प्रकीर्ण-काण्डः - सर्ग २

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च
१-२ निर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श.
२-१ तरङ्ग-सङ्गाच् चपलैः पलाशैर् ज्वाला-श्रियं साऽतिशयां दधन्ति
२-२ स-धूम-दीप्ताऽग्नि-रुचीनि रेजुस् ताम्रोत्पलान्याकुल-षट्-पदानि.
३-१ बिम्बाऽऽगतैस् तीर-वनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः
३-२ कूलानि साऽऽमर्षतयेव तेनुः सरोज-लक्ष्मीं स्थल-पद्म-हासैः.
४-१ निशा-तुषारैर् नयनाऽम्बु-कल्पैः पत्रा-ऽन्त-पर्यागलदच्छ-बिन्दुः
४-२ उपारुरोदेव नदत्-पतङ्गः कुमुद्वतीं तीर-तरुर् दिनाऽऽदौ.
५-१ वनानि तोयानि च नेत्र-कल्पैः पुष्पैः सरोजैश् च निलीन-भृङ्गैः
५-२ परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवाऽऽदरेण.
६-१ प्रभात-वाताहऽऽति-कम्पिताऽऽकृतिः कुमुद्वती-रेणु-पिशङ्ग-विग्रहम्
६-२ निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहते ऽन्य-सङ्गमम्.
७-१ दत्ताऽवधानं मधु-लेहि-गीतौ प्रशान्त-चेष्टं हरिणं जिघांसुः
७-२ आकर्णयन्नुत्सुक-हंस-नादान् लक्ष्ये समाधिं न दधे मृगावित्.
८-१ गिरेर् नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम्
८-२ सरिन्-मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्.
९-१ गर्जन् हरिः साऽम्भसि शैल-कुञ्जे प्रतिध्वनीनात्म-कृतान् निशम्य
९-२ क्रमं बबन्ध क्रमितुं स-कोपः प्रतर्कयन्नन्य-मृगेन्द्र-नादान्.
१०-१ अदृक्षता ऽम्भांसि नवोत्पलानि, रुतानि चा ऽश्रोषत षट्-पदानाम्,
१०-२ आघ्रायि वान् गन्ध-वहः सु-गन्धस् तेनाऽरविन्द-व्यतिषङ्ग-वांश् च.
११-१ लताऽनुपातं कुसुमान्यगृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च,
११-२ कुतूहलाच्, चारु-शिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त.
१२-१ तिग्मांशु-रश्मिच्-छुरितान्य-दूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत्
१२-२ गभस्ति-धाराभिरिव द्रुतानि तेजांसि भानोर् भुवि संभृतानि.
१३-१ दिग्-व्यापिनीर् लोचन-लोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः
१३-२ ऋज्वाऽऽयताः शस्य-विशेष-पङ्क्तीस् तुतोष पश्यन् वितृणाऽन्तरालाः.
१४-१ वियोग-दुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः
१४-२ आहार्य-शोभा-रहितैरमायै- रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान्
१५-१ स्त्री-भूषणं चेष्टितम-प्रगल्भं चारूण्य-वक्राण्यपि वीक्षितानि
१५-२ ऋजूंश्च विश्वास-कृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य.
१६-१ विवृत्त-पार्श्वं रुचिराऽङ्गहारं समुद्वहच्-चारु-नितम्ब-रम्यम्
१६-२ आमन्द्र-मन्थ-ध्वनि-दत्त-तालं गोपाऽङ्गना-नृत्यमनन्दयत् तम्.
१७-१ विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्य
१७-२ मेघाऽत्ययोपात्त-वनोपशोभं कदम्बकं वातमजं मृगाणाम्.
१८-१ सिताऽरविन्द-प्रचयेषु च लीनाः संसक्त-पेणेषु च सैकतेषु
१८-२ कुन्दाऽवदाताः कलहंस-मालाः प्रतीयीरे श्रोत्र-सुखैर् निनादैः.
१९-१ न तज् जलं, यन् न सु-चारु-पङ्कजं, न पङ्कजं तद्, यद-लीन-षट्-पदम्,
१९-२ न षट्-पदोऽसौ, न जुगुञ्ज यः कलं॑ न गुञ्जितं तन्, न जहार यन् मनः.
२०-१ तं यायजूकाः सह भिक्षु-मुख्यैस् तपः-कृशाः शान्त्युदकुम्भ-हस्ताः,
२०-२ यायावराः पुष्प-फलेन चा ऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम्.
२१-१ विद्यामथैनं विजयां जयां च रक्षो-गणं क्षिप्नुम-विक्षताऽऽत्मा
२१-२ अध्यापिपद् गाधि-सुतो यथावन् निघातयिष्यन् युधि यातुधानान्.
२२-१ आयोधने स्थायुकमस्त्रजात- ममोघमभ्यर्ण-महाऽऽहवाय
२२-२ ददौ वधाय क्षणदाचराणां तस्मै मुनिः श्रेयसि जागरूकः
२३-१ तं विप्र-दर्शं कृत-घात-यत्ना यान्तं वने रात्रिचरी डुढौके,
२३-२ जिघांसु-वेदं धृत-भासुराऽस्त्रम् तां ताडकाऽऽख्यां निजघान रामः.
२४-१ अथा ऽऽलुलोके हुत-धूम-केतु- शिखाऽञ्जन-स्निग्ध-समृद्ध-शाखम्
२४-२ तपोवनं प्राध्ययनाऽभिभूत- समुच्चरच्-चारु-पतक्त्रि-शिञ्जम्.
२५-१ क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा, विशश्वसे पक्षि-गणैः समन्तात्,
२५-२ नन्नम्यमानाः फल-दित्सयेव चकाशिरे तत्र लता विलोलाः.
२६-१ अपूपुजन् विष्टर-पाद्य-माल्यै- रातिथ्य-निष्णा वन-वासि-मुख्याः,
२६-२ प्रत्यग्रहीष्टां मधुपर्क-मिश्रं तावासनाऽऽदि क्षिति-पालपुत्रौ.
२७-१ दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर् भुवनस्य भारम्,
२७-२ हवींषि संप्रत्यपि रक्षतं, तौ तपोधनैरित्थमभाषिषाताम्.
२८-१ तान् प्रत्यवादीदथ राघ्वोऽपि--, यथेप्सितं प्रस्तुत कर्म धर्म्यम्,
२८-२ तपो-मरुद्धिर् भवतां शराऽग्निः संधुक्ष्यतां नोऽरि-समिन्धनेषु.
२९-१ प्रतुष्टुवुः कर्म ततः प्रक्लॄॠप्तैस् ते यज्ञियैर् द्रव्य-गणैर् यथावत्,
२९-२ दक्षिण्य-दिष्टं कृतमार्त्विजीनैस् तद् यातुधानैश् चिचिते प्रसर्पत्.
३०-१ आपिङ्ग-रूक्षोर्ध्व-शिरस्य-बालैः शिराल-जङ्घैर् गिरि-कूट-दघ्नैः
३०-२ ततः क्षपाऽटैः पृथु-पिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः.
३१-१ अधिज्य-चापः स्थिर-बाहु-मुष्टि- रुदञ्चिताऽक्षोऽञ्चित-दक्षिणोरुः
३१-२ तान् लक्ष्मणः सन्नत-वाम-जङ्घो जघान शुद्धेषुर-मन्द-कर्षी.
३२-१ गाधेय-दिष्टं विरसं रसन्तं रामो ऽपि मायाचणमस्त्रचुञ्चुः
३२-२ स्थास्नुं रणे स्मेर-मुखो जगाद मारीचमुच्चैर् वचनं महाऽर्थम्.
३३-१ आत्मंभरिस् त्वंपिशितैर् नराणां फलेग्रहीन् हंसि वनस्पतीनाम्,
३३-२ शौवस्तिकत्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्.
३४-१ अद्मो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेत-नराऽधिवासम्,
३४-२ धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेद-वृत्ते.
३५-१ धर्मोऽस्ति सत्यं तव राक्षसाऽय- मन्यो व्यतिस्ते तु ममाऽपि धर्मः,
३५-२ ब्रह्म-द्विषस् ते प्रणिहन्मि येन, राजन्य-वृत्तिर् धृत-कार्मुकेषुः.
३६-१ इत्थं-प्रवादं युधि संप्रहारं प्रचक्रतू राम-निशा-विहारौ,
३६-२ तृणाय मत्वा रघु-नन्दनो ऽथ बाणेन रक्षः प्रधनान् निरास्थत्.
३७-१ जग्मुः प्रसादं द्विज-मानसानि, द्यौर् वर्षुका पुष्प-चयं बभूव,
३७-२ निर्-व्याजमिज्या ववृते।
वचश् च भूयो बभाषे मुनिना कुमारः
३८-१ महीय्यमाना भवता ऽतिमात्रं सुराऽध्वरे घस्मर-जित्वरेण
३८-२ दिवोऽपि वज्राऽऽयुध-भूषणाया ह्रिणीयते वीर-वती न भूमिः.
३९-१ बलिर् बबन्धे, जलधिर् ममन्थे, जह्रेऽमृतं, दैत्य-कुलं विजिग्यो,
३९-२ कल्पाऽन्त-दुःस्था वसुधा तथोहे येनैष भारोऽति-गुरुर् न तस्य.
४०-१ इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन् मैथिल-यज्ञ-भूमिम्
४०-२ रामं मुनिः प्रीत-मना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्.
४१-१ एतौ स्म मित्रा-वरुणौ किमेतौ, किमश्विनौ सोम-रसं पिपासू,
४१-२ जनं समस्तं जनकाऽऽश्रम-स्थं रूपेण तावौजिहतां नृ-सिंहौ.
४२-१ अजिग्रहत् तं जनको धनुस् तद् "येनाऽर्दिदद् दैत्य-पुरं पिनाकी",
४२-२ जिज्ञासमानो बलमस्य बाह्वोर्।
हसन्नभाङ्क्ष्वीद् रघु-नन्दनस् तत्.
४३-१ ततो नदी-ष्णान् पथिकान् गिरि-ज्ञा- नाह्वायकान् भूमि-पतेरयोध्याम्
४३-२ दित्सुः सुतां योध-हरैस् तुरङ्गैर् व्यसर्जयन् मैथिल-मर्त्य-मुख्यः.
४४-१ क्षिप्रं ततो ऽध्वन्य-तुरङ्ग-यायी यविष्ठ-वद् वृद्ध-तमो ऽपि राजा
४४-२ आख्यायकेभ्यः श्रुत-सूनु-वृत्ति- र-ग्लान-यानो मिथिलामगच्छत्.
४५-१ वृन्दिष्ठमार्चीद् वसुधा-धिपानां तं प्रेष्ठमेतं गुरु-वद् गरिष्ठम्
४५-२ सदृङ्-महान्तं सुकृताऽधिवासं बंहिष्ठ-कीर्तिं यशसा वरिष्ठम्.
४६-१ त्रि-वर्ग-पारीणमसौ भवन्त- मध्यासयन्नासनमेकमिन्द्रः
४६-२ विवेक-दृश्व-त्वमगात् सुराणां, तं मैथिलो वाक्यमिदं बभाषे.
४७-१ हिरण्मयी साल-लतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिर-प्रभा
४७-२ शशाङ्कं-कान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली.
४८-१ लब्धा ततो विश्वजनीन-वृत्तिस्- तामात्मनीनामुदवोढ रामः
४८-२ सद्-रत्न-मुक्ता-फल-भर्म-शोभां संबंहयन्तीम् रघु-वर्ग्य-लक्ष्मीम्.
४९-१ सु-प्रातमासादित-संमदं तद् वन्दारुभिः संस्तुतमभ्ययोध्यम्
४९-२ अश्वीय-राजन्यक-हास्तिकाऽऽढ्य- मगात् स-राजं बलमध्वनीनम्.
५०-१ विशङ्कटो वक्षसि बाण-पाणिः संपन्न-ताल-द्वयसः पुरस्तात्
५०-२ भीष्मो धनुष्मानुपजान्वरत्नि- रैति स्म रामः पथि जामदग्न्यः.
५१-१ उच्चैरसौ राघवमाह्वतेदं धनुः स-बाणं कुरु, साऽतियासीः.
५१-२ पराक्रम-ज्ञः प्रिय-सन्ततिस् तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूचे.
५२-१ अनेक-शो निर्जित-राजकस् त्वं, पित् नतार्प्सीर् नृप-रक्त-तोयैः,
५२-२ संक्षिप्य संरम्भम-सदू-विपक्षं, का ऽऽस्था ऽर्भके ऽस्मिंस्तव राम ! रामे.
५३-१ अजीगणद् दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारः
५३-२ धनुर् व्यकार्क्षीद् गुरु-बाण-गर्भं, लोकानलावीद् विजितांश्च तस्य.
५४-१ जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्य-शनैर्-शङ्कम्
५४-२ वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेक-मुखानि मार्गान्.
५५-१ अथ पुरु-जव-योगान् नेदयद् दूर-संस्थं दवयदति-रयेण प्राप्तमुर्वी-विभागम्
५५-२ क्लम-रहितमचेतन् नीरजीकारित-क्ष्मां, बलमुपहित-शोभां तूर्णमायादयोध्याम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP