संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|निदानस्थान| अध्याय ७ निदानस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ निदानस्थान - अध्याय ७ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ७ Translation - भाषांतर अरि-वत् प्राणिनो मांस-कीलका विशसन्ति यत् ।अर्शांसि तस्माद् उच्यन्ते गुद-मार्ग-निरोधतः ॥१॥दोषास् त्वङ्-मांस-मेदांसि संदूष्य विविधाकृतीन् ।मांसाङ्कुरान् अपानादौ कुर्वन्त्य् अर्शांसि तान् जगुः ॥२॥सह-जन्मोत्तरोत्थान-भेदाद् द्वे-धा समासतः ।शुष्क-स्रावि-विभेदाच् च गुदः स्थूलान्त्र-संश्रयः ॥३॥अर्ध-पञ्चाङ्गुलस् तस्मिंस् तिस्रो ऽध्य्-अर्धाङ्गुलाः स्थिताः ।बल्यः प्रवाहिणी तासाम् अन्तर् मध्ये विसर्जनी ॥४॥बाह्या संवरणी तस्या गुदौष्ठो बहिर् अङ्गुले ।यवाध्य्-अर्धः प्रमाणेन रोमाण्य् अत्र ततः परम् ॥५॥बाह्या संवरणी तस्यां यवाध्य्-अर्ध-प्रमाणेन तत्र हेतुः सहोत्थानां वली-बीजोपतप्त-ता ।अर्शसां बीज-तप्तिस् तु माता-पित्र्-अपचारतः ॥६॥वली-बीजोपतप्ति-ता दैवाच् च ताभ्यां कोपो हि संनिपातस्य तान्य् अतः ।अ-साध्यान्य् एवम् आख्याताः सर्वे रोगाः कुलोद्भवाः ॥७॥सह-जानि विशेषेण रूक्ष-दुर्-दर्शनानि च ।अन्तर्-मुखानि पाण्डूनि दारुणोपद्रवाणि च ॥८॥षो-ढान्यानि पृथग् दोष-संसर्ग-निचयास्रतः ।शुष्काणि वात-श्लेष्मभ्याम् आर्द्राणि त्व् अस्र-पित्ततः ॥९॥दोष-प्रकोप-हेतुस् तु प्राग् उक्तस् तेन सादिते ।अग्नौ मले ऽति-निचिते पुनश् चाति-व्यवायतः ॥१०॥यान-संक्षोभ-विषम-कठिनोत्कटकासनात् ।वस्ति-नेत्राश्म-लोष्टोर्वी-तल-चैलादि-घट्टनात् ॥११॥भृशं शीताम्बु-संस्पर्शात् प्रतताति-प्रवाहणात् ।वात-मूत्र-शकृद्-वेग-धारणात् तद्-उदीरणात् ॥१२॥ज्वर-गुल्मातिसाराम-ग्रहणी-शोफ-पाण्डुभिः ।कर्शनाद् विषमाभ्यश् च चेष्टाभ्यो योषितां पुनः ॥१३॥आम-गर्भ-प्रपतनाद् गर्भ-वृद्धि-प्रपीडनात् ।ईदृशैश् चापरैर् वायुर् अपानः कुपितो मलम् ॥१४॥पायोर् वलीषु तं धत्ते तास्व् अभिष्यण्ण-मूर्तिषु ।जायन्ते ऽर्शांसि तत्-पूर्व-लक्षणं मन्द-वह्नि-ता ॥१५॥पायु-वलीषु तं धत्ते पायोर् वलीषु संधत्ते विष्टम्भः सक्थि-सदनं पिण्डिकोद्वेष्टनं भ्रमः ।सादो ऽङ्गे नेत्रयोः शोफः शकृद्-भेदो ऽथ-वा ग्रहः ॥१६॥मारुतः प्रचुरो मूढः प्रायो नाभेर् अधश् चरन् ।स-रुक् स-परिकर्तश् च कृच्छ्रान् निर्गच्छति स्वनम् ॥१७॥अन्त्र-कूजनम् आटोपः क्षाम-तोद्गार-भूरि-ता ।प्रभूतं मूत्रम् अल्पा विड् अ-श्रद्धा धूमको ऽम्लकः ॥१८॥प्रभूत-मूत्र-ताल्पा विड् शिरः-पृष्ठोरसां शूलम् आलस्यं भिन्न-वर्ण-ता ।तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचार-ता ॥१९॥आशङ्का ग्रहणी-दोष-पाण्डु-गुल्मोदरेषु च ।एतान्य् एव विवर्धन्ते जातेषु हत-नामसु ॥२०॥एतान्य् एव च वर्धन्ते निवर्तमानो ऽपानो हि तैर् अधो-मार्ग-रोधतः ।क्षोभयन्न् अनिलान् अन्यान् सर्वेन्द्रिय-शरीर-गान् ॥२१॥तथा मूत्र-शकृत्-पित्त-कफान् धातूंश् च साशयान् ।मृद्नात्य् अग्निं ततः सर्वो भवति प्राय-शो ऽर्शसः ॥२२॥कृशो भृशं हतोत्साहो दीनः क्षामो ऽति-निष्-प्रभः ।अ-सारो विगत-च्छायो जन्तु-जुष्ट इव द्रुमः ॥२३॥कृत्स्नैर् उपद्रवैर् ग्रस्तो यथोक्तैर् मर्म-पीडनैः ।तथा कास-पिपासास्य-वैरस्य-श्वास-पीनसैः ॥२४॥क्लमाङ्ग-भङ्ग-वमथु-क्षवथु-श्वयथु-ज्वरैः ।क्लैब्य-बाधिर्य-तैमिर्य-शर्कराश्मरि-पीडितः ॥२५॥क्षाम-भिन्न-स्वरो ध्यायन् मुहुः ष्ठीवन् अ-रोचकी ।सर्व-पर्वास्थि-हृन्-नाभि-पायु-वङ्क्षण-शूल-वान् ॥२६॥गुदेन स्रवता पिच्छां पुलाकोदक-संनिभाम् ।विबद्ध-मुक्तं शुष्कार्द्रं पक्वामं चान्तरान्तरा ॥२७॥पाण्डु पीतं हरिद् रक्तं पिच्छिलं चोपवेश्यते ।गुदाङ्कुरा बह्व्-अनिलाः शुष्काश् चिमिचिमान्विताः ॥२८॥म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः ।मिथो वि-सदृशा वक्रास् तीक्ष्णा विस्फुटिताननाः ॥२९॥बिम्बी-कर्कन्धु-खर्जूर-कार्पासी-फल-संनिभाः ।के-चित् कदम्ब-पुष्पाभाः के-चित् सिद्धार्थकोपमाः ॥३०॥शिरः-पार्श्वांस-कट्य्-ऊरु-वङ्क्षणाभ्यधिक-व्यथाः ।क्षवथूद्गार-विष्टम्भ-हृद्-ग्रहा-रोचक-प्रदाः ॥३१॥हृद्-रवा-रोचक-प्रदाः कास-श्वासाग्नि-वैषम्य-कर्ण-नाद-भ्रमावहाः ।तैर् आर्तो ग्रथितं स्तोकं स-शब्दं स-प्रवाहिकम् ॥३२॥रुक्-फेन-पिच्छानुगतं विबद्धम् उपवेश्यते ।कृष्ण-त्वङ्-नख-विण्-मूत्र-नेत्र-वक्त्रश् च जायते ॥३३॥गुल्म-प्लीहोदराष्ठीला-संभवस् तत एव च ।पित्तोत्तरा नील-मुखा रक्त-पीतासित-प्रभाः ॥३४॥तन्व्-अस्र-स्राविणो विस्रास् तनवो मृदवः श्लथाः ।शुक-जिह्वा-यकृत्-खण्ड-जलौको-वक्त्र-संनिभाः ॥३५॥दाह-पाक-ज्वर-स्वेद-तृण्-मूर्छा-रुचि-मोह-दाः ।सोष्माणो द्रव-नीलोष्ण-पीत-रक्ताम-वर्चसः ॥३६॥यव-मध्या हरित्-पीत-हारिद्र-त्वङ्-नखादयः ।श्लेष्मोल्बणा महा-मूला घना मन्द-रुजः सिताः ॥३७॥यव-मध्या हरित्-पीता हारिद्र-त्वङ्-नखादयः उच्छूनोपाचिताः स्निग्धाः स्तब्ध-वृत्त-गुरु-स्थिराः ।पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्व्-आढ्याः स्पर्शन-प्रियाः ॥३८॥करीर-पनसास्थ्य्-आभास् तथा गो-स्तन-संनिभाः ।वङ्क्षणानाहिनः पायु-वस्ति-नाभि-विकर्तिनः ॥३९॥स-कास-श्वास-हृल्-लास-प्रसेका-रुचि-पीनसाः ।मेह-कृच्छ्र-शिरो-जाड्य-शिशिर-ज्वर-कारिणः ॥४०॥क्लैब्याग्नि-मार्दव-च्छर्दिर्-आम-प्राय-विकार-दाः ।वसाभ-स-कफ-प्राज्य-पुरीषाः स-प्रवाहिकाः ॥४१॥वसाभाः स-कफ-प्राज्य- न स्रवन्ति न भिद्यन्ते पाण्डु-स्निग्ध-त्वग्-आदयः ।संसृष्ट-लिङ्गाः संसर्गान् निचयात् सर्व-लक्षणाः ॥४२॥रक्तोल्बणा गुदे-कीलाः पित्ताकृति-समन्विताः ।वट-प्ररोह-सदृशा गुञ्जा-विद्रुम-संनिभाः ॥४३॥ते ऽत्य्-अर्थं दुष्टम् उष्णं च गाढ-विट्-प्रतिपीडिताः ।स्रवन्ति सहसा रक्तं तस्य चाति-प्रवृत्तितः ॥४४॥भेकाभः पीड्यते दुःखैः शोणित-क्षय-संभवैः ।हीन-वर्ण-बलोत्साहो हतौजः कलुषेन्द्रियः ॥४५॥मुद्ग-कोद्रव-जूर्णाह्व-करीर-चणकादिभिः ।रूक्षैः संग्राहिभिर् वायुः स्वे स्थाने कुपितो बली ॥४६॥स्व-स्थाने कुपितो बली अधो-वहानि स्रोतांसि संरुध्याधः प्रशोषयन् ।पुरीषं वात-विण्-मूत्र-सङ्गं कुर्वीत दारुणम् ॥४७॥तेन तीव्रा रुजा कोष्ठ-पृष्ठ-हृत्-पार्श्व-गा भवेत् ।आध्मानम् उदरावेष्टो हृल्-लासो परिकर्तनम् ॥४८॥वस्तौ च सु-तरां शूलं गण्ड-श्वयथु-संभवः ।पवनस्योर्ध्व-गामि-त्वं ततश् छर्द्य्-अ-रुचि-ज्वराः ॥४९॥हृद्-रोग-ग्रहणी-दोष-मूत्र-सङ्ग-प्रवाहिकाः ।बाधिर्य-तिमिर-श्वास-शिरो-रुक्-कास-पीनसाः ॥५०॥मनो-विकारस् तृष्णास्र-पित्त-गुल्मोदरादयः ।ते ते च वात-जा रोगा जायन्ते भृश-दारुणाः ॥५१॥दुर्-नाम्नाम् इत्य् उदावर्तः परमो ऽयम् उपद्रवः ।वाताभिभूत-कोष्ठानां तैर् विनापि स जायते ॥५२॥सह-जानि त्रि-दोषाणि यानि चाभ्यन्तरे वलौ ।स्थितानि तान्य् अ-साध्यानि याप्यन्ते ऽग्नि-बलादिभिः ॥५३॥द्वन्द्व-जानि द्वितीयायां वलौ यान्य् आश्रितानि च ।कृच्छ्र-साध्यानि तान्य् आहुः परि-संवत्सराणि च ॥५४॥बाह्यायां तु वलौ जातान्य् एक-दोषोल्बणानि च ।अर्शांसि सुख-साध्यानि न चोत्पतितानि च ॥५५॥मेढ्रादिष्व् अपि वक्ष्यन्ते यथा-स्वं नाभि-जानि तु ।गण्डू-पदास्य-रूपाणि पिच्छिलानि मृदूनि च ॥५६॥व्यानो गृहीत्वा श्लेष्माणं करोत्य् अर्शस् त्वचो बहिः ।कीलोपमं स्थिर-खरं चर्म-कीलं तु तं विदुः ॥५७॥वातेन तोदः पारुष्यं पित्ताद् असित-रक्त-ता ।श्लेष्मणा स्निग्ध-ता तस्य ग्रथित-त्वं स-वर्ण-ता ॥५८॥अर्शसां प्रशमे यत्नम् आशु कुर्वीत बुद्धि-मान् ।तान्य् आशु हि गुदं बद्ध्वा कुर्युर् बद्ध-गुदोदरम् ॥५९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP