संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|निदानस्थान| अध्याय १ निदानस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ निदानस्थान - अध्याय १ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय १ Translation - भाषांतर रोगः पाप्मा ज्वरो व्याधिर् विकारो दुःखम् आमयः ।यक्ष्मातङ्क-गदाबाधाः शब्दाः पर्याय-वाचिनः ॥१॥निदानं पूर्व-रूपाणि रूपाण्य् उपशयस् तथा ।संप्राप्तिश् चेति विज्ञानं रोगाणां पञ्च-धा स्मृतम् ॥२॥निमित्त-हेत्व्-आयतन-प्रत्ययोत्थान-कारणैः ।निदानम् आहुः पर्यायैः प्राग्-रूपं येन लक्ष्यते ॥३॥उत्पित्सुर् आमयो दोष-विशेषेणान्-अधिष्ठितः ।लिङ्गम् अ-व्यक्तम् अल्प-त्वाद् व्याधीनां तद् यथा-यथम् ॥४॥तद् एव व्यक्त-तां यातं रूपम् इत्य् अभिधीयते ।संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नम् आकृतिः ॥५॥हेतु-व्याधि-विपर्यस्त-विपर्यस्तार्थ-कारिणाम् ।औषधान्न-विहाराणाम् उपयोगं सुखावहम् ॥६॥विद्याद् उपशयं व्याधेः स हि सात्म्यम् इति स्मृतः ।विपरीतो ऽन्-उपशयो व्याध्य्-अ-सात्म्याभिसंज्ञितः ॥७॥यथा-दुष्टेन दोषेण यथा चानुविसर्पता ।निर्वृत्तिर् आमयस्यासौ संप्राप्तिर् जातिर् आगतिः ॥८॥संख्या-विकल्प-प्राधान्य-बल-काल-विशेषतः ।सा भिद्यते यथात्रैव वक्ष्यन्ते ऽष्टौ ज्वरा इति ॥९॥दोषाणां समवेतानां विकल्पो ऽंशांश-कल्पना ।स्वातन्त्र्य-पारतन्त्र्याभ्यां व्याधेः प्राधान्यम् आदिशेत् ॥१०॥हेत्व्-आदि-कार्त्स्न्यावयवैर् बला-बल-विशेषणम् ।नक्तन्-दिनर्तु-भुक्तांशैर् व्याधि-कालो यथा-मलम् ॥११॥इति प्रोक्तो निदानार्थस् तं व्यासेनोपदेक्ष्यति ।सर्वेषाम् एव रोगाणां निदानं कुपिता मलाः ॥१२॥इति प्रोक्तो निदानार्थः तं व्यासेनोपदेक्ष्यते तं व्यासेनोपदिश्यते स व्यासेनोपदेक्ष्यति स व्यासेनोपदेक्ष्यते स व्यासेनोपदिश्यते तत्-प्रकोपस्य तु प्रोक्तं विविधा-हित-सेवनम् ।अ-हितं त्रि-विधो योगस् त्रयाणां प्राग् उदाहृतः ॥१३॥अ-हितस् त्रि-विधो योगस् तिक्तोषण-कषायाल्प-रूक्ष-प्रमित-भोजनैः ।धारणोदीरण-निशा-जागरात्य्-उच्च-भाषणैः ॥१४॥क्रियाति-योग-भी-शोक-चिन्ता-व्यायाम-मैथुनैः ।ग्रीष्माहो-रात्रि-भुक्तान्ते प्रकुप्यति समीरणः ॥१५॥पित्तं कट्व्-अम्ल-तीक्ष्णोष्ण-पटु-क्रोध-विदाहिभिः ।शरन्-मध्याह्न-रात्र्य्-अर्ध-विदाह-समयेषु च ॥१६॥१.१निदाघ-समयेषु च स्वाद्व्-अम्ल-लवण-स्निग्ध-गुर्व्-अभिष्यन्दि-शीतलैः ।आस्या-स्वप्न-सुखा-जीर्ण-दिवा-स्वप्नाति-बृंहणैः ॥१७॥अति-स्वप्न-सुखा-जीर्ण- प्रच्छर्दनाद्य-योगेन भुक्त-मात्र-वसन्तयोः ।पूर्वाह्णे पूर्व-रात्रे च श्लेष्मा द्वन्द्वं तु संकरात् ॥१८॥मिश्री-भावात् समस्तानां संनिपातस् तथा पुनः ।संकीर्णा-जीर्ण-विषम-विरुद्धाध्यशनादिभिः ॥१९॥व्यापन्न-मद्य-पानीय-शुष्क-शाकाम-मूलकैः ।पिण्याक-मृद्-यव-सुरा-पूति-शुष्क-कृशामिषैः ॥२०॥दोष-त्रय-करैस् तैस् तैस् तथान्न-परिवर्तनात् ।ऋतोर् दुष्टात् पुरो-वाताद् ग्रहावेशाद् विषाद् गरात् ॥२१॥तथान्न-परिवर्ततः तथान्न-परिवृत्तितः दुष्टान्नात् पर्वताश्लेषाद् ग्रहैर् जन्मर्क्ष-पीडनात् ।मिथ्या-योगाच् च विविधात् पापानां च निषेवणात् ॥२२॥दुष्टामात् पर्वताश्लेषाद् स्त्रीणां प्रसव-वैषम्यात् तथा मिथ्योपचारतः ।प्रति-रोगम् इति क्रुद्धा रोगाधिष्ठान-गामिनीः ॥२३॥रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥२३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP