संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|निदानस्थान| अध्याय ३ निदानस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ निदानस्थान - अध्याय ३ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ३ Translation - भाषांतर भृशोष्ण-तीक्ष्ण-कट्व्-अम्ल-लवणादि-विदाहिभिः ।कोद्रवोद्दालकैश् चान्नैस् तद्-युक्तैर् अति-सेवितैः ॥१॥कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते ।ते मिथस् तुल्य-रूप-त्वम् आगम्य व्याप्नुतस् तनुम् ॥२॥पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणाद् अपि ।गन्ध-वर्णानुवृत्तेश् च रक्तेन व्यपदिश्यते ॥३॥पित्तं रक्तस्य विकृतिः प्रभवत्य् असृजः स्थानात् प्लीहतो यकृतश् च तत् ।शिरो-गुरु-त्वम् अ-रुचिः शीतेच्छा धूमको ऽम्लकः ॥४॥छर्दिश् छर्दित-बैभत्स्यं कासः श्वासो भ्रमः क्लमः ।लोह-लोहित-मत्स्याम-गन्धास्य-त्वं स्वर-क्षयः ॥५॥रक्त-हारिद्र-हरित-वर्ण-ता नयनादिषु ।नील-लोहित-पीतानां वर्णानाम् अ-विवेचनम् ॥६॥स्वप्ने तद्-वर्ण-दर्शि-त्वं भवत्य् अस्मिन् भविष्यति ।ऊर्ध्वं नासाक्षि-कर्णास्यैर् मेढ्र-योनि-गुदैर् अधः ॥७॥कुपितं रोम-कूपैश् च समस्तैस् तत् प्रवर्तते ।ऊर्ध्वं साध्यं कफाद् यस्मात् तद् विरेचन-साधनम् ॥८॥बह्व्-औषधं च पित्तस्य विरेको हि वरौषधम् ।अनुबन्धी कफो यश् च तत्र तस्यापि शुद्धि-कृत् ॥९॥कषायाः स्वादवो ऽप्य् अस्य विशुद्ध-श्लेष्मणो हिताः ।किम् उ तिक्ताः कषाया वा ये निसर्गात् कफापहाः ॥१०॥अधो याप्यं चलाद् यस्मात् तत् प्रच्छर्दन-साधनम् ।अल्पौषधं च पित्तस्य वमनं न वरौषधम् ॥११॥अनुबन्धी चलो यश् च शान्तये ऽपि न तस्य तत् ।कषायाश् च हितास् तस्य मधुरा एव केवलम् ॥१२॥कफ-मारुत-संसृष्टम् अ-साध्यम् उभयायनम् ।अ-शक्य-प्रातिलोम्य-त्वाद् अ-भावाद् औषधस्य च ॥१३॥न हि संशोधनं किञ्-चिद् अस्त्य् अस्य प्रतिलोम-गम् ।शोधनं प्रतिलोमं च रक्त-पित्ते भिषग्-जितम् ॥१४॥अस्त्य् अस्य प्रतिलोमनम् अस्त्य् अस्य प्रतिलोमकम् एवम् एवोपशमनं सर्व-शो नास्य विद्यते ।संसृष्टेषु हि दोषेषु सर्व-जिच् छमनं हितम् ॥१५॥तत्र दोषानुगमनं सिरास्र इव लक्षयेत् ।उपद्रवांश् च विकृति-ज्ञानतस् तेषु चाधिकम् ॥१६॥आशु-कारी यतः कासस् तम् एवातः प्रवक्ष्यति ।पञ्च कासाः स्मृता वात-पित्त-श्लेष्म-क्षत-क्षयैः ॥१७॥तम् एवातः प्रचक्ष्यते तम् एवातः प्रचक्षते क्षयायोपेक्षिताः सर्वे बलिनश् चोत्तरोत्तरम् ।तेषां भविष्यतां रूपं कण्ठे कण्डूर् अ-रोचकः ॥१८॥बलिनश् च यथोत्तरम् शूक-पूर्णाभ-कण्ठ-त्वं तत्राधो विहतो ऽनिलः ।ऊर्ध्वं प्रवृत्तः प्राप्योरस् तस्मिन् कण्ठे च संसजन् ॥१९॥शिरः-स्रोतांसि संपूर्य ततो ऽङ्गान्य् उत्क्षिपन्न् इव ।क्षिपन्न् इवाक्षिणी पृष्ठम् उरः पार्श्वे च पीडयन् ॥२०॥प्रवर्तते स वक्त्रेण भिन्न-कांस्योपम-ध्वनिः ।हेतु-भेदात् प्रतीघात-भेदो वायोः स-रंहसः ॥२१॥यद् रुजा-शब्द-वैषम्यं कासानां जायते ततः ।कुपितो वातलैर् वातः शुष्कोरः-कण्ठ-वक्त्र-ताम् ॥२२॥कुपितो वातलैर् वायुः हृत्-पार्श्वोरः-शिरः-शूलं मोह-क्षोभ-स्वर-क्षयान् ।करोति शुष्कं कासं च महा-वेग-रुजा-स्वनम् ॥२३॥करोति शुष्क-कासं च सो ऽङ्ग-हर्षी कफं शुष्कं कृच्छ्रान् मुक्त्वाल्प-तां व्रजेत् ।पित्तात् पीताक्षि-कफ-ता तिक्तास्य-त्वं ज्वरो भ्रमः ॥२४॥पित्तासृग्-वमनं तृष्णा वैस्वर्यं धूमको ऽम्लकः ।प्रततं कास-वेगेन ज्योतिषाम् इव दर्शनम् ॥२५॥वैस्वर्यं धूमको मदः कफाद् उरो ऽल्प-रुङ् मूर्ध-हृदयं स्तिमितं गुरु ।कण्ठोपलेपः सदनं पीनस-च्छर्द्य्-अ-रोचकाः ॥२६॥कण्ठास्य-लेपः सदनं रोम-हर्षो घन-स्निग्ध-श्वेत-श्लेष्म-प्रवर्तनम् ।युद्धाद्यैः साहसैस् तैस् तैः सेवितैर् अ-यथा-बलम् ॥२७॥उरस्य् अन्तः-क्षते वायुः पित्तेनानुगतो बली ।कुपितः कुरुते कासं कफं तेन स-शोणितम् ॥२८॥पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु ।ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥२९॥पीतं श्यामं च शुष्कं च सूचीभिर् इव तीक्ष्णाभिस् तुद्यमानेन शूलिना ।पर्व-भेद-ज्वर-श्वास-तृष्णा-वैस्वर्य-कम्प-वान् ॥३०॥पारावत इवाकूजन् पार्श्व-शूली ततो ऽस्य च ।क्रमाद् वीर्यं रुचिः पक्ता बलं वर्णश् च हीयते ॥३१॥क्षीणस्य सासृङ्-मूत्र-त्वं स्याच् च पृष्ठ-कटी-ग्रहः ।वायु-प्रधानाः कुपिता धातवो राज-यक्ष्मिणः ॥३२॥कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः ।पूति-पूयोपमं पीतं विस्रं हरित-लोहितम् ॥३३॥लुच्येते इव पार्श्वे च हृदयं पततीव च ।अ-कस्माद् उष्ण-शीतेच्छा बह्व्-आशि-त्वं बल-क्षयः ॥३४॥लुप्येते इव पार्श्वे च स्निग्ध-प्रसन्न-वक्त्र-त्वं श्री-मद्-दर्शन-नेत्र-ता ।ततो ऽस्य क्षय-रूपाणि सर्वाण्य् आविर्-भवन्ति च ॥३५॥श्री-मद्-दशन-नेत्र-ता इत्य् एष क्षय-जः कासः क्षीणानां देह-नाशनः ।याप्यो वा बलिनां तद्-वत् क्षत-जो ऽभिनवौ तु तौ ॥३६॥सिध्येताम् अपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः ।मिश्रा याप्या द्वयात् सर्वे जरसा स्थविरस्य च ॥३७॥सिध्येताम् अपि सामर्थ्यात् कासाच् छ्वास-क्षय-च्छर्दि-स्वर-सादादयो गदाः ।भवन्त्य् उपेक्षया यस्मात् तस्मात् तं त्वरया जयेत् ॥३८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP