संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल १| सूक्तं ३५ मण्डल १ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ मण्डल २ - सूक्तं ३५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३५ Translation - भाषांतर उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥१॥इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् ।अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥२॥समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति ।तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥३॥तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः ।स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥४॥अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् ।कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥५॥अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् ।आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥६॥स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति ।सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥७॥यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥८॥अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः ।तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥९॥हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥१०॥तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् ।यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥११॥अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः ।सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥१२॥स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति ।सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥१३॥अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् ।आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥१४॥अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् ।विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP