संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल १| सूक्तं २७ मण्डल १ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ मण्डल २ - सूक्तं २७ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं २७ Translation - भाषांतर इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि ।शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥१॥इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त ।आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥२॥त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः ।अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥३॥धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥४॥विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु ।युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥५॥सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति ।तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥६॥पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः ।बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥७॥तिस्रो भूमीर्धारयन्त्रीँरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् ।ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥८॥त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः ।अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥९॥त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥१०॥न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥११॥यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः ।स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥१२॥शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥१३॥अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥१४॥उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥१५॥या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्स्याम ॥१६॥माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥१७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP