संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|निदानस्थान| अध्याय १० निदानस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ निदानस्थान - अध्याय १० आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय १० Translation - भाषांतर प्रमेहा विंशतिस् तत्र श्लेष्मतो दश पित्ततः ।षट् चत्वारो ऽनिलात् तेषां मेदो-मूत्र-कफावहम् ॥१॥अन्न-पान-क्रिया-जातं यत् प्रायस् तत् प्रवर्तकम् ।स्वाद्व्-अम्ल-लवण-स्निग्ध-गुरु-पिच्छिल-शीतलम् ॥२॥नव-धान्य-सुरानूप-मांसेक्षु-गुड-गो-रसम् ।एक-स्थानासन-रतिः शयनं विधि-वर्जितम् ॥३॥वस्तिम् आश्रित्य कुरुते प्रमेहान् दूषितः कफः ।दूषयित्वा वपुः-क्लेद-स्वेद-मेदो-रसामिषम् ॥४॥स्वेद-मेदो-वसामिषम् पित्तं रक्तम् अपि क्षीणे कफादौ मूत्र-संश्रयम् ।धातून् वस्तिम् उपानीय तत्-क्षये ऽपि च मारुतः ॥५॥साध्य-याप्य-परित्याज्या मेहास् तेनैव तद्-भवाः ।समासम् अ-क्रिय-तया महात्यय-तयापि च ॥६॥सामान्यं लक्षणं तेषां प्रभूताविल-मूत्र-ता ।दोष-दूष्या-विशेषे ऽपि तत्-संयोग-विशेषतः ॥७॥प्रभूताकुल-मूत्र-ता मूत्र-वर्णादि-भेदेन भेदो मेहेषु कल्प्यते ।अच्छं बहु सितं शीतं निर्-गन्धम् उदकोपमम् ॥८॥मेहत्य् उदक-मेहेन किञ्-चिच् चाविल-पिच्छिलम् ।इक्षो रसम् इवात्य्-अर्थं मधुरं चेक्षु-मेहतः ॥९॥सान्द्री-भवेत् पर्युषितं सान्द्र-मेहेन मेहति ।सुरा-मेही सुरा-तुल्यम् उपर्य् अच्छम् अधो घनम् ॥१०॥संहृष्ट-रोमा पिष्टेन पिष्ट-वद् बहलं सितम् ।शुक्राभं शुक्र-मिश्रं वा शुक्र-मेही प्रमेहति ॥११॥पिष्ट-वद् बहुलं सितम् मूर्ताणून् सिकता-मेही सिकता-रूपिणो मलान् ।शीत-मेही सु-बहु-शो मधुरं भृश-शीतलम् ॥१२॥मूत्राणून् सिकता-मेही मूत्रे ऽणून् सिकता-मेही शनैः शनैः शनैर्-मेही मन्दं मन्दं प्रमेहति ।लाला-तन्तु-युतं मूत्रं लाला-मेहेन पिच्छिलम् ॥१३॥गन्ध-वर्ण-रस-स्पर्शैः क्षारेण क्षार-तोय-वत् ।नील-मेहेन नीलाभं काल-मेही मषी-निभम् ॥१४॥हारिद्र-मेही कटुकं हरिद्रा-संनिभं दहत् ।विस्रं माञ्जिष्ठ-मेहेन मञ्जिष्ठा-सलिलोपमम् ॥१५॥विस्रम् उष्णं स-लवणं रक्ताभं रक्त-मेहतः ।वसा-मेही वसा-मिश्रं वसां वा मूत्रयेन् मुहुः ॥१६॥मज्जानं मज्ज-मिश्रं वा मज्ज-मेही मुहुर् मुहुः ।हस्ती मत्त इवाजस्रं मूत्रं वेग-विवर्जितम् ॥१७॥मज्जाभं मज्ज-मिश्रं वा स-लसीकं विबद्धं च हस्ति-मेही प्रमेहति ।मधु-मेही मधु-समं जायते स किल द्वि-धा ॥१८॥मधु-मेहे मधु-समं क्रुद्धे धातु-क्षयाद् वायौ दोषावृत-पथे ऽथ-वा ।आवृतो दोष-लिङ्गानि सो ऽ-निमित्तं प्रदर्शयेत् ॥१९॥दोषावृत-पथे ऽपि वा क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-साध्य-ताम् ।कालेनोपेक्षिताः सर्वे यद् यान्ति मधु-मेह-ताम् ॥२०॥मधुरं यच् च सर्वेषु प्रायो मध्व् इव मेहति ।सर्वे ऽपि मधु-मेहाख्या माधुर्याच् च तनोर् अतः ॥२१॥अ-विपाको ऽ-रुचिश् छर्दिर् निद्रा कासः स-पीनसः ।उपद्रवाः प्रजायन्ते मेहानां कफ-जन्मनाम् ॥२२॥वस्ति-मेहनयोस् तोदो मुष्कावदरणं ज्वरः ।दाहस् तृष्णाम्लको मूर्छा विड्-भेदः पित्त-जन्मनाम् ॥२३॥वातिकानाम् उदावर्त-कम्प-हृद्-ग्रह-लोल-ताः ।शूलम् उन्निद्र-ता शोषः कासः श्वासश् च जायते ॥२४॥कण्ठ-हृद्-ग्रह-लोल-ताः शराविका कच्छपिका जालिनी विनतालजी ।मसूरिका सर्षपिका पुत्रिणी स-विदारिका ॥२५॥पुत्रिणी च विदारिका विद्रधिश् चेति पिटिकाः प्रमेहोपेक्षया दश ।संधि-मर्मसु जायन्ते मांसलेषु च धामसु ॥२६॥अन्तोन्नता मध्य-निम्ना श्यावा क्लेद-रुजान्विता ।शराव-मान-संस्थाना पिटिका स्याच् छराविका ॥२७॥अवगाढार्ति-निस्तोदा महा-वस्तु-परिग्रहा ।श्लक्ष्णा कच्छप-पृष्ठाभा पिटिका कच्छपी मता ॥२८॥स्तब्धा सिरा-जाल-वती स्निग्ध-स्रावा महाशया ।रुजा-निस्तोद-बहुला सूक्ष्म-च्छिद्रा च जालिनी ॥२९॥स्निग्ध-स्रावा महाश्रया अवगाढ-रुजा-क्लेदा पृष्ठे वा जठरे ऽपि वा ।महती पिटिका नीला विनता विनता स्मृता ॥३०॥दहति त्वचम् उत्थाने भृशं कष्टा विसर्पिणी ।रक्त-कृष्णाति-तृट्-स्फोट-दाह-मोह-ज्वरालजी ॥३१॥मान-संस्थानयोस् तुल्या मसूरेण मसूरिका ।सर्षपा-मान-संस्थाना क्षिप्र-पाका महा-रुजा ॥३२॥सर्षपी सर्षपा-तुल्य-पिटिका-परिवारिता ।पुत्रिणी महती भूरि-सु-सूक्ष्म-पिटिकाचिता ॥३३॥सर्षपा सर्षपा-तुल्य- सु-सूक्ष्म-पिटिकावृता सु-सूक्ष्म-पिटिकान्विता विदारी-कन्द-वद् वृत्ता कठिना च विदारिका ।विद्रधिर् वक्ष्यते ऽन्य-त्र तत्राद्यं पिटिका-त्रयम् ॥३४॥पुत्रिणी च विदारी च दुः-सहा बहु-मेदसः ।सह्याः पित्तोल्बणास् त्व् अन्याः संभवन्त्य् अल्प-मेदसः ॥३५॥तासु मेह-वशाच् च स्याद् दोषोद्रेको यथा-यथम् ॥३६॥प्रमेहेण विनाप्य् एता जायन्ते दुष्ट-मेदसः ॥३६॥तावच् च नोपलक्ष्यन्ते यावद् वस्तु-परिग्रहः ॥३६॥हारिद्र-वर्णं रक्तं वा मेह-प्राग्-रूप-वर्जितम् ।यो मूत्रयेन् न तं मेहं रक्त-पित्तं तु तद् विदुः ॥३७॥रक्त-पित्तं तु तं विदुः रक्त-पित्तं च तद् विदुः स्वेदो ऽङ्ग-गन्धः शिथिल-त्वम् अङ्गे शय्यासन-स्वप्न-सुखाभिषङ्गः ।हृन्-नेत्र-जिह्वा-श्रवणोपदेहो घनाङ्ग-ता केश-नखाति-वृद्धिः ॥३८॥शय्यासन-स्थान-सुखाभिलाषः शीत-प्रिय-त्वं गल-तालु-शोषो माधुर्यम् आस्ये कर-पाद-दाहः ।भविष्यतो मेह-गणस्य रूपं मूत्रे ऽभिधावन्ति पिपीलिकाश् च ॥३९॥दृष्ट्वा प्रमेहं मधुरं स-पिच्छं मधूपमं स्याद् विविधो विचारः ।संपूरणाद् वा कफ-संभवः स्यात् क्षीणेषु दोषेष्व् अनिलात्मको वा ॥४०॥संतर्पणाद् वा कफ-संभवः स्यात् स-पूर्व-रूपाः कफ-पित्त-मेहाः क्रमेण ये वात-कृताश् च मेहाः ।साध्या न ते पित्त-कृतास् तु याप्याः साध्यास् तु मेदो यदि नाति-दुष्टम् ॥४१॥साध्याश् च मेदो यदि नाति-दुष्टम् N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP