उदात्तात् अनुदात्तस्य स्वरितः इति अतः कार्यम् ।३ - २९ - किम् प्रयोजनम् ।४ - २९ - स्वरितात् इति सिद्ध्यर्थम् ।५ - २९ - स्वरितात् इति सिद्धिः यथा स्यात् ।६ - २९ - स्वरितात् संहितायाम् अनुदात्तानाम् इति इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि ।७ - २९ - क्व तर्हि स्यात् ।८ - २९ - यः सिद्धः स्वरितः कार्यम् देवदत्तयज्ञदत्तौ ।९ - २९ - स्वरितोदात्तार्थम् च ।१० - २९ - स्वरितोदात्तार्थम् च तत्र एव कर्तव्यम् ।११ - २९ - न सुब्रह्मण्यायाम् स्वरितस्य तु उदात्तः इन्द्र अगच्छ ।१२ - २९ - क्व तर्हि स्यात् ।१३ - २९ - यः सिद्धः स्वरितः सुब्रह्मण्योम् इन्द्र अगच्छ ।१४ - २९ - स्वरितोदात्तात् च अस्वरितार्थम् ।१५ - २९ - स्वरितोदात्तात् च अस्वरितार्थम् तत्र एव कर्तव्यम् ।१६ - २९ - इन्द्र अगच्छ हरिवः अगच्छ ।१७ - २९ - स्वरितपरसन्नतरार्थम् च ।१८ - २९ - स्वरितपरसन्नतरार्थम् च तत्र एव कर्तव्यम् ।१९ - २९ - उदात्तस्वरितपरस्य सन्नतरः मणवक जटिलकाध्यापक न्यङ् ।२० - २९ - क्व तर्हि स्यात् ।२१ - २९ - यः सिद्धः स्वरितः मणवक जटिलकाभिरूपक क्व ।२२ - २९ - तत् तर्हि वक्तव्यम् ।२३ - २९ - न वक्तव्यम् ।२४ - २९ - देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् स्वरितात् इति सिद्धत्वस्य ।२५ - २९ - देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति ।२६ - २९ - यदि एतत् ज्ञाप्यते स्वरितोदात्तपरस्य अनुदात्तस्य स्वरितत्वम् प्राप्नोति ।२७ - २९ - न ब्रूमः देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति ।२८ - २९ - किम् तर्हि ।२९ - २९ - परम् एतत् काण्डम् इति ।१ - ५ - किम् इदम् पारिभाषिक्याः सम्बुद्धेः ग्रहणम् एकवचनम् सम्बुद्धिः आहोस्वित् अन्वर्थग्रहणम् सम्बोधनम् सम्बुद्धिः इति ।२ - ५ - किम् च अतः ।३ - ५ - यदि पारिभाषिक्याः देवाः ब्रह्माणः इति अत्र न प्राप्नोति ।४ - ५ - अथ अन्वर्थग्रहणम् न दोषः ।५ - ५ - यथा न दोषः तथा अस्तु ।१ - ३० - किम् पुनः इयम् एकश्रुतिः उदात्ता आहोस्वित् अनुदात्ता ।२ - ३० - न उदात्ता ।३ - ३० - कथम् ज्ञायते ।४ - ३० - यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह ।५ - ३० - कथम् कृत्वा ज्ञापकम् ।६ - ३० - अतन्त्रम् तरनिर्देशः ।७ - ३० - यावत् उच्चैः तावत् उच्चैस्तराम् इति ।८ - ३० - यदि तर्हि न उदात्ता अनुदात्ता ।९ - ३० - अनुदात्ता च न ।१० - ३० - कथम् ज्ञायते ।११ - ३० - यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह ।१२ - ३० - कथम् कृत्वा ज्ञापकम् ।१३ - ३० - अतन्त्रम् तरनिर्देशः ।१४ - ३० - यावत् सन्नः तावत् सन्नतरः इति ।१५ - ३० - सा एषा ज्ञापकाभ्याम् उदात्तानुदात्तयोः मध्यम् एकश्रुतिः अन्तरालम् ह्रियते ।१६ - ३० - अपरः आह किम् पुनः इयम् एकश्रुतिः उदात्ता उत अनुदात्ता ।१७ - ३० - उदात्ता ।१८ - ३० - कथम् ज्ञायते ।१९ - ३० - यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह ।२० - ३० - कथम् कृत्वा ज्ञापकम् ।२१ - ३० - तन्त्रम् तरनिर्देशः ।२२ - ३० - उच्चैः दृष्ट्वा उच्चैस्तराम् इति एतत् भवति ।२३ - ३० - यदि तर्हि उदात्ता न अनुदात्ता ।२४ - ३० - अनुदात्ता च ।२५ - ३० - कथम् ज्ञायते ।२६ - ३० - यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह ।२७ - ३० - कथम् कृत्वा ज्ञापकम् ।२८ - ३० - तन्त्रम् तरनिर्देशः ।२९ - ३० - सन्नम् दृष्ट्वा सन्नतरः इति एतत् भवति ।३० - ३० - ते एते तन्त्रे तरनिर्देशे सप्त स्वराः भवन्ति उदात्तः, उदात्ततरः, अनुदात्तः, अनुदात्तरः, स्वरितः, स्वरिते यः उदात्तः सः अन्येन विशिष्तः, एकश्रुतिः सप्तमः ।१ - २३ - सुब्रह्मण्यायम् ओकारः उदात्तः ।२ - २३ - सुब्रह्मण्यायम् ओकारः उदात्तः भवति सुब्रह्मण्योम् ।३ - २३ - आकारः आख्याते परादिः च ।४ - २३ - आकारः आख्याते परादिः च उदात्तः भवति इन्द्र अगच्छ ।५ - २३ - हरिवः अगच्छ ।६ - २३ - वाक्यादौ च द्वे द्वे ।७ - २३ - वाक्यादौ च द्वे द्वे उदात्ते भवतः इन्द्र अगच्छ ।८ - २३ - हरिवः अगच्छ ।९ - २३ - मघवन्वर्जम् । अगच्छ मघवन् ।१० - २३ - सुत्यापराणाम् अन्तः ।११ - २३ - सुत्यापराणाम् अन्तः उदात्तः भवति द्व्यहे सुत्यम् ।१२ - २३ - त्र्यहे सुत्यम् ।१३ - २३ - असौ इति अन्तः ।१४ - २३ - असौ इति अन्तः उदात्तः भवति गार्ग्यः यजते ।१५ - २३ - वात्स्यः यजते ।१६ - २३ - अमुष्य इति अन्तः । अमुष्य इति अन्तः दाक्षेः पित यजते ।१७ - २३ - स्यान्तस्य उपोत्तमम् च ।१८ - २३ - स्यान्तस्य उपोत्तमम् उदात्तम् भवति अन्तः च ।१९ - २३ - गार्ग्यस्य पित यजते ।२० - २३ - वात्स्यस्य पित यजते ।२१ - २३ - वा नामधेयस्य ।२२ - २३ - वा नामधेयस्य स्यान्तस्य उपोत्तमम् उदात्तम् भवति देवदत्तस्य पित यजते ।२३ - २३ - देवदत्तस्य पित यजते ।१ - ३ - देवब्रह्मणोः अनुदात्तत्वम् एके ।२ - ३ - देवब्रह्मणोः अनुदात्तत्वम् एके इच्छन्ति देवाः ब्रह्माणः ।३ - ३ - देवाः ब्रह्माणः ।१ - ३१ - स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् ।२ - ३१ - स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यम् वक्तव्यम् अग्निवेश्यः पचति ।३ - ३१ - किम् पुनः कारणम् न सिध्यति ।४ - ३१ - बहुवचनेन निर्देशः क्रियते ।५ - ३१ - तेन बहूनाम् ऐकश्रुत्यम् स्यात् द्व्येकयोः न स्यात् ।६ - ३१ - न एषः दोषः ।७ - ३१ - न अत्र निर्देशः तन्त्रम् ।८ - ३१ - कथम् पुनः तेन एव निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।९ - ३१ - तत्कारी च भवान् तद्द्वेषी च ।१० - ३१ - नान्तरीयकत्वात् अत्र बहुवचनेन निर्देशः क्रियते अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः इति ।११ - ३१ - तत् यथा कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् ।१२ - ३१ - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।१३ - ३१ - तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् ।१४ - ३१ - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।१५ - ३१ - एवम् इह अपि नान्तरीयकत्वात् बहुवचनेन निर्देशः क्रियते ।१६ - ३१ - अविशेषेण ऐकश्रुत्यम् ।१७ - ३१ - अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् अप्रसिद्धिः ।१८ - ३१ - अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् ऐकश्रुत्यम् न प्राप्नोति इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि ।१९ - ३१ - अनेकम् अपि इति तु वचनात् सिद्धम् ।२० - ३१ - अनेकम् अपि एकम् अपि स्वरितात् परम् संहितायाम् एकश्रुति भवति इति वक्तव्यम् ।२१ - ३१ - सिध्यति ।२२ - ३१ - सूत्रम् तर्हि भिद्यते ।२३ - ३१ - यथान्यासम् एव अस्तु ।२४ - ३१ - ननु च उक्तम् स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् ।२५ - ३१ - अविशेषेण ऐकश्रुत्यम् व्यवहितानाम् अप्रसिद्धिः इति ।२६ - ३१ - न एषः दोषः ।२७ - ३१ - कथम् ।२८ - ३१ - एकशेषनिर्देशः अयम् अनुदात्तस्य च अनुदात्तयोः च अनुदात्तानाम् च अनुदात्तानाम् इति ।२९ - ३१ - एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।३० - ३१ - षट्प्रभृतिषु एकशेषः परिसमाप्यते ।३१ - ३१ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।१ - ५३ - अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् स्वादिलोपे हलः अग्रहणार्थम् ।२ - ५३ - अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् ।३ - ५३ - एकहल् प्रत्ययः अपृक्तसञ्ज्ञः भवति इति वक्तव्यम् ।४ - ५३ - किम् प्रयोजनम् ।५ - ५३ - स्वादिलोपे हलः अग्रहणार्थम् ।६ - ५३ - स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् भवति हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति अपृक्तस्य इति एव सिद्धम् ।७ - ५३ - अणिञोः लुगर्थम् अल्ग्रहणम् ।८ - ५३ - अणिञोः लुगर्थम् अल्ग्रहणम् कर्तव्यम् ।९ - ५३ - किम् प्रयोजनम् ।१० - ५३ - अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति ण्यक्षत्रियार्षञितः यूनि लुक् अणिञोः इति अपृक्तस्य इति एव सिद्धम् ।११ - ५३ - अणिञोः लुगर्थम् इति चेत् णे अतिप्रसङ्गः ।१२ - ५३ - अणिञोः लुगर्थम् इति चेत् णे अतिप्रसङ्गः भवति ।१३ - ५३ - इह अपि प्राप्नोति फाण्टाहृतेः अपत्यम् माणवकः प्ःाण्टाहृतः इति ।१४ - ५३ - णवचनसामार्थ्यात् न भविष्यति ।१५ - ५३ - वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् वचनम् ।१६ - ५३ - वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् एतत् स्यात् फक् अतः मा भूत् इति ।१७ - ५३ - पैलादिषु वचनात् सिद्धम् ।१८ - ५३ - यदि एतावत् प्रयोजनम् स्यात् पैलादिषु एव पाठम् कुर्वीत ।१९ - ५३ - तत्र पाठात् अन्येषाम् अपि फकः निवृत्तिः भवति ।२० - ५३ - एवम् सिद्धे सति यत् अयम् णम् शास्ति तत् ज्ञापयति आचार्यः न अस्य लुक् भवति इति ।२१ - ५३ - तानि एतानि त्रीणि ग्रहणानि भवन्ति ।२२ - ५३ - अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् ।२३ - ५३ - स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् ।२४ - ५३ - अणिञोः लुकि ग्रहणम् कर्तव्यम् ।२५ - ५३ - अल्ग्रहणे अपि वै क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति ।२६ - ५३ - अपृक्तसञ्ज्ञायाम् अल्ग्रहणम् कर्तव्यम् ।२७ - ५३ - स्वादिलोपे हलः ग्रहणम् कर्तव्यम् ।२८ - ५३ - अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति ।२९ - ५३ - अपृक्तग्रहणम् कर्तव्यम् ।३० - ५३ - तत्र न अस्ति लाघवकृतः विशेषः ।३१ - ५३ - अयम् अस्ति विशेषः अल्ग्रहणे क्रियमाणे एकग्रहणम् न करिष्यते ।३२ - ५३ - कस्मात् न भवति दर्विः, जागृविः ।३३ - ५३ - अल् एव यः प्रत्ययः ।३४ - ५३ - किम् वक्तव्यम् एतत् ।३५ - ५३ - न हि ।३६ - ५३ - कथम् अनुच्यमानम् गंस्यते ।३७ - ५३ - अल्ग्रहणसामर्थ्यात् ।३८ - ५३ - यदि यः अल् च अन्यः च तत्र स्यात् अल्ग्रहणम् अनर्थकम् स्यात् ।३९ - ५३ - हल्ग्रहणे अपि क्रियमाणे एकग्रहणम् न करिष्यते ।४० - ५३ - कस्मात् न भवति दर्विः जागृविः ।४१ - ५३ - हल् एव यः प्रत्ययः ।४२ - ५३ - किम् वक्तव्यम् एतत् ।४३ - ५३ - न हि ।४४ - ५३ - कथम् अनुच्यमानम् गंस्यते ।४५ - ५३ - हल्ग्रहणसामर्थ्यात् ।४६ - ५३ - यदि यः हल् च अन्यः च तत्र स्यात् हल्ग्रहणम् अनर्थकम् स्यात् ।४७ - ५३ - अस्ति अन्यत् हल्ग्रहणस्य प्रयोजनम् ।४८ - ५३ - किम् ।४९ - ५३ - हलन्तस्य यथा स्यात् अलन्तस्य मा भूत् इति ।५० - ५३ - एवम् तर्हि सिद्धे सति यत् अल्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति ।५१ - ५३ - किम् एतस्य ज्ञापने प्रयोजनम् ।५२ - ५३ - दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति उक्तम् ।५३ - ५३ - तत् उपपन्नम् भवति ।१ - १५ - तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः ।२ - १५ - तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासस्य एकार्थत्वात् सञ्ज्ञायाः अप्रसिद्धिः ।३ - १५ - एकः अयम् अर्थः तत्पुरुषः नाम अनेकार्थाश्रयम् च सामानाधिकरण्यम् ।४ - १५ - सिद्धम् तु पदसामानाधिकरण्यात् ।५ - १५ - सिद्धम् एतत् ।६ - १५ - कथम् ।७ - १५ - तत्पुरुषः समानाधिकरणपदः कर्मधारयसञ्ज्ञः भवति इति वक्तव्यम् ।८ - १५ - सिध्यति ।९ - १५ - सूत्रम् तर्हि भिद्यते ।१० - १५ - यथान्यासम् एव अस्तु ।११ - १५ - ननु च उक्तम् तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः इति ।१२ - १५ - न एषः दोषः ।१३ - १५ - अयम् तत्पुरुषः अस्ति प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् एकविभक्तिकत्वम् च ।१४ - १५ - अस्ति तादर्थ्यात् ताच्छब्द्यम् ॑ तत्पुरुषार्थानि पदानि तत्पुरुषः इति ।१५ - १५ - तत् यः तादर्थ्यात् ताच्छब्द्यम् तस्य इह ग्रहणम् ।१ - ११ - प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् अनिर्देशात् प्रथमायाः समासे सञ्ज्ञाप्रसिद्धिः ।प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् अनिर्देशात् प्रथमायाः समासे सञ्ज्ञायाः अप्रसिद्धिः ।२ - ११ - न हि कष्टादीनाम् समासे प्रथमाम् पश्यामः ।३ - ११ - सिद्धम् तु समासविधाने वचनात् ।४ - ११ - सिद्धम् एतत् ।५ - ११ - कथम् ।६ - ११ - समासविधाने प्रथमानिर्दिष्टम् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् ।७ - ११ - तत् तर्हि वक्तव्यम् ।८ - ११ - न वा तादर्थ्यात् ताच्छब्द्यम् ।९ - ११ - न वा वक्तव्यम् ।१० - ११ - किम् कारणम् ।११ - ११ - तादर्थ्यात् ताच्छब्द्यम् भवति. समासार्थम् शास्त्रम् समासः इति ।१ - ३१ - यस्य विधौ प्रथमानिर्देशः ततः अन्यत्र अपि उपसर्जनसञ्ज्ञाप्रसङ्गः ।२ - ३१ - यस्य विधौ प्रथमानिर्देशः क्रियते ततः अन्यत्र अपि तस्य उपसर्जनसञ्ज्ञा प्राप्नोति रज्ञः कुमारीम् राजकुमारीम् श्रितः ।३ - ३१ - श्रितादिसमासे द्वितीयान्तम् प्रथमानिर्दिष्टम् ।४ - ३१ - तस्य षष्ठीसमासे अपि उपसर्जनसञ्ज्ञा प्राप्नोति ।५ - ३१ - सिद्धम् तु यस्य विधौ तम् प्रति इति वचनात् ।६ - ३१ - सिद्धम् एतत् ।७ - ३१ - कथम् ।८ - ३१ - यस्य विधौ यत् प्रथमानिर्दिष्टम् तम् प्रति तत् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् ।९ - ३१ - तत् तर्हि वक्तव्यम् ।१० - ३१ - न वक्तव्यम् ।११ - ३१ - उपसर्जनम् इति महती सञ्ज्ञा क्रियते ।१२ - ३१ - सञ्ज्ञा च नाम यतः न लघीयः ।१३ - ३१ - कुतः एतत् ।१४ - ३१ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।१५ - ३१ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।१६ - ३१ - अप्रधानम् उपसर्जनम् इति ।१७ - ३१ - प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ ।१८ - ३१ - तत्र सम्बन्धात् एतत् गन्तव्यम् यम् प्रति यत् अप्रधानम् तम् प्रति तत् उपसर्जनस्ञ्ज्ञम् भवति इति ।१९ - ३१ - अथ यत्र द्वे षष्ठ्यन्ते कस्मात् तत्र प्रधानस्य उपसर्जनसञ्ज्ञा न भवति राज्ञः पुरुषस्य राजपुरुषस्य इति ।२० - ३१ - षष्ठ्यन्तयोः उपसर्जनत्वे उक्तम् ।२१ - ३१ - किम् उक्तम् ।२२ - ३१ - षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः इति ।२३ - ३१ - एवम् न च इदम् अकृतम् भवेत् उप्सर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।२४ - ३१ - यदि अपि तावत् एतत् उपसर्जनकार्यम् परिहृतम् इदम् अपरम् प्राप्नोति ।२५ - ३१ - राज्ञः कुमार्याः राजकुमार्याः ।२६ - ३१ - गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्राप्नोति ।२७ - ३१ - उक्तम् वा ।२८ - ३१ - किम् उक्तम् ।२९ - ३१ - परवत् लिङ्गम् इति शब्दशब्दार्थौ इति ।३० - ३१ - तत्र औपदेशिकस्य ह्रस्वत्वम् ।३१ - ३१ - आतिदेशिकस्य श्रवणम् भविष्यति ।१ - १५ - द्वितीयादीनाम् अपि अनेन उपसर्जनसञ्ज्ञा प्राप्नोति ।२ - १५ - तत्र कः दोषः ।३ - १५ - तत्र अपूर्वनिपाते इति प्रतिषेधः प्रसज्येत ।४ - १५ - न अप्रतिषेधात् ।५ - १५ - न अयम् प्रसज्यप्रतिषेधः पूर्वनिपाते न इति ।६ - १५ - किम् तर्हि ।७ - १५ - पर्युदासः अयम् यत् अन्यत् पूर्वनिपातात् इति ।८ - १५ - पूर्वनिपाते अव्यापारः ।९ - १५ - यदि केन चित् प्राप्नोति तेन भविष्यति ।१० - १५ - पूर्वेण च प्राप्नोति ।११ - १५ - तेन भविष्यति ।१२ - १५ - अप्राप्तेः वा ।१३ - १५ - अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।१४ - १५ - कुतः एतत् ।१५ - १५ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति१ - ८ - एकविभक्तौ अषष्ठ्यन्तवचनम् ।२ - ८ - एकविभक्तौ अषष्ठ्यन्तानाम् इति वक्तव्यम् ।३ - ८ - इह मा भूत् अर्धम् पिप्पल्याः अर्धपिप्पली इति ।४ - ८ - उक्तम् वा ।५ - ८ - किम् उक्तम् ।६ - ८ - परवत् लिङ्गम् इति शब्दशर्दार्थौ इति ।७ - ८ - तत्र औपदेशिकस्य ह्रस्वत्वम् ।८ - ८ - आतिदेशिकस्य श्रवणम् भविष्यति ।१ - ७ - कानि पुनः अस्य योगस्य प्रयोजनानि ।२ - ७ - प्रयोजनम् द्विगुप्राप्तापन्नालम्पूर्वोपसर्गाः क्तार्थे ।३ - ७ - द्विगुः पञ्चभिः गोभिः क्रीतः पञ्चगुः ।४ - ७ - प्राप्तापन्न प्राप्तः जिविकाम् प्राप्तजीविकः ।५ - ७ - आपन्नः जीविकाम् आपन्नजीविकः ।६ - ७ - अलम्पूर्व अलम् कुमार्यै अलङ्कुमारिः ।७ - ७ - उपसर्गाः क्तार्थे निष्कौशाम्बिः निर्वाराणसिः ।१ - १५ - अर्थवत् इति व्यपदेशाय वर्णानाम् च मा भूत् इति ।२ - १५ - किम् च स्यात् ।३ - १५ - वनम्, धनम् इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत ।४ - १५ - अधातुः इति किमर्थम् ।५ - १५ - अहन् वृत्रम् इति ।६ - १५ - अधातुः इति शक्यम् अकर्तुम् ।७ - १५ - कस्मात् न भवति अहन् वृत्रम् इति ।८ - १५ - आचार्यप्रवृत्तिः ज्ञापयति न धातोः प्रातिपदिकसञ्ज्ञा भवति इति यत् अयम् सुपः धातुप्रातिपदिकयोः इति धातुग्रहणम् करोति ।९ - १५ - न एतत् अस्ति ज्ञापकम् ।१० - १५ - प्रतिषिद्धार्थम् एतत् स्यात् अपि काकः श्येनायते इति ।११ - १५ - अप्रत्ययः इति किमर्थम् ।१२ - १५ - काण्डे कुड्ये ।१३ - १५ - अप्रत्ययः इति शक्यम् अकर्तुम् ।१४ - १५ - कस्मात् न भवति काण्डे कुड्ये इति ।१५ - १५ - कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।१ - ६६ - अर्थवति अनेकपदप्रसङ्गः ।२ - ६६ - अर्थवति प्रातिपदिकसञ्ज्ञायाम् अनेकस्य अपि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति ।३ - ६६ - समुदायः अनर्थकः ।४ - ६६ - समुदायः अनर्थकः इति चेत् अवयवार्थवत्त्वात् समुदायार्थवत्त्वम् यथा लोके ।५ - ६६ - समुदायः अनर्थकः इति चेत् अवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके ।६ - ६६ - तत् यथा लोके आढ्यम् इदम् नगरम्, गोमत् इदम् नगरम् इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः ।७ - ६६ - यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः ।८ - ६६ - आतः च अवयवाः एव अर्थवन्तः न समुदायः ।९ - ६६ - यस्य हि तत् द्रव्यम् भवति सः तेन कार्यम् करोति यस्य च गावः सन्ति सः तासाम् क्षीरम् घृतम् च उपभुङ्क्ते ।१० - ६६ - अन्यैः एतत् द्रष्टुम् अपि अशक्यम् ।११ - ६६ - का तर्हि इयम् वाचोयुक्तिः आढ्यम् इदम् नगरम्, गोमत् इदम् इति ।१२ - ६६ - एषा एषा वाचोयुक्तिः इह तावत् आढ्यम् इदम् नगरम् इति अकारः मत्वर्थीयः आढ्याः अस्मिन् सन्ति इति तत् इदम् आढ्यम् इति ।१३ - ६६ - गोमत् इदम् इति मत्वन्तात् मत्वर्थीयः लुप्यते ।१४ - ६६ - एवम् अपि वाक्यप्रतिषेधः अर्थवत्त्वात् ।१५ - ६६ - वाक्यस्य प्रातिपदिकस्ञ्ज्ञायाः प्रतिषेधः वक्तव्यः देवदत्त गाम् अभ्याज शुक्लाम् ।१६ - ६६ - देवदत्त गाम् अभ्याज कृष्णाम् इति ।१७ - ६६ - किम् कारणम् ।१८ - ६६ - अर्थवत्त्वात् ।१९ - ६६ - अर्थवत् हि एतत् वाक्यम् भवति ।२० - ६६ - न वै पदार्थात् अन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये ।२१ - ६६ - पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् पदार्थाभिसम्बन्धस्य उपलब्धिः ।२२ - ६६ - पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् एवम् उच्यते पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये ।२३ - ६६ - इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ ।२४ - ६६ - गाम् इति उक्ते कर्म निर्दिष्टम् कर्ता क्रियागुणौ च अनिर्दिष्टौ ।२५ - ६६ - अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः ।२६ - ६६ - शुक्लाम् इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा ।२७ - ६६ - इह इदानीम् देवदत्त गाम् अभ्याज शुक्लाम् इति उक्ते सर्वम् निर्दिष्टम् भवति देवदत्तः एव कर्ता न अन्यः ।२८ - ६६ - गौः एव कर्म न अन्यत् ।२९ - ६६ - अभ्याजिः एव क्रिया न अन्या ।३० - ६६ - शुक्लाम् एव न कृष्णाम् इति ।३१ - ६६ - एतेषाम् पदानाम् सामान्ये वर्तमानानाम् यद्विशेषे अवस्थानम् सः वाक्यार्थः ।३२ - ६६ - तस्मात् प्रतिषेधः ।३३ - ६६ - तस्मात् प्रतिषेधः वक्तव्यः ।३४ - ६६ - न वक्तव्यः ।३५ - ६६ - अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् ।३६ - ६६ - अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् भविष्यति समासः एव अर्थवताम् समुदायायानाम् प्रातिपदिकसञ्ज्ञः भवति न अन्यः इति ।३७ - ६६ - यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति बहुपटवः, उच्चकैः इति ।३८ - ६६ - किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते ।३९ - ६६ - प्रातिपदिकात् इति स्वाद्युत्पत्तिः यथा स्यात् ।४० - ६६ - न एषः दोषः ।४१ - ६६ - यथा एव अत्र अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न भवति एवम् लुक् अपि न भविष्यति ।४२ - ६६ - तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव श्रवणम् भविष्यति ।४३ - ६६ - न एवम् शक्यम् ।४४ - ६६ - स्वरे हि दोषः स्यात् ।४५ - ६६ - बहुपटवः इति एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते ।४६ - ६६ - पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति ।४७ - ६६ - तस्याम् पुनः लुप्तायम् या अन्या विभक्तिः उत्पद्यते तस्याः प्रकृत्यनेकदेशत्वात् अन्तोदात्तत्वम् न भविष्यति ।४८ - ६६ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा इति यत् अयम् अप्रययः इति प्रतिषेधम् शास्ति ।४९ - ६६ - सः च तदन्तप्रतिषेधः ।५० - ६६ - सः तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधः वक्तव्यः ।५१ - ६६ - ननु च अयम् प्राप्त्यर्थः अपि वक्तव्यः ।५२ - ६६ - न अर्थः प्राप्त्यर्थेन ।५३ - ६६ - कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति न अन्यस्य प्रत्ययान्तस्य इति ।५४ - ६६ - सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या ।५५ - ६६ - उभयम् न वक्तव्यम् ।५६ - ६६ - तुल्यजातीयस्य नियमः ।५७ - ६६ - कः च तुल्यजातीयः ।५८ - ६६ - यथाजातीयकानाम् समासः ।५९ - ६६ - कथञ्जातीयकानाम् समासः ।६० - ६६ - सुबन्तानाम् ।६१ - ६६ - सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति ।६२ - ६६ - सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा आरभ्यते जहि कर्मणा बहुलम् आभीक्ष्ण्ये कर्तारम् च अभिदधाति इति ।६३ - ६६ - तत् नियमार्थम् भविष्यति एतस्य एव सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।६४ - ६६ - तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति ।६५ - ६६ - तिङ्समुदायस्य अपि प्रातिपदिकसञ्ज्ञा आरभ्यते आख्यातम् आख्यातेन क्रियासातत्ये इति ।६६ - ६६ - तत् नियमार्थम् भविष्यति एतस्य एव तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।१ - ४० - अर्थवत्ता न उपपद्यते केवलेन अवचनात् ।२ - ४० - अर्थवत्ता न उपपद्यते वृक्षशब्दस्य ।३ - ४० - किम् कारणम् ।४ - ४० - केवलेन अवचनात् ।५ - ४० - न केवलेन वृक्षशब्देन अर्थः गम्यते ।६ - ४० - केन तर्हि ।७ - ४० - सप्रत्ययकेन ।८ - ४० - न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः ।९ - ४० - न वा एषः दोषः ।१० - ४० - किम् कारणम् ।११ - ४० - प्रत्ययेन नित्यसम्बन्धात् ।१२ - ४० - नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति ।१३ - ४० - प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः न भविष्यति ।१४ - ४० - अन्यत् भवान् पृष्टः अन्यत् आचष्टे ।१५ - ४० - आम्रान् पृष्टः कोविदारान् आचष्टे ।१६ - ४० - अर्थवत्ता न उपपद्यते केवलेन अवचनात् इति भवान् अस्माभिः चोदितः केवलस्य अप्रयोगे हेतुम् आह ।१७ - ४० - एवम् च किल नाम कृत्वा चोद्यते समुदायस्य अर्थे प्रयोगात् अवयवानाम् अप्रसिद्धिः इति ।१८ - ४० - सिद्धम् तु अन्वयव्यतिरेकाभ्याम् ।१९ - ४० - सिद्धम् एतत् ।२० - ४० - कथम् ।२१ - ४० - अन्वयात् व्यतिरेकात् च ।२२ - ४० - कः असौ अन्वयः व्यतिरेकः वा ।२३ - ४० - इह वृक्षः इति उक्ते कः चित् शब्दः श्रूयते वृक्षशब्दः अकारान्तः सकारान्तः च प्रत्ययः ।२४ - ४० - अर्थः अपि कः चित् गम्यते मूलस्कन्धफलपलाशवान् एकत्वम् च ।२५ - ४० - वृक्षौ इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी सकारः हीयते, औकारः उपजायते वृक्षशब्दः अकारान्तः अन्वयी ।२६ - ४० - अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी एकत्वम् हीयते द्वित्वम् उपजायते मूलस्कन्धफलपलाशवान् अन्वयी ।२७ - ४० - ते मन्यामहे यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते ।२८ - ४० - यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते ।२९ - ४० - यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी. विषमः उपन्यासः ।३० - ४० - बहवः हि शब्दाः एकार्थाः भवन्ति ।३१ - ४० - तत् यथा इन्द्रः शक्रः पुरुहूतः पुरन्दरः, कन्दुः कोष्ठः कुशूलः इति ।३२ - ४० - एकः च शब्दः बह्वर्थः ।३३ - ४० - तत् यथा अक्षाः पादाः माषाः इति ।३४ - ४० - अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति ।३५ - ४० - न ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव ।३६ - ४० - तत्र कुतः एतत् अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा ।३७ - ४० - सामान्यशब्दाः एते एवम् स्युः ।३८ - ४० - सामान्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।३९ - ४० - यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चिद् अर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।४० - ४० - न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।१ - २३ - किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः ।२ - २३ - वर्णस्य अर्थवदनर्थकत्वे उक्तम् ।३ - २३ - किम् उक्तम् ।४ - २३ - अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् ।५ - २३ - वर्णव्यत्यये च अर्थान्तरगमनात् ।६ - २३ - वर्णानुपलब्धौ च अनर्थगतेः ।७ - २३ - सङ्घातार्थवत्त्वात् च ।८ - २३ - सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् ।९ - २३ - अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः ।१० - २३ - वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् इति ।११ - २३ - तत्र इदम् अपरिहृतम् सङ्घातार्थवत्त्वात् च इति ।१२ - २३ - तस्य परिहारः ।१३ - २३ - सङ्घातार्थवत्त्वात् च इति चेत् दृष्टः हिअतदर्थेन गुणेन गुणिनः अर्थभावः ।१४ - २३ - सङ्घातार्थवत्त्वात् च इति चेत् दृश्यते हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः ।१५ - २३ - तत् यथा ।१६ - २३ - एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः ।१७ - २३ - एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकम् समर्थः ।१८ - २३ - एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति ।१९ - २३ - विषमः उपन्यासः ।२० - २३ - भवति हि तत्र या च यावती च अर्थमात्रा ।२१ - २३ - भवति हि किम् चित् प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः ।२२ - २३ - इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः ।२३ - २३ - यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकम् व्रजिक्रियाम् प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवम् एषाम् वर्णानाम् समुदायाः अर्थवन्तः अवयवाः अनर्थकाः इति ।१ - २१ - निपातस्य अनर्थकस्य प्रातिपदिकत्वम् ।२ - २१ - निपातस्य अनर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या ।३ - २१ - खञ्जति निखञ्जति लम्बते प्रलम्बते ।४ - २१ - किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते ।५ - २१ - प्रातिपदिकात् इति स्वाद्युत्पत्तिः, सुबन्तम् पदम् इति पदसञ्ज्ञा, पदस्य पदात् इति निघातः यथा स्यात् ।६ - २१ - न एतत् अस्ति प्रयोजनम् ।७ - २१ - सत्याम् अपि प्रातिपदिकसञ्ज्ञायाम् स्वाद्युत्पत्तिः न प्राप्नोति ।८ - २१ - किम् कारणम् ।९ - २१ - न हि प्रातिपदिकसञ्ज्ञायाम् एव स्वाद्युत्पत्तिः प्रतिबद्धा ।१० - २१ - किम् तर्हि ।११ - २१ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषाम् एकत्वादयः सन्ति ।१२ - २१ - न एषः दोषः ।१३ - २१ - अविशेषेण उत्पद्यन्ते ।१४ - २१ - उत्पन्नानाम् नियमः क्रियते ।१५ - २१ - अथ वा प्रकृतार्थान् अपेक्ष्य नियमः ।१६ - २१ - के च प्रकृताः ।१७ - २१ - एकत्वादयः ।१८ - २१ - एकस्मिन् एव अर्थे एकवचनम् न द्वयोः न बहुषु ।१९ - २१ - द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु ।२० - २१ - बहुषु एव अर्थेषु बहुवचनम् न एकस्मिन् न द्वयोः इति ।२१ - २१ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति अनर्थकानाम् अपि एतेषाम् भवति अर्थवत्कृतम् इति यत् अयम् अधिपरी अनर्थकौ इति अनर्थकयोः गत्युपसर्गसञ्जाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति१ - ३४ - किम् पुनः अयम् पर्युदासः यत् अन्यत् प्रत्ययात् आहोस्वित् प्रसज्य अयम् प्रतिषेधः प्रत्ययः न इति ।२ - ३४ - कः च अत्र विशेषः ।३ - ३४ - अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् ।४ - ३४ - अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः वक्तव्यः काण्डे कुड्ये ।५ - ३४ - किम् कारणम् ।६ - ३४ - अन्तवत्त्वात् ।७ - ३४ - तिबतिपोः एकादेशः अतिपः अन्तवत् स्यात् ।८ - ३४ - अस्ति अन्यत् तिपः इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति ।९ - ३४ - अस्तु तर्हि प्रसज्यप्रतिषेधः प्रत्ययः न इति ।१० - ३४ - न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः आदिवत्त्वात् ।११ - ३४ - न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः प्राप्नोति ब्रह्मबन्धूः ।१२ - ३४ - किम् कारणम् ।१३ - ३४ - आदिवत्त्वात् ।१४ - ३४ - प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत् स्यात् ।१५ - ३४ - तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति ।१६ - ३४ - न एषः दोषः ।१७ - ३४ - आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते ऊङन्तात् स्वादयः इति यत् अयम् न ऊङ्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधम् शाश्ति ।१८ - ३४ - अथ वा द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।१९ - ३४ - तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तया अन्तवद्भावात् स्वाद्युत्पत्तिः भविष्यति ।२० - ३४ - सुब्लोपे च प्रत्ययलक्षणत्वात् ।२१ - ३४ - सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति राजा तक्षा ।२२ - ३४ - प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति ।२३ - ३४ - न एषः दोषः ।२४ - ३४ - आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति प्रतिषेधम् शास्ति ।२५ - ३४ - अथ वा पुनः अस्तु पर्युदासः ।२६ - ३४ - ननु च उक्तम् अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् इति ।२७ - ३४ - प्रसज्यप्रतिषेधे अपि एषः दोषः ।२८ - ३४ - द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।२९ - ३४ - गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन ।३० - ३४ - तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् ह्रस्वः नपुंसके यत् तस्य इति ।३१ - ३४ - किम् च नपुंसके ।३२ - ३४ - नपुंसकम् यस्य गुणः ।३३ - ३४ - कस्य च नपुंसकम् गुणः ।३४ - ३४ - प्रातिपदिकस्य । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP