संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भट्टिकाव्यं|प्रसन्न काण्ड:| सर्ग १२ प्रसन्न काण्ड: सर्ग १० सर्ग ११ सर्ग १२ सर्ग १३ सर्ग १४ प्रसन्न काण्ड: - सर्ग १२ `भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे. Tags : poemकाव्यभट्टिकाव्यसंस्कृत सर्ग १२ Translation - भाषांतर १-१ अथा ऽस्तमासेदुषि मन्द-कान्तौ पुण्य-क्षयेणेव निधौ कलानाम्१-२ समाललम्बे रिपु-मित्र-कल्पैः पद्मैः प्रहासः कुमुदैर् विषादः२-१ दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम्२-२ बद्धा ऽनुरागो ऽनुपपात तूर्णं तारा-गणः संभृत-शुभ्र-कीर्तिः.३-१ क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा३-२ लङ्काऽङ्गनानामवबोध-काले लुलामनारुह्य गतो ऽस्तमिन्दुः.४-१ मानेन तल्पेष्व-यथा-मुखीना मिथ्या-प्रसुप्तैर् गमित-त्रियामाः४-२ स्त्रीभिर् निशाऽतिक्रम-विह्वलाभिर् दृष्टे ऽपि दोषे पतयो ऽनुनीताः.५-१ ईर्श्या-विरुग्णाः स्थिर-बद्ध-मूला निरस्त-निःशेष-शुभ-प्रतानाः५-२ आप्यायिता नेत्र-जल-प्रसेकैः प्रेम-द्रुमाः संरुरुहुः प्रियाणाम्.६-१ ततः समाशङ्कित-विप्रयोगः पुनर्-नवीभूत-रसो ऽवितृष्णः६-२ स्मरस्य सन्तं पुनरुक्त-भावं ना ऽऽवर्तमानस्य विवेद लोकः.७-१ वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रिय-संभवेन७-२ संकोचमेवा ऽसहमानमस्था- द-शक्त-वद् वञ्चित-मानि चक्षुः८-१ पीने भटस्योरसि वीक्ष्य भुग्नांस् तनु-त्वचः पाणि-रुहान् सु-मध्या८-२ इच्छा-विभङ्गाऽऽकुल-मानसत्वाद् भर्त्रे नखेभ्यश् च चिरं जुजूरे.९-१ स्रस्ताऽङ्ग-चेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बु-रोमोद्गम-गम्य-जीवः९-२ अ-शेष-नष्ट-प्रतिभा-पटुत्वो गाढोपगूढो दयितैर् जनो ऽभूत्.१०-१ तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य,१०-२ किं तत् कथं वेत्युपलब्ध-संज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः.११-१ वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर् घटयन्न-मन्दम्११-२ स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा.१२-१ स्रस्ताऽङ्ग-यष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी१२-२ अनूढमाना शयने नवोढा परोपकारैक-रसैव तस्थौ.१३-१ आलिङ्गितायाः सहसा त्रपा-वांस् त्रासाऽभिलाषाऽनुगतो रताऽऽदौ१३-२ विश्वासिताया रमणेन वध्वा विमर्द-रम्यो-मदनो बभूव.१४-१ सामोन्मुखेना ऽऽच्छुरिता प्रियेण दत्ते ऽथ काचित् पुलकेन भेदे१४-२ अन्तः-प्रकोपाऽपगमाद् विलोला वशीकृता केवल-विक्रमेण.१५-१ गुरुर् दधाना परुष-त्वमन्या कान्ता ऽपि कान्तेन्दु-कराऽभिमृष्टा१५-२ प्रह्लादिता चन्द्र-शिलेव तूर्णं क्षोभात् स्रवत्-स्वेदजला बभूव.१६-१ शशाङ्क-नाथाऽपगमेन धूम्रां मूर्च्छा-परीतामिव निर्-विवेकाम्१६-२ ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः१७-१ अ-वीत-तृष्णो ऽथ परस्परेण क्षणादिवाऽऽयात-निशाऽवसानः१७-२ दुःखेन लोकः परवानिवा ऽगात् समुत्सुकः स्वप्न-निकेतनेभ्यः१८-१ अर्धोत्थिताऽऽलिङ्गित-सन्निमग्नो रुद्धः पुनर् यान् गमने ऽनभीप्सुः१८-२ व्याजेन निर्याय पुनर् निवृत्तस् त्यक्ताऽन्य-कार्यः स्थित एव कश्चित्.१९-१ तालेन संपादित-साम्य-शोभं शुभाऽवधानं स्वर-बद्ध-रागम्१९-२ पदैर् गताऽर्थं नृप-मन्दिरेषु प्रातर् जगुर् मङ्गल-वत् तरुण्यः.२०-१ दुरुत्तरे पङ्क इवा ऽन्धकारे मग्नं जगत् सन्तत-रश्मि-रज्जुः२०-२ प्रनष्ट-मूर्ति-प्रविभागमुद्यन् प्रत्युज्जहारेव ततो विवस्वान्.२१-१ पीतौष्ठ-रागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर् मुखानि२१-२ प्रातः कृताऽर्थानि यथा विरेजुस् तथा न पूर्वेद्युरलंकृतानि.२२-१ प्रजागराऽऽताम्र-विलोचनाऽन्ता निरञ्जनाऽलक्तक-पत्र-लेखाः२२-२ तुल्या इवा ऽऽसन् परिखेद-तन्व्यो वास-च्युताः सेवित-मन्मथाभिः२३-१ आबद्ध-नेत्राऽञ्जन-पङ्क-लेशस् ताम्बूल-रागं बहुलं दधानः२३-२ चकार कान्तो ऽप्यधरो ऽङ्गनानां सहोषितानां पतिभिर् लघुत्वम्.२४-१ चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूल-रक्तं च स-रागमोष्ठम्२४-२ कुर्वन् स-वासं च सु-गन्धि वक्त्रं चक्रे जनः केवल-पक्ष-पातम्.२५-१ क्षतैरसंचेतित-दन्त-लब्धैः संभोग-काले ऽवगतैः प्रभाते२५-२ अ-शङ्कता ऽन्योन्य-कृतं व्यलीकं वियोग-बाह्यो ऽपि जनो ऽतिरागात्२६-१ नेत्रेषुभिः संयुत-पक्ष्म-पत्रैः कर्णाऽन्त-कृष्टैरुरु-केश-शूलाः२६-२ स्तनोरु-चक्रास् तत-कर्ण-पाशाः स्त्री-योद्ध-मुख्या जयिनो विचेरुः२७-१ पयो-धरांश् चन्दन-पङ्क-दिग्धान् वासांसि चा ऽमृष्ट-मृजानि दृष्ट्वा२७-२ स्त्रीणां स-पत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर् मनोभिः२८-१ स्मराऽऽतुरे चेतसि लब्ध-जन्मा रराज लोलोऽपि गुणाऽपहार्यः२८-२ कुतूहलान् नेत्र-गवाक्ष-संस्थः पश्यन्निवा ऽन्योन्य-मुखानि रागः२९-१ गते ऽतिभूमिं प्रणये प्रयुक्ता- न-बुद्धि-पूर्वं परिलुप्तसंज्ञः२९-२ आत्माऽनुभूतानपि नोपचारान् स्मराऽऽतुरः संस्मरति स्म लोकः३०-१ वस्त्रैरनत्युल्बण-रम्य-वर्णैर् विलेपनैः सौरभ-लक्ष्मणीयैः३०-२ आस्यैश् च लोकः परितोष-कान्तै- रसूचयल् लब्ध-पदं रहस्यम्.३१-१ प्रातस्तरां चन्दन-लिप्त-गात्राः प्रच्छाद्य हस्तैरधरान् वदन्तः३१-२ शाम्यन्-निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्.३२-१ साम्नैव लोके विजिते ऽपि वामे ! किमुद्यतं भ्रू-धनुर्-प्रसह्यम्,३२-२ हन्तुं क्षमो वा वद लोचनेषुर् दिग्धो विषेणेव किमञ्जनेन.३३-१ दन्तच्छदे प्रज्वलिताऽग्नि-कल्पे ताम्बूल-रागस् तृण-भार-तुल्यः३३-२ न्यस्तः किमित्यूचुरुपेत-भावा गोष्ठीषु नारीस् तरुणीर् युवानः.३४-१ सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संताप-हराण्युरूणि३४-२ प्रबुद्ध-नारी-मुख-पङ्क-जानि प्रातः सरांसीव गृहाणि रेजुः.३५-१ संमृष्ट-सिक्ताऽर्चित-चारु-पुष्पै- रामोद-वद्-द्रव्य-सुगन्ध-भागैः३५-२ लक्ष्मीर् विजिग्ये भवनैः स-भृङ्गैः सेव्यस्य देवैरपि नन्दनस्य.३६-१ अक्ष्णोः पतन् नील-सरो-ज-लोभाद् भृङ्गः करेणा ऽल्प-धिया निरस्तः३६-२ ददंश ताम्राऽम्बु-रुहाऽभिसन्धिस् त्र्णाऽऽतुरः पाणि-तले ऽपि धृष्णुः.३७-१ विलोल-तां चक्षुषि हस्त-वेपथुं भ्रुवोर् विभङ्गं स्तन-युग्म-वल्गितम्३७-२ विभूषणानां क्वणितं च षट्-पदो गुरुर् यथा नृत्य-विधौ समादधे.३८-१ अथा ऽनुकूलान् कुल-धर्म-संपदो विधाय वेशान् सु-दिवः पुरी-जनः.३८-२ प्रबोध-काले शात-मन्यु-विद्विषः प्रचक्रमे राज-निकेतनं प्रति.३९-१ शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता वेगाज् जलौघाः पुर-मन्दिरेभ्यः३९-२ आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त.४०-१ प्रबोध-कालात् त्रिदशेन्द्र-शत्रोः प्रागूर्ध्व-शोषं परिशुष्यमाणाः४०-२ हीना महान्तश् च सम-त्वमीयुर् द्वास-स्थैरवज्ञा-पुरुषाऽक्षि-दृष्ताः.४१-१ गुरूरु-चञ्चत्-कर-कर्ण-जिह्वै- रवज्ञया ऽग्राऽङ्गुलि-संगृहीतैः४१-२ रक्षाम्स्यनायास-हृतैरुपास्थुः कपोल-लीनाऽलि-कुलैर् गजेन्द्रैः.४२-१ निकृत्त-मत्त-द्विप-कुम्भ-मांसैः संपृक्त-मुक्तैर् हरयोऽग्र-पादैः४२-२ आनिन्यिरे श्रेणिकृतास् तथा ऽन्यैः परस्परं वालधि-सन्निबद्धाः४३-१ उपेक्षिता देव-गणैस् त्रसद्भिर् निषा-चरैर् वीत-भयैर् निकृत्ताः४३-२ तस्मिन्नदृश्यन्त सुर-द्रुमाणां स-जाल-पुष्प-स्तबकाः प्रकीर्णाः.४४-१ निराकरिष्णुर् द्विज-कुञ्जराणां तृणीकृताऽशेष-गुणोऽति-मोहात्४४-२ पापाऽशयानभ्युदयाऽर्थमार्चीत् प्राग् ब्रह्म-रक्षः-प्रवरान् दशाऽऽस्यः४५-१ मायाविभिस् त्रास-करैर् जनाना- माप्तैरुपादान-परैरुपेतः४५-२ सतां विघातैक-रसैरविक्षत् सदः परिक्षोभित-भूमि-भागम्.४६-१ विघृत-निशित-शस्त्रैस् तद् युतं यातुधानै- रुरु-जठर-मुखीभिः संकुलं राक्षसीभिः४६-२ श्वगणि-शत-विकीर्णं वागुरा-वन् मृगीभिर् वनमिव स-भयाभिर् देव-बन्दीभिरासीत्.४७-१ जलद इव तडित्वान् प्राज्य-रत्न-प्रभाभिः प्रति-ककुभमुदस्यन् निस्वनं धीर-मन्द्रम्४७-२ शिखरमिव सुमेरोरासनं हैममुच्चैर् विविध-मणि-विचित्रं प्रोन्नतं सो ऽध्यतिष्थत् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP