TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पाद २ - खण्ड ११

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


खण्ड ११
१ - ५४ - ङित्किद्वचने तयोः अभावात् अप्रसिद्धिः ।

२ - ५४ - ङित्किद्वचने तयोः अभावात्, ङकारककारयोः अभावात्, ङित्त्वकित्त्वयोः अप्रसिद्धिः ।

३ - ५४ - सता हि अभिसम्बन्धः शक्यते कर्तुम् न च अत्र ङकारककारौ इतौ पश्यामः ।

४ - ५४ - तत् यथा चित्रगुः देवदत्तः इति यस्य ताः गावः सन्ति सः एव ताभ्याम् शब्दाभ्याम् शक्यते अभिसम्बन्धुम् ।

५ - ५४ - भाव्येते तर्हि अनेन ।

६ - ५४ - गाङ्कुटादिभ्यः अञ्णित् ङित् भवति इति ।

७ - ५४ - असंयोगात् लिट् कित् भवति इति ।

८ - ५४ - भवति इति चेत् आदेशप्रतिषेधः ।

९ - ५४ - भवति इति चेत् आदेशस्य प्रतिषेधः वक्तव्यः ।

१० - ५४ - ङकारककारौ इतौ आदेशौ प्राप्नुतः ।

११ - ५४ - कथम् पुनः इत्सञ्ज्ञः नाम आदेशः स्यात् ।

१२ - ५४ - किम् हि वचनात् न भवति ।

१३ - ५४ - एवम् तर्हि षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

१४ - ५४ - गाङ्कुटादिभ्यः इति एषा पञ्चमी अञ्णित् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१५ - ५४ - सञ्ज्ञाकरणम् तर्हि इदम् ।

१६ - ५४ - गाङ्कुटादिभ्यः अञ्णित् ङित्सञ्ज्ञः भवति इति ।

१७ - ५४ - असंयोगात् लिट् कित्सञ्ज्ञः भवति इति ।

१८ - ५४ - सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः शब्दभेदात् ।

१९ - ५४ - सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः स्यात् ।

२० - ५४ - किम् कारणम् ।

२१ - ५४ - शब्दभेदात् ।

२२ - ५४ - अन्यः हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च ।

२३ - ५४ - तथा किद्ग्रहणेषु ङिद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् ।

२४ - ५४ - तद्वदतिदेशः तर्हि अयम् गाङ्कुटादिभ्यः अञ्णित् ङिद्वत् भवति इति ।

२५ - ५४ - असंयोगात् लिट् किद्वत् भवति इति ।

२६ - ५४ - सः तर्हि वतिनिर्देशः कर्तव्यः ।

२७ - ५४ - न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

२८ - ५४ - अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

२९ - ५४ - तत् यथा एषः ब्रह्मदत्तः ।

३० - ५४ - अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

३१ - ५४ - ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति ।

३२ - ५४ - एवम् इह अपि अङितम् ङित् इति आह ।

३३ - ५४ - ङिद्वत् इति गम्यते ।

३४ - ५४ - अकितम् कित् इति आह ।

३५ - ५४ - किद्वत् इति गम्यते ।

३६ - ५४ - तद्वदतिदेशे अकिद्विधिप्रसङ्गः । तद्वदतिदेशे अकिद्विधिः अपि प्राप्नोति ।

३७ - ५४ - सृजिदृशोः झलि अम् अकिति सिसृक्षति दिदृक्षते अकिल्लक्षणः अमागमः प्राप्नोति ।

३८ - ५४ - सिद्धम् तु प्रसज्यप्रतिषेधात् ।

३९ - ५४ - सिद्धम् एतत् ।

४० - ५४ - कथम् ।

४१ - ५४ - प्रसज्य अयम् प्रतिषेधः क्रियते किति न इति ।

४२ - ५४ - सर्वत्र सनन्तात् आत्मनेपदप्रतिषेधः ।

४३ - ५४ - सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति ।

४४ - ५४ - उच्चुकुटिषति निचुकुटिषति ङिति इति आत्मनेपदम् प्राप्नोति ।

४५ - ५४ - तस्य प्रतिषेधः वक्तव्यः ।

४६ - ५४ - सिद्धम् तु पूर्वस्य कार्यातिदेशात् ।

४७ - ५४ - सिद्धम् एतत् ।

४८ - ५४ - कथम् ।

४९ - ५४ - पूर्वस्य यत् कार्यम् तत् अतिदिश्यते ।

५० - ५४ - किम् वक्तव्यम् एतत् ।

५१ - ५४ - न हि ।

५२ - ५४ - कथम् अनुच्यमानम् गंस्यते ।

५३ - ५४ - सप्तम्यर्थे अपि वतिः भवति ।

५४ - ५४ - तत् यथा मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् ङिति इव ङिद्वत् ।

१ - ३५ - अथ किमर्थम् पृथक् ङित्कितौ क्रियेते न सर्वम् कित् एव वा स्यात् ङित् एव वा ।

२ - ३५ - पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुकचङादिषु ।

३ - ३५ - पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुके चङादिषु च. सार्वधातुके प्रयोजनम् यथा इह भवति सुप्तः, सुप्तवान् इति एवम् स्वपितः, स्वपिथः अत्र अपि प्राप्नोति ।

४ - ३५ - चङादिषु प्रयोजनम् ।

५ - ३५ - के पुनः चङादयः ।

६ - ३५ - चङङ्नजिङ्ङ्वनिबथङ्नङः ।

७ - ३५ - चङ् यथा इह भवति शूनः, शूनवान् इति एवम् अशिश्वियत् अत्र अपि प्राप्नोति ।

८ - ३५ - अङ् यथा इह भवति शूनः, उक्तः इति एवम् अश्वत्, अवोचत् अत्र अपि प्राप्नोति ।

९ - ३५ - नजिङ् यथा इह भवति सुप्तः इति एवम् स्वप्नक् अत्र अपि प्राप्नोति ।

१० - ३५ - ङ्वनिप् यथा इह भवति इष्टः इति एवम् यज्वा अत्र अपि प्राप्नोति ।

११ - ३५ - अथङ् यथा इह भवति उषितः इति एवम् आवसथः अत्र अपि प्राप्नोति ।

१२ - ३५ - नङ् यथा इह भवति इष्टम् एवम् यज्ञः अत्र अपि प्राप्नोति ।

१३ - ३५ - जाग्रः अगुणविधिः ।

१४ - ३५ - जागर्तेः अगुणविधिः प्रयोजनम् ।

१५ - ३५ - यथा इह भवति जागृतः, जागृथः इति अङिति इति पर्युदासः एवम् जागरितः, जागरितवान् इति अत्र अपि प्राप्नोति ।

१६ - ३५ - अपरः आह जाग्रः गुणविधिः ।

१७ - ३५ - जागर्तेः गुणविधिः प्रयोजनम् ।

१८ - ३५ - यथा इह भवति जागरितः, जागरितवान् एवम् जागृतः जागृथः इति अत्र अपि प्राप्नोति ।

१९ - ३५ - कुटादीनाम् इट्प्रतिषेधः ।

२० - ३५ - कुटादीनाम् इट्प्रतिषेधः प्रयोजनम् ।

२१ - ३५ - यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुविता धुविता अत्र अपि प्राप्नोति ।

२२ - ३५ - क्त्वायाम् कित्प्रतिषेधः च ।

२३ - ३५ - क्त्वायाम् कित्प्रतिषेधः च प्रयोजनम् ।

२४ - ३५ - किम् च ।

२५ - ३५ - इट्प्रतिषेधः च ।

२६ - ३५ - न इति आह ।

२७ - ३५ - अदेशे अयम् चः पठितः ।

२८ - ३५ - क्त्वायाम् च कित्प्रतिषेधः इति ।

२९ - ३५ - यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेट् इति प्रतिषेधः एवम् कुटित्वा पुटित्वा अत्र अपि प्राप्नोति ।

३० - ३५ - अथ वा देशे एव अयम् चः पठितः ।

३१ - ३५ - क्त्वायाम् कित्प्रतिषेधः च इट्प्रतिषेधः च ।

३२ - ३५ - इट्प्रतिषेधः यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुवित्वा धुवित्वा अत्र अपि प्राप्नोति ।

३३ - ३५ - स्यात् एतत् प्रयोजनम् यदि अत्र नियोगतः आतिदेशिकेन ङित्त्वेन औपदेशिकम् कित्त्वम् बाध्येत ।

३४ - ३५ - सति अपि तु ङित्त्वे कित् एव एषः ।

३५ - ३५ - तस्मात् नूत्वा धूत्वा इति एव भवितव्यम् ।

१ - १३ - सार्वधातुकग्रहणम् किमर्थम् ।

२ - १३ - अपित् इति इयति उच्यमाने आर्धधातुकस्य अपि अपितः ङित्त्वम् प्रसज्येत कर्ता हर्ता ।

३ - १३ - न एषः दोषः ।

४ - १३ - आचार्यप्रवृत्तिः ज्ञापयति न अनेन आर्धधातुकस्य ङित्त्वम् भवति इति यत् अयम् आर्धधातुकीयान् कान् चित् ङितः करोति चङङ्नजिङ्ङ्वनिबथङ्नङः ।

५ - १३ - सार्वधातुके अपि एतत् ज्ञापकम् स्यात् ।

६ - १३ - न इति आह ।

७ - १३ - तुल्यजातीयस्य ज्ञापकम् ।

८ - १३ - कः च तुल्यजातीयः ।

९ - १३ - यथाजातीयकाः चङङ्नजिङ्ङ्वनिबथङ्नङः ।

१० - १३ - कथञ्जातीयकाः च एते ।

११ - १३ - आर्धधातुकाः ।

१२ - १३ - यदि एतत् अस्ति तुल्यजातीयस्य ज्ञापकम् इति चङङौ लुङ्विकरणानम् ज्ञापकौ स्याताम् नजिङ् वर्तमानकालानाम् ङ्वनिप् भूतकालानाम् अथङ्शब्दः औणादिकानाम् नङ्शब्दः घञर्थानाम् ।

१३ - १३ - तस्मात् सार्वधातुकग्रहणम् कर्तव्यम् ।

१ - १९ - किम् पुनः अयम् पर्युदासः यत् अन्यत् पितः, आहोस्वित् प्रसज्य अयम् प्रतिषेधः पित् न इति ।

२ - १९ - कः च अत्र विशेषः ।

३ - १९ - अपित् ङित् इति चेत् शब्देकादेशप्रतिषेधः आदिवत्त्वात् ।

४ - १९ - अपित् ङित् इति चेत् शब्देकादेशे प्रतिषेधः वक्तव्यः च्यवन्ते प्लवन्ते ।

५ - १९ - किम् कारणम् ।

६ - १९ - आदिवत्त्वात् ।

७ - १९ - पिदपितोः एकादेशः अपितः आदिवत् स्यात् ।

८ - १९ - अस्ति अन्यत् पितः इति कृत्वा ङित्त्वम् प्राप्नोति ।

९ - १९ - अस्तु तर्हि प्रसज्यप्रतिषेधः पित् न इति ।

१० - १९ - न पित् ङित् इति चेत् उत्तमैकादेशप्रतिषेधः ।

११ - १९ - पित् न इति चेत् उत्तमैकादेशे प्रतिषेधः प्राप्नोति तुदानि लिखानि ।

१२ - १९ - किम् कारणम् ।

१३ - १९ - आदिवत्त्वात् एव ।

१४ - १९ - पिदपितोः एकादेशः पितः आदिवत् स्यात् ।

१५ - १९ - तत्र पित् न इति प्रतिषेधः प्राप्नोति ।

१६ - १९ - यथा इच्छसि तथा अस्तु ।

१७ - १९ - ननु च उक्तम् उभयथा अपि दोषः इति ।

१८ - १९ - उभयथा अपि न दोषः ।

१९ - १९ - एकादेशः पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् ।

१ - १४ - ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् विप्रतिषेधेन ।

२ - १४ - ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् भवति विप्रतिषेधेन ववृते ववृधे ।

३ - १४ - उक्तम् वा ।

४ - १४ - किम् उक्तम् ।

५ - १४ - न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य इति ।

६ - १४ - विषमः उपन्यासः ।

७ - १४ - युक्तम् तत्र यत् अनवकाशम् कित्करणम् गुणम् बाधते ।

८ - १४ - इह पुनः उभयम् सावकाशम् ।

९ - १४ - कित्करणस्य अवकाशःईजतुः ईजुः ।

१० - १४ - गुणस्य अवकाशः वर्तित्वा वर्धित्वा ।

११ - १४ - इह उभयम् प्राप्नोति ववृते ववृधे ।

१२ - १४ - परत्वात् गुणः प्राप्नोति ।

१३ - १४ - इदम् तर्हि उक्तम् इष्टवाची परशब्दः ।

१४ - १४ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इती ।

१ - १३ - किमर्थम् इदम् उच्यते ।

२ - १३ - इन्धेः सम्योगार्थम् वचनम् भवतेः पिदर्थम् ।

३ - १३ - अयम् योगः शक्यः अवक्तुम् ।

४ - १३ - कथम् ।

५ - १३ - इन्धेः छन्दोविषयत्वात् भुवः वुकः नित्यत्वात् ताभ्याम् किद्वचनानर्थक्यम् ।

६ - १३ - इन्धेः छन्दोविषयः लिट् ।

७ - १३ - न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट् लभ्यः ।

८ - १३ - आमा भाषायाम् भवितव्यम् ।

९ - १३ - भुवः वुकः नित्यत्वात् ।

१० - १३ - भवतेः अपि नित्यः वुक् ।

११ - १३ - कृते अपि प्राप्नोति अकृते अपि ।

१२ - १३ - ताभ्याम् किद्वचनानर्थक्यम् ।

१३ - १३ - ताभ्याम् इन्धिभवितिभ्याम् किद्वचनम् अनर्थकम् ।

१ - १६ - किमर्थम् मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते ।

२ - १६ - कित् एव हि क्त्वा ।

३ - १६ - न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ।

४ - १६ - यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते न अर्थः न क्त्वा सेट् इति अनेन कित्त्वप्रतिषेधेन ।

५ - १६ - इदम् नियमार्थम् भविष्यति मृडादिभ्यः एव परस्य क्त्वः कित्त्वम् भवति न अन्येभ्यः इति ।

६ - १६ - यदि नियमः क्रियते इह अपि तर्हि नियमान् न प्राप्नोति लूत्वा पूत्वा ।

७ - १६ - अत्र अपि अकित्त्वम् प्राप्नोति ।

८ - १६ - तुल्यजातीयस्य नियमः ।

९ - १६ - कः च तुल्यजातीयः ।

१० - १६ - यथाजातीयकः मृडादिभ्यः परः क्त्वा ।

११ - १६ - कथञ्जातीयकः मृडादिभ्यः परः क्त्वा ।

१२ - १६ - सेट् ।

१३ - १६ - एवम् अपि अस्ति अत्र कः चित् विभाषितेट् ।

१४ - १६ - सः अनिटाम् नियामकः स्यात् ।

१५ - १६ - अस्तु तावत् ये सेटः तेषाम् ग्रहणम् नियमाऋथम् ।

१६ - १६ - यः इदानीम् विभाषितेट् तस्य ग्रहणम् विध्यर्थम् भविष्यति ।

१ - १ - स्वपिप्रच्छ्योः सनर्थम् ग्रहणम् कित् एव हि क्त्वा ।

१ - ५६ - किमर्थम् इकः परस्य सनः कित्त्वम् उच्यते ।

२ - ५६ - इकः कित्त्वम् गुणः मा भूत् ।

३ - ५६ - इकः कित्त्वम् उच्यते गुणः मा भूत् इति चिचीषति तुष्टूषति ।

४ - ५६ - न एतत् अस्ति प्रयोजनम् ।

५ - ५६ - दीर्घारम्भात् ।

६ - ५६ - दीर्घत्वम् अत्र बाधकम् भविष्यति ।

७ - ५६ - कृते भवेत् ।

८ - ५६ - कृते खलु दीर्घत्वे गुणः प्राप्नोति ।

९ - ५६ - अनर्थकम् तु ।

१० - ५६ - अनर्थकम् एवम् सति दीर्घत्वम् स्यात् ।

११ - ५६ - न अनर्थकम् ।

१२ - ५६ - ह्रस्वार्थम् ।

१३ - ५६ - ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न भविष्यति ।

१४ - ५६ - भवेत् ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न स्यात् ।

१५ - ५६ - दीर्घाणाम् तु प्रसज्यते ।

१६ - ५६ - दीर्घाणाम् तु खलु गुणः प्राप्नोति ।

१७ - ५६ - ननु च दीर्घाणाम् अपि दीर्घवचनसामर्थ्यात् गुणः न भविष्यति ।

१८ - ५६ - न दीर्घाणाम् दीर्घाः प्राप्नुवन्ति ।

१९ - ५६ - किम् कारणम् ।

२० - ५६ - न हि भुक्तवान् पुनः भुङ्क्ते न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति ।

२१ - ५६ - ननु च पुनः प्रवृत्तिः अपि दृष्टा ।

२२ - ५६ - भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति ।

२३ - ५६ - सामर्थ्यात् हि पुनः भाव्यम् ।

२४ - ५६ - सामर्थ्यात् तत्र पुनः प्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा ।

२५ - ५६ - दीर्घाणाम् पुनः दीर्घत्ववचने न किम् चित् प्रयोजनम् अस्ति ।

२६ - ५६ - अकृतकारि खलु अपि शास्त्रम् अग्निवत् ।

२७ - ५६ - तत् यथा अग्निः यद् अदग्धम् तत् दहति ।

२८ - ५६ - दीर्घाणाम् अपि दीर्घवचने एतत् प्रयोजनम् गुणः मा भूत् इति ।

२९ - ५६ - कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् ।

३० - ५६ - तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षति ।

३१ - ५६ - यथा एव तर्हि दीर्घवचनसामर्थ्यात् गुणः न भवति एवम् ऋ̄दित्त्वम् अपि न प्राप्नोति चिकीर्षति जिहीर्षति इति. ऋ̄दित्त्वम् दीर्घसंश्रयम् ।

३२ - ५६ - न अकृते दीर्घे ऋ̄दित्त्वम् प्राप्नोति ।

३३ - ५६ - किम् कारणम् ।

३४ - ५६ - ऋ̄तः इति उच्यते ।

३५ - ५६ - भवेत् ह्रस्वानाम् न अकृते दीर्घे ऋ̄दित्त्वम् स्यात् दीर्घाणाम् तु खलु अकृते अपि दीर्घत्वे ऋ̄दित्त्वम् प्राप्नोति ।

३६ - ५६ - दीर्घाणाम् न अकृते दीर्घे ।

३७ - ५६ - दीर्घाणाम् अपि न अकृते दीर्घे ऋ̄दित्त्वम् प्राप्नोति ।

३८ - ५६ - यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालम् ऋ̄दित्त्वम् भवति ।

३९ - ५६ - णिलोपः तु प्रयोजनम् ।

४० - ५६ - इदम् तर्हि प्रयोजनम् णिलोपः यथा स्यात् इति ज्ञीप्सति ।

४१ - ५६ - क्व अस्ताः क्व निपतिताः क्व कित्त्वम् क्व णिलोपः ।

४२ - ५६ - कः वा अभिसम्बन्धः यत् सति कित्त्वे णिलोपः स्यात् असति न स्यात् ।

४३ - ५६ - एषः अभिसम्बन्धः यत् सति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते ।

४४ - ५६ - असति पुनः कित्त्वे अनवकाशम् दीर्घत्वम् यथा एव गुणम् बाधते एवम् णिलोपम् अपि बाधेत ।

४५ - ५६ - तत्र णिलोपस्य अवकाशः कारणा हारणा ।

४६ - ५६ - दीर्घत्वस्य अवकाशः चिचीषति तुष्टूषति ।

४७ - ५६ - इह उभयम् प्राप्नोति ज्ञीप्सति ।

४८ - ५६ - परत्वात् णिलोपः ।

४९ - ५६ - असति अपि कित्त्वे सावकाशम् दीर्घत्वम् ।

५० - ५६ - कः अवकाशः ।

५१ - ५६ - इस्भावः ।

५२ - ५६ - निमित्सति प्रमित्सति ।

५३ - ५६ - मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणम् यथा स्यात् ।

५४ - ५६ - यथा एव तर्हि असति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते एवम् गुणः अपि बाधेत ।

५५ - ५६ - तस्मात् कित्त्वम् वक्तव्यम् ।

५६ - ५६ - इकः कित्त्वम् गुणः मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थम् दीर्घाणाम् तु प्रसज्यते ॥ सामर्थ्यात् हि पुनः भाव्यम् ऋ̄दित्त्वम् दीर्घसंश्रयम् दीर्घाणाम् न अकृते दीर्घे णिलोपः तु प्रयोजनम् ।

१ - २२ - अयुक्तः अयम् निर्देशः ।

२ - २२ - कथम् हि इकः नाम हल् अन्तः स्यात् अन्यस्य अन्यः ।

३ - २२ - कथम् तर्हि निर्देशः कर्तव्यः ।

४ - २२ - इग्वतः हलः इति ।

५ - २२ - यदि एवम् यियक्षति अत्र अपि प्राप्नोति ।

६ - २२ - एवम् तर्हि इगुपधात् हलन्तात् इति वक्ष्यामि ।

७ - २२ - एवम् अपि दम्भेः न प्राप्नोति ।

८ - २२ - सूत्रम् च भिद्यते ।

९ - २२ - यथान्यासम् एव अस्तु ।

१० - २२ - ननु च उक्तम् अयुक्तः अयम् निर्देशः इति ।

११ - २२ - न अयुक्तः ।

१२ - २२ - अन्तशब्दः अयम् अस्ति एव अवयववाची ।

१३ - २२ - तत् यथा वस्त्रान्तः, वसनान्तः वस्त्रावयवः, वसनावयवः इति गम्यते ।

१४ - २२ - अस्ति सामीप्ये वर्तते ।

१५ - २२ - तत् यथा उदकान्तम् गतः इति ।

१६ - २२ - उदकसमीपम् गतः इति गम्यते ।

१७ - २२ - तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् ।

१८ - २२ - एवम् अपि दम्भेः न सिध्यति ।

१९ - २२ - यः अत्र इक्समीपे हल् न तस्मात् उत्तरः सन् ।

२० - २२ - यस्मात् उत्तरः सन् न असौ इक्समीपे हल् ।

२१ - २२ - एवम् तर्हि दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् ।

२२ - २२ - हल्जातिः निर्दिश्यते इकः उत्तरा या हल्जातिः इति ।

१ - ३६ - कथम् इदम् विज्ञायते आत्मनेपदम् यौ लिङ्सिचौ इति आहोस्वित् आत्मनेपदेषु परतः यौ लिङ्सिचौ इति ।

२ - ३६ - किम् च अतः. यदि विज्ञायते आत्मनेपदम् यौ लिङ्सिचौ इति लिङ् विशेषितः सिच् अविशेषितः ।

३ - ३६ - अथ विज्ञायते आत्मनेपदेषु परतः यौ लिङ्सिचौ इति सिच् विशेषितः लिङ् अविशेषितः ।

४ - ३६ - यथा इच्छसि तथा अस्तु ।

५ - ३६ - अस्तु तावत् आत्मनेपदम् यौ लिङ्सिचौ इति ।

६ - ३६ - ननु च उक्तम् ।

७ - ३६ - लिङ् विशेषितः सिच् अविशेषितः इति ।

८ - ३६ - सिच् च विशेषितः ।

९ - ३६ - कथम् ।

१० - ३६ - आत्मनेपदम् सिच् न अस्ति इति कृत्वा आत्मनेपदपरे सिचि कार्यम् विज्ञास्यते ।

११ - ३६ - अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लिङ्सिचौ इति ।

१२ - ३६ - ननु च उक्तम् सिच् विशेषितः लिङ् अविशेषितः इति ।

१३ - ३६ - लिङ् च विशेषितः ।

१४ - ३६ - कथम् ।

१५ - ३६ - आत्मनेपदेषु परतः लिङ् न अस्ति इति कृत्वा आत्मनेपदे लिङि कार्यम् विज्ञास्यते ।

१६ - ३६ - न एव वा पुनः अर्थः लिङ्विशेषणेन आत्मनेपदग्रहणेन ।

१७ - ३६ - किम् कारणम् ।

१८ - ३६ - झल् इति वर्तते ।

१९ - ३६ - आत्मनेपदेषु च एव लिङ् झलादिः न परस्मैपदेषु ।

२० - ३६ - तत् एतत् सिज्विशेषणम् आत्मनेपदग्रहणम् ।

२१ - ३६ - अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किम् प्रयोजनम् ।

२२ - ३६ - इह मा भूत् अयाक्षीत्, अवात्सीत् ।

२३ - ३६ - न एतत् अस्ति ।

२४ - ३६ - इकः इति वर्तते ।

२५ - ३६ - एवम् अपि अनैषीत्, अचैषीत् अत्र अपि प्राप्नोति ।

२६ - ३६ - एतत् अपि न अस्ति प्रयोजनम् ।

२७ - ३६ - हलन्तात् इति वर्तते ।

२८ - ३६ - एवम् अपि अकोषीत्, अमोषीत् अत्र अपि प्राप्नोति ।

२९ - ३६ - न एतत् अस्ति प्रयोजनम् ।

३० - ३६ - झल् इति वर्तते ।

३१ - ३६ - एवम् अपि अभैत्सीत्, अच्छैत्सीत् अत्र अपि प्राप्नोति ।

३२ - ३६ - न एतत् अस्ति ।

३३ - ३६ - इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः ।

३४ - ३६ - इदम् तर्हि प्रयोजनम् इह मा भूत् अद्राक्षीत्, अस्राक्षीत् ।

३५ - ३६ - किम् च स्यात् ।

३६ - ३६ - अकिल्लक्षणः अमागमः न स्यात् ।

१ - १३ - इत् च कस्य तकारेत्त्वम् ।

२ - १३ - कस्य हेतोः इकारः तपरः क्रियते ।

३ - १३ - दीर्घः मा भूत् ।

४ - १३ - दीर्घः मा भूत् इति ।

५ - १३ - ऋते अपि सः ।

६ - १३ - अन्तरेण अपि आरम्भम् सिद्धः अत्र दीर्घः घुमास्थागापाजहाति इति ।

७ - १३ - अनन्तरे प्लुतः मा भूत् ।

८ - १३ - इदम् तर्हि प्रयोजनम् अनन्तरे प्लुतः मा भूत् इति ।

९ - १३ - कुतः नु खलु एतत् अनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति ।

१० - १३ - प्लुतः च विषये स्मृतः ।

११ - १३ - विषये खलु प्लुतः उच्यते ।

१२ - १३ - यदा च सः विषयः भवितव्यम् एव तदा प्लुतेन ।

१३ - १३ - इत् च कस्य तकारेत्त्वम् दीर्घः मा भूत् ऋते अपि सः । अनन्तरे प्लुतः मा भूत् प्लुतः च विषये स्मृतः

१ - ६८ - न सेट् इति कृते अकित्त्वे ।

२ - ६८ - न सेट् इति एव सिद्धम् ।

३ - ६८ - न अर्थः क्त्वाग्रहणेन ।

४ - ६८ - निष्ठायम् अपि तर्हि प्राप्नोति गुधितः गुधितवान् इति ।

५ - ६८ - निष्ठायाम् अवधारणात् ।

६ - ६८ - निष्ठायाम् अवधारणात् न भविष्यति ।

७ - ६८ - किम् अवधारणम् ।

८ - ६८ - निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः इति ।

९ - ६८ - परोक्षायाम् तर्हि प्राप्नोति ।

१० - ६८ - किम् च स्यात् ।

११ - ६८ - पपिव पपिम क्ङिति इति आकारलोपः न स्यात् ।

१२ - ६८ - मा भूत् एवम् ।

१३ - ६८ - इटि इति एवम् भविष्यति ।

१४ - ६८ - इदम् तर्हि जग्मिव जघ्निव ।

१५ - ६८ - क्ङिति इति उपधालोपः न स्यात् ।

१६ - ६८ - ज्ञापकात् न परोक्षायाम् ।

१७ - ६८ - ज्ञापकात् परोक्षायाम् न भविष्यति ।

१८ - ६८ - किम् ज्ञापकम् ।

१९ - ६८ - सनि झल्ग्रहणम् विदुः ।

२० - ६८ - यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् ज्ञापयति आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति ।

२१ - ६८ - कथम् कृत्वा ज्ञापकम् ।

२२ - ६८ - झल्ग्रहणस्य एतत् प्रयोजनम् इह मा भूत् शिशयिषते इति ।

२३ - ६८ - यदि च अत्र आतिदेशिकस्य कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् ।

२४ - ६८ - अस्तु अत्र कित्त्वम् ।

२५ - ६८ - न सेट् इति प्रतिषेधः भविष्यति ।

२६ - ६८ - पश्यति तु आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति ।

२७ - ६८ - ततः झल्ग्रहणम् करोति ।

२८ - ६८ - न एतत् अस्ति प्रयोजनम् ।

२९ - ६८ - उत्तरार्थम् एतत् स्यात् ।

३० - ६८ - स्थाघ्वोः इत् च झलादौ यथा स्यात् ।

३१ - ६८ - इह मा भूत् उपास्थायिषाताम् उपास्थायिषत ।

३२ - ६८ - इत्त्वम् कित्सन्नियोगेन ।

३३ - ६८ - कित्सन्नियोगेन इत्त्वम् उच्यते ।

३४ - ६८ - तेन असति कित्त्वे इत्त्वम् न भविष्यति ।

३५ - ६८ - रेण तुल्यम् सुधीवनि ।

३६ - ६८ - तत् यथा सुधीवा सुपीवा ङीप्सन्नियोगेन रः उच्यमानः असति ङीपि न भवति ।

३७ - ६८ - अथ वा अस्तु अत्र इत्त्वम् ।

३८ - ६८ - का रूपसिद्धिः ।

३९ - ६८ - वृद्धौ कृतायाम् आयादेशः भविष्यति ।

४० - ६८ - वस्वर्थम् ।

४१ - ६८ - वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् ।

४२ - ६८ - वसौ हि औपदेशिकम् कित्त्वम् ।

४३ - ६८ - किम् च स्यात् ।

४४ - ६८ - पपिवान् पपिमान् क्ङिति इति आकारलोपः न स्यात् ।

४५ - ६८ - मा भूत् एवम् ।

४६ - ६८ - इटि इति एवम् भविष्यति ।

४७ - ६८ - इदम् तर्हि जग्मिवान्, जघ्निवान् क्ङिति इति उपधालोपः न स्यात् ।

४८ - ६८ - किदतीदेशात् ।

४९ - ६८ - अस्तु अत्र औपदेशिकस्य कित्त्वस्य प्रतिषेधः ।

५० - ६८ - आतिदेशिकस्य कित्त्वम् भविष्यति ।

५१ - ६८ - यत्र तर्हि तत् प्रतिषिध्यते अञ्जेः आजिवान् इति ।

५२ - ६८ - एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

५३ - ६८ - तत्र सार्वधातुकम् अपित् ङित् भवति इति ङिति उपधालोपः भविष्यति ।

५४ - ६८ - निगृहीतिः ।

५५ - ६८ - निगृहीतिः प्रयोजनम् ।

५६ - ६८ - इदम् तर्हि प्रयोजनम् इह मा भूत् निगृहीतिः, उपसन्निहितिः, निकुचितिः ।

५७ - ६८ - तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् ।

५८ - ६८ - न कर्तव्यम् ।

५९ - ६८ - क्त्वा च विग्रहात् ।

६० - ६८ - उपरिष्टात् योगविभागः करिष्यते न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।

६१ - ६८ - मृषः तितिक्षायाम् ।

६२ - ६८ - उदुपधात् भावादिकर्मणोः अन्यतरस्याम् ।

६३ - ६८ - ततः पूङः ।

६४ - ६८ - पूङः निष्ठा सेट् न कित् भवति ।

६५ - ६८ - ततः क्त्वा ।

६६ - ६८ - क्त्वा च सेट् न कित् भवति ।

६७ - ६८ - पूङ् इति निवृत्तम् ।

६८ - ६८ - न सेट् इति कृते अकित्त्वे निष्ठायाम् अवधारणात् । ज्ञापकात् न परोक्षायाम् सनि झल्ग्रहणम् विदुः ॥ इत्त्वम् कित्सन्नियोगेन रेण तुल्यम् सुधीवनि । वस्वर्थम् किदतीदेशात् निगृहीतिः क्त्वा च विग्रहात् ॥

१ - ४ - इह कस्मात् न भवति ।

२ - ४ - गुधितः गुधितवान् इति ।

३ - ४ - उदुपधात् शपः ।

४ - ४ - शब्विकरणेभ्यः इष्यते ।

१ - २१ - पूङः क्त्वानिष्ठयोः इटि वाप्रसङ्गः सेट्प्रकरणात् ।

२ - २१ - पूङः क्त्वानिष्ठयोः इटि विभाषा प्राप्नोति ।

३ - २१ - किम् कारणम् ।

४ - २१ - सेट्प्रकरणात् ।

५ - २१ - सेट् इति वर्तते ।

६ - २१ - न वा सेट्त्वस्य अकिदाश्रयत्वात् अनिटि वा कित्त्वम् ।

७ - २१ - न वा एषः दोषः ।

८ - २१ - किम् कारणम् ।

९ - २१ - सेट्त्वस्य अकिदाश्रयत्वात् ।

१० - २१ - अकिदाश्रयम् सेट्त्वम् ।

११ - २१ - यदा अकित्त्वम् तदा इटा भवितव्यम् ।

१२ - २१ - सेट्त्वस्य अकिदाश्रयत्वात् अनिटि एव विभाषा कित्त्वम् भविष्यति ।

१३ - २१ - इड्विधौ पूङः ग्रहणम् क्रियते ।

१४ - २१ - तेन वचनात् इट् सेट्प्रकरणात् च इटि एव विभाषा कित्त्वम् प्राप्नोति ।

१५ - २१ - इड्विधौ हि अग्रहणम् ।

१६ - २१ - इड्विधौ हि पूङः ग्रहणम् न कर्तव्यम् भवति ।

१७ - २१ - भारद्वाजीयाः पठन्ति नित्यम् अकित्त्वम् इडाद्योः । क्त्वाग्रहणम् उत्तरार्थम् । नित्यम् अकित्त्वम् इडाद्योः सिद्धम् ।

१८ - २१ - कथम्. विभाषामध्ये अयम् योगः क्रियते ।

१९ - २१ - विभाषामध्ये च ये विधयः ते नित्याः भवन्ति ।

२० - २१ - किमर्थम् तर्हि क्त्वाग्रहणम् ।

२१ - २१ - क्त्वाग्रहणम् उत्तरार्थम् । उत्तरार्थम् क्त्वाग्रहणम् क्रियते नोपधात् थपान्तात् वा वञ्चिलुञ्च्यृतः च इति ।

१ - २ - काश्यपग्रहणम् किमर्थम्. काश्यपग्रहणम् पूजार्थम् ।

२ - २ - वा इति एव हि वर्तते ।

१ - १३ - किम् इदम् रलः क्त्वासनोः कित्त्वम् विधीयते आहोस्वित् प्रतिषिध्यते ।

२ - १३ - किम् च अतः ।

३ - १३ - यदि विधीयते क्त्वाग्रहणम् अनर्थकम् ।

४ - १३ - कित् एव हि क्त्वा ।

५ - १३ - अथ प्रतिषिध्यते सन्ग्रहणम् अनर्थकम् ।

६ - १३ - अकित् एव हि सन् ।

७ - १३ - अतः उत्तरम् पठति रलः क्त्वासनोः कित्त्वम् ।

८ - १३ - रलः क्त्वासनोः कित्त्वम् विधीयते ।

९ - १३ - ननु च उक्तम् क्त्वाग्रहणम् अनर्थकम् ।

१० - १३ - कित् एव हि क्त्वा इति ।

११ - १३ - न अनर्थकम् ।

१२ - १३ - न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति ।

१३ - १३ - तद्बाधनार्थम् ।

१ - १४ - अयुक्तः अयम् निर्देशः ।

२ - १४ - ऊ इति अनेन कालः प्रतिनिर्दिश्यते ऊ इति अयम् च वर्णः ।

३ - १४ - तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् ।

४ - १४ - कथम् तर्हि निर्देशः कर्तव्यः ।

५ - १४ - ऊकालकालस्य इति ।

६ - १४ - किम् इदम् ऊकालकालस्य इति ।

७ - १४ - ऊ इति एतस्य कालः ऊकालः ।

८ - १४ - ऊकालः कालः अस्य ऊकालकालः इति ।

९ - १४ - सः तर्हि तथा निर्देशः कर्तव्यः ।

१० - १४ - न कर्तव्यः ।

११ - १४ - उत्तरपदलोपः अत्र द्रष्टव्यः ।

१२ - १४ - तत् यथा उष्ट्रमुखम् मुखम् अस्य उष्ट्रमुखः, खरमुखः एवम् ऊकालकालः ऊकालः इति ।

१३ - १४ - अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।

१४ - १४ - कालसहचरितः वर्णः अपि कालः एव ।

१ - ९१ - ह्रस्वादिषु समसङ्ख्याप्रसिद्धिः निर्देशवैषम्यात् ।

२ - ९१ - ह्रस्वादिषु समसङ्ख्यत्वस्य अप्रसिद्धिः ।

३ - ९१ - किम् कारणम् ।

४ - ९१ - निर्देशवैषम्यात् ।

५ - ९१ - तिस्रः सञ्ज्ञाः एका सञ्ज्ञी ।

६ - ९१ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

७ - ९१ - सिद्धम् तु समस्ङ्ख्यत्वात् ।

८ - ९१ - सिद्धम् एतत् ।

९ - ९१ - कथम् ।

१० - ९१ - समसङ्ख्यत्वात् ।

११ - ९१ - कथम् समसङ्ख्यत्वम् ।

१२ - ९१ - त्रयाणाम् हि विकारनिर्देशः ।

१३ - ९१ - त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः ।

१४ - ९१ - कथम् पुनः ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति ।

१५ - ९१ - तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् ।

१६ - ९१ - यदि अपि तावत् तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति कुतः तु एतत् एतेन आनुपूर्व्येण सन्निविष्टानाम् सञ्ज्ञाः भविष्यन्ति इति ।

१७ - ९१ - आदौ मात्रिकः ततः द्विमात्रः ततः त्रिमात्रः इति ।

१८ - ९१ - न पुनः मात्रिकः मध्ये वा अन्ते वा स्यात् तथा द्विमात्रः आदौ वा अन्ते वा स्यात् तथा त्रिमात्रः आदौ वा मध्ये वा स्यात् ।

१९ - ९१ - अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् ।

२० - ९१ - कुतः ।

२१ - ९१ - प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत ।

२२ - ९१ - मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति ।

२३ - ९१ - यत् तावत् उच्यते अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् ।

२४ - ९१ - प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत इति ।

२५ - ९१ - प्लुताश्रयः प्रकृतिभावः प्लुतसञ्ज्ञा च अनेन एव ।

२६ - ९१ - यदि च त्रिमात्रः आदौ वा मध्ये वा स्यात् प्लुतसञ्ज्ञा एव अस्य न स्यात् कुतः प्रत्कृतिभावः ।

२७ - ९१ - यत् अपि उच्यते मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति इति ।

२८ - ९१ - ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा च अनेन एव. यदि च मात्रिकः मध्ये वा अन्ते वा स्यात् ह्रस्वसञ्ज्ञा एव अस्य न स्यात् कुतः घिसञ्ज्ञा कुतः पूर्वनिपातः ।

२९ - ९१ - एवम् एषा व्यवस्था न प्रकल्पते ।

३० - ९१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः अन्ते भवति इति यत् अयम् विभाषा पृष्टप्रतिवचने हेः इति मात्रिकस्य प्लुतम् शास्ति ।

३१ - ९१ - कथम् कृत्वा ज्ञापकम् ।

३२ - ९१ - यः अन्ते सः प्लुतसञ्ज्ञकः ।

३३ - ९१ - यदि च मात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात्. तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् ।

३४ - ९१ - मध्ये तर्हि स्यात् इति ।

३५ - ९१ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः मध्ये भवति इति यत् अयम् अतः दीर्घः यञि सुपि च इत् दीर्घत्वम् शास्ति ।

३६ - ९१ - कथम् कृत्वा ज्ञापकम् ।

३७ - ९१ - यः मध्ये सः दीर्घसञ्ज्ञकः ।

३८ - ९१ - यदि च मात्रिकः मध्ये स्यात् दीर्घसञ्ज्ञा अस्य स्यात् ।

३९ - ९१ - तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् ।

४० - ९१ - द्विमात्रः तर्हि अन्ते स्यात् ।

४१ - ९१ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न द्विमात्रः अन्ते भवति इति यत् अयम् ओम् अभ्यादाने इति द्विमात्रिकस्य प्लुतम् शास्ति ।

४२ - ९१ - कथम् कृत्वा ज्ञापकम् ।

४३ - ९१ - यः अन्ते सः प्लुतसञ्ज्ञकः ।

४४ - ९१ - यदि च द्विमात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात् ।

४५ - ९१ - तत्र द्विमात्रकालस्य द्विमात्रकालवचनम् अनर्थकम् स्यात् ।

४६ - ९१ - मात्रिकेण च अस्य पूर्वनिपातः बाधितः इति कृत्वा क्व अन्यत्र उत्सहते भवितुम् अन्यत् अतः मध्यात् ।

४७ - ९१ - एवम् एषा व्यवस्था प्रक्ल्̥प्ता ।

४८ - ९१ - भवेत् व्यवस्था प्रक्ल्̥प्ता ।

४९ - ९१ - दीर्घप्लुतयोः तु पूर्वसञ्ज्ञाप्रसङ्गः । दीर्घप्लुतयोः अपि पूर्वसञ्ज्ञा प्राप्नोति ।

५० - ९१ - का ।

५१ - ९१ - ह्रस्वसञ्ज्ञा ।

५२ - ९१ - किम् कारणम् ।

५३ - ९१ - अण् सवर्णान् गृह्णाति इति ।

५४ - ९१ - सिद्धम् तु तपरनिर्देशात् ।

५५ - ९१ - सिद्धम् एतत् ।

५६ - ९१ - कथम् ।

५७ - ९१ - तपरनिर्देशः कर्तव्यः उदूकालः इति ।

५८ - ९१ - यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् ।

५९ - ९१ - द्रुतादिषु च उक्तम् ।

६० - ९१ - किम् उत्क्तम् ।

६१ - ९१ - सिद्धम् तु ।

६२ - ९१ - अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति ।

६३ - ९१ - सः तर्हि तपरनिर्देशः कर्तव्यः ।

६४ - ९१ - न कर्तव्यः ।

६५ - ९१ - इह कालग्रहणम् क्रियते ।

६६ - ९१ - यावत् च तपरकरणम् तावत् कालग्रहणम् ।

६७ - ९१ - प्रत्येकम् च कालशब्दः परिसमाप्यते उकालः ऊकालः ऊ३कालः इति ।

६८ - ९१ - अथ वा एकसञ्ज्ञाधिकारे अयम् योगः कर्तव्यः ।

६९ - ९१ - तत्र एका सञ्ज्ञा भवति या परा अनवकाशा च इति एवम् हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति ।

७० - ९१ - अथ वा स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति अयम् योगः प्रत्याख्यायते ।

७१ - ९१ - तत्र यत् एतत् अशब्दसञ्ज्ञा इति एतत् यया विभक्त्या निर्दिश्यमानम् अर्थवत् भवति तया निर्दिष्टम् अनुवर्तिष्यते अणुदित् सवर्णस्य च अप्रत्ययः अशब्दसञ्ज्ञायाम् इति ।

७२ - ९१ - अथ वा ह्रस्वसञ्ज्ञावचनसामर्थ्यात् दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति ।

७३ - ९१ - ननु च इदम् प्रयोजनम् स्यात् सञ्ज्ञया विधाने नियमम् वक्ष्यामि इति ।

७४ - ९१ - ह्रस्वसञ्ज्ञया यत् उच्यते तत् अचः स्थाने यथा स्यात् इति ।

७५ - ९१ - स्यात् एतत् प्रयोजनम् यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः ।

७६ - ९१ - यतः तु खलु यावत् अज्ग्रहणम् तावत् ह्रस्वग्रहणम् अतः अकिञ्चित्कराणि ह्रस्वशासनानि ।

७७ - ९१ - इदम् तर्हि प्रयोजनम् एचः इक् ह्रस्वादेशे इति वक्ष्यामि इति ।

७८ - ९१ - अनुच्यमाने हि एतस्मिन् ह्रस्वप्रदेशेषु एचः इक् भवति इति वक्तव्यम् स्यात् ।

७९ - ९१ - ह्रस्वः नपुंसके प्रातिपदिकस्य एचः इक् भवति इति ।

८० - ९१ - णौ चङि उपधायाः ह्रस्वः एचः इक् भवति इति ।

८१ - ९१ - ह्रस्वः हलादिः शेषः एचः इक् भवति इति ।

८२ - ९१ - सञ्ज्ञा च नाम यतः न लघीयः ।

८३ - ९१ - कुतः एतत् ।

८४ - ९१ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

८५ - ९१ - लघीयः च त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति न पुनः सञ्ज्ञाकरणम् ।

८६ - ९१ - त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति षट् ग्रहणानि ।

८७ - ९१ - सञ्ज्ञाकरणे पुनः अष्टौ ।

८८ - ९१ - ह्रस्वसञ्ज्ञा वक्तव्या ।

८९ - ९१ - त्रिः ह्रस्वप्रदेशेषु ह्रस्वग्रहणम् कर्तव्यम् ह्रस्वः ह्रस्वः ह्रस्वः इति ।

९० - ९१ - एचः इक् ह्रस्वादेशे इति ।

९१ - ९१ - सः अयम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तस्य एतत् प्रयोजनम् दीर्घप्लुतयोः तु पूर्वसञ्ज्ञा मा भूत् इति ।

१ - ३९ - किम् अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः ।

२ - ३९ - कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः ।

३ - ३९ - यदि एकम् वाक्यम् तत् च इदम् च अलः अन्त्यस्य विधयः भवन्ति अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य इति ततः अयम् तच्छेशः ।

४ - ३९ - अथ नाना वाक्यम् अलः अन्त्यस्य विधयः भवन्ति, अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य अनन्त्यस्य च इति ततः अयम् तदपवादः ।

५ - ३९ - कः च अत्र विशेषः ।

६ - ३९ - ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम् ।

७ - ३९ - ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम् कर्तव्यम् ।

८ - ३९ - वचिप्रच्छ्योः दीर्घः अचः इति वक्तव्यम् ।

९ - ३९ - अनन्त्यत्वात् न प्राप्नोति ।

१० - ३९ - शमादीनाम् दीर्घः अचः इति वक्तव्यम् ।

११ - ३९ - अनन्त्यत्वात् न प्राप्नोति ।

१२ - ३९ - हनिगम्योः दीर्घः अचः इति वक्तव्यम् ।

१३ - ३९ - अनन्त्यत्वात् न प्राप्नोति ।

१४ - ३९ - अस्तु तर्हि तदपवादः ।

१५ - ३९ - अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः ।

१६ - ३९ - अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः वक्तव्यः ।

१७ - ३९ - ह्रस्वः नपुंसके प्रातिपदिकस्य यथा इह भवति रै अतिरि नौ अतिनौ एवम् सुवाक् ब्राह्मणकुलम् इति अत्र अपि प्राप्नोति ।

१८ - ३९ - अकृत्सार्वधातुकयोः दीर्घः यथा इह भवति चीयते स्तूयते एवम् भिद्यते अत्र अपि प्राप्नोति ।

१९ - ३९ - नामि दीर्घः यथा इह भवति अग्नीनाम्, वायूनाम् एवम् अत्र अपि प्राप्नोति षण्णाम् ।

२० - ३९ - न एषः दोषः ।

२१ - ३९ - नोपध्यायाः इति एतत् नियमार्थम् भविष्यति ।

२२ - ३९ - प्रकृतस्य एषः नियमः स्यात्. किम् च प्रकृतम् ।

२३ - ३९ - नामि इति ।

२४ - ३९ - तेन भवेत् इह नियमात् न स्यात् षण्णाम् ।

२५ - ३९ - अन्यते तन्यते अत्र अपि प्राप्नोति ।

२६ - ३९ - अथ अपि एवम् नियमः स्यात् नोपधायाः नामि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् अन्यते तन्यते ।

२७ - ३९ - षण्णाम् इति अत्र प्राप्नोति ।

२८ - ३९ - अथ अपि उभयतः नियमः स्यात् नोपधायाः एव नामि नामि एव नोपदध्यायाः इति एवम् अपि भिद्यते सुवाक् ब्राह्मणकुलम् इत अत्र अपि प्राप्नोति ।

२९ - ३९ - एवम् तर्हि ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् ।

३० - ३९ - किम् कृतम् भवति ।

३१ - ३९ - द्वितीया षष्ठी प्रादुः भाव्यते ।

३२ - ३९ - तत्र कामचारः गृह्यमाणेन वा अचम् विशेषयितुम् अचा वा गृह्यमाणः ।

३३ - ३९ - यावता कामचारः इह तावत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेन अचम् विशेषयिष्यामः एषाम् अचः दीर्घः भवति इति ।

३४ - ३९ - इह इदानीम् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अचा गृह्यमाणम् विशेषयिष्यामः नपुंसकस्य ह्रस्वः भवति अचः ।

३५ - ३९ - अजन्तस्य इति ।

३६ - ३९ - अकृत्सार्वधातुकयोः दीर्घः अचः ।

३७ - ३९ - अजन्तस्य इति ।

३८ - ३९ - नामि दीर्घः भवति अचः ।

३९ - ३९ - अजन्तस्य इति ।

१ - १५ - इह कस्मात् न भवति द्यौः, पन्थाः, सः इति ।

२ - १५ - सञ्ज्ञया विधाने नियमः ।

३ - १५ - सञ्ज्ञया ये विधीयन्ते तेषु नियमः ।

४ - १५ - किम् वक्तव्यम् एतत् ।

५ - १५ - न हि ।

६ - १५ - कथम् अनुच्यमानम् गंस्यते ।

७ - १५ - अच् इति वर्तते ।

८ - १५ - तत्र एवम् अभिसम्बन्धः करिष्यते अचः अच् भवति ह्रस्वः दीर्घः प्लुतः इति एवम् भाव्यमनः इति ।

९ - १५ - अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किम् प्रयोजनम् ।

१० - १५ - अज्ग्रहणम् संयोगाच्समुदायनिवृत्त्यर्थम् ।

११ - १५ - अज्ग्रहणम् क्रियते संयोग्निवृत्त्यर्थम् अच्समुदायनिवृत्त्यर्थम् च ।

१२ - १५ - संयोग्निवृत्त्यर्थम् तावत् प्रतक्ष्य प्ररक्ष्य ।

१३ - १५ - ह्रस्वस्य पिति कृति तुक् इति तुक् मा भूत् इति ।

१४ - १५ - अच्समुदायनिवृत्त्यर्थम् तितौच्छत्रम्, तितौच्छाया ।

१५ - १५ - दीर्घात् पदान्तात् वा इति विभाषा मा भूत् ।

१ - २३ - किम् षष्ठीनिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न ।

२ - २३ - किम् च अतः ।

३ - २३ - यदि अनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति परिभाषा न प्रकल्पते ।

४ - २३ - कथम् हलः नाम स्वरप्राप्तिः स्यात् ।

५ - २३ - एवम् तर्हि निवृत्तम् ।

६ - २३ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

७ - २३ - अथ प्रथमानिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न ।

८ - २३ - किम् च अर्थः अनुवृत्त्या ।

९ - २३ - बाढम् अर्थः यदि एते व्यञ्जनस्य अपि गुणाः लक्ष्यन्ते ।

१० - २३ - ननु च प्रत्यक्षम् उपलभ्यन्ते इषे त्वा ऊर्जे त्वा ।

११ - २३ - न एते व्यञ्जनस्य गुणाः ।

१२ - २३ - अचः एते गुणाः ।

१३ - २३ - तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते ।

१४ - २३ - तत् यथा ।

१५ - २३ - द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते ।

१६ - २३ - कुतः नु खलु एतत् अचः एते गुणाः ।

१७ - २३ - तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते इति ।

१८ - २३ - न पुनः व्यञ्जनस्य एते गुणाः स्युः ।

१९ - २३ - तत्सामीप्यात् तु अच् अपि तद्गुणः उपलभ्यते इति ।

२० - २३ - अन्तरेण अपि व्यञ्जनम् अचः एव एते गुणाः लक्ष्यन्ते ।

२१ - २३ - न पुनः अन्तरेण अचम् व्यञ्जनस्य उच्चारणम् अपि भवति ।

२२ - २३ - अन्वर्थम् खलु अपि निर्वचनम् स्वयम् राजन्ते स्वराः ।

२३ - २३ - अन्वक् भवति व्यञ्जनम् इति ।

१ - २८ - उच्चनीचस्य अनवस्थितत्वात् सञ्ज्ञाप्रसिद्धिः ।

२ - २८ - इदम् उच्चनीचम् अनवस्थितपदर्थकम् ।

३ - २८ - तत् एव हि कम् चित् प्रति उच्चैः भवति कम् चित् प्रति नीचैः ।

४ - २८ - एवम् कम् चित् कः चित् अधीयानम् आह किम् उच्चैः रोरूयसे ।

५ - २८ - अथ नीचैः वर्तताम् इति ।

६ - २८ - तम् एव तथा अधीयानम् अपरः आह किम् अन्तर्दन्तकेन अधीषे ।

७ - २८ - उच्चैः वर्तताम् इति ।

८ - २८ - एवम् उच्चनीचम् अनवस्थितपदर्थकम् ।

९ - २८ - तस्य अनवस्थानात् सञ्ज्ञायाः अप्रसिद्धिः ।

१० - २८ - एवम् तर्हि लक्षणम् करिष्यते आयामः दारुण्यम् अणुता खस्य इति उच्चैःकराणि शब्दस्य ।

११ - २८ - आयामः गात्राणाम् निग्रहः ।

१२ - २८ - दारुण्यम् स्वरस्य दारुणता रूक्षता ।

१३ - २८ - अणुता खस्य कण्ठस्य संवृतता ।

१४ - २८ - उच्चैःकराणि शब्दस्य ।

१५ - २८ - अथ नीचैःकराणि शब्दस्य ।

१६ - २८ - अन्ववसर्गः मार्दवम् उरुता खस्य इति नीचैःकराणि शब्दस्य ।

१७ - २८ - अन्ववसर्गः गात्राणाम् शिथिलता ।

१८ - २८ - मार्दवम् स्वरस्य मृदुता स्निग्धता ।

१९ - २८ - उरुता खस्य महत्ता कण्ठस्य ।

२० - २८ - इति नीचैःकराणि शब्दस्य ।

२१ - २८ - एतत् अपि अनैकान्तिकम् ।

२२ - २८ - यत् अल्पप्राणस्य सर्वोच्चैः तत् महाप्राणस्य सर्वनीचैः ।

२३ - २८ - सिद्धम् तु समानप्रक्रमवचनात् ।

२४ - २८ - सिद्धम् एतत् ।

२५ - २८ - कथम् ।

२६ - २८ - समाने प्रक्रमे इति वक्तव्यम् ।

२७ - २८ - कः पुनः प्रक्रमः ।

२८ - २८ - उरः कण्ठः शिरः इति ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:14.3300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गोफणें

  • स्त्रीन . दगड मारण्यासाठीं दोरीची , चामडयाची , रबराची केलेली विशेष प्रकारची आकृति , साधन ; दगड फेंकण्याचें साधन ; एक हत्यार . हातीं घेवोनि गोफणा । - कथा ६ . १९ . ५३ . [ सं . गुंफन ; प्रा . गुंफण ] 
  • ०गुंडा गोटा - पु . १ गोफणींतून मारावयाचा दगड . २ ( ल . ) हुषार , चुणचुणीत माणूस . गोफणणें - उक्रि . गोफणीनें फेंकणें , मारणें ; गोफण मारणें . एकें चिंतामणि गोफणिला । तो येऊन अंगणांत पडिला । - ह ४ . २१ . 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.