संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|वेतालपञ्चविंशति| कथा २४ वेतालपञ्चविंशति सूत्र कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ कथा १२ कथा १३ कथा १४ कथा १५ कथा १६ कथा १७ कथा १८ कथा १९ कथा २० कथा २१ कथा २२ कथा २३ कथा २४ कथा २५ वेतालपञ्चविंशति - कथा २४ `बेताल पचीसी' पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं । Tags : storyvetal panchavishiकथाबेताल पच्चीसीवेताळ पंचविशीसंस्कृत कथा २४ Translation - भाषांतर ततः ताम् तिमिरश्यामाम् चिता- अग्निज्वलित- ईक्षणाम् ।स्मशाने भीषणे तस्मिन् वीरः रजनिराक्षसीम् ॥१॥घोराम् अगणयन् राजा गत्वा ताम् शिंशपाम् पुनः ।सः त्रिविक्रमसेनः तम् तस्याः वेतालम् आददे ॥२॥स्कन्धे कृत्वा च तम् यावत् प्रक्रामति सः पूर्ववत् ।तावत् भूयः सः वेतालः नरदेवम् उवाच तम् ॥३॥भो राजन् अहम् उद्विग्नः न पुनः त्वम् गत- आगतैः ।तत् एकम् मे महाप्रश्नम् इमम् कथयतः शृणु ॥४॥आसीत् माण्डलिकः कः अपि नृपतिः दक्षिणापथे ।धर्माभिधानः धौरेयः साधूनाम् बहुगोत्रजः ॥५॥तस्य चन्द्रवतीनाम भार्या मालवदेशजा ।अभूत् महाकुलौत्पन्ना वरस्त्रीमौलिमालिका ॥६॥तस्याम् च तस्य भार्यायाम् भूपतेः उदपद्यत ।एका एव लावण्यवती नाम अन्वर्थाभिधा सुता ॥७॥प्रदेयायाम् च तस्याम् सः सुतायाम् धर्मभूपतिः ।उन्मूलितः अभूत् मिलितैः दायादैः राष्ट्रभेदिभिः ॥८॥ततः पलाय्य निरगात् सः देशात् भार्यया सह ।दुहित्रा च तया रात्रौ आत्तसत्रत्नसंचयः ॥९॥मालवम् प्रति च स्वैरम् प्रस्थितः श्वशुर- आस्पदम् ।विन्ध्याटवीम् तया रात्र्या प्राप भार्यासुतायुतः ॥१०॥तस्याम् प्रविष्टस्य उदश्रुः इव अवश्यायशीकरैः ।निशा अनुयात्राम् दत्त्वा इव ययौ तस्य महीक्षितः ॥११॥आरुरोह अथ पूर्वाद्रिम् उत्क्षिप्ताग्रकरः रविः ।मा गाः चौराटवीम् एताम् इति तम् वारयन् इव ॥१२॥ततः अत्र ससुताजानिः क्षताङ्घ्रिः कुशकण्टकैः ।पदातिः सः नृपः गच्छन् भिल्लानाम् प्राप पल्लिकाम् ॥१३॥परेषाम् प्राणसर्वस्वहारिभिः पुंभिः आवृताम् ।वर्जिताम् धार्मिकैः दुर्गाम् कृतान्तनगरीम् इव ॥१४॥तत्र दृष्ट्वा एव तम् दूरात् सवस्त्र- आभरणम् नृपम् ।मोषितुम् बहवः अधावन् शबराः विविध- आयुधाः ॥१५॥तान् विलोक्य सुताभार्ये राजा धर्मः जगाद सः ।पुरा स्पृशन्ति वाम् म्लेच्छाः तत् इतः विशतम् वनम् ॥१६॥इति राज्ञा उदिता रज्ञी वनमध्यम् विवेश सा ।लावण्यवत्या सुतया सार्धम् चन्द्रवती भयात् ॥१७॥राजा अपि अभिमुख- आयातान् खड्गचर्मधरः अत्र सः ।अवधीत् तान् बहून् शूरः शबरान् शरवर्तिणः ॥१८॥ततः तेन अखिला पल्ली पत्या आज्ञप्ताः निपत्य तम् ।प्रहारक्षतचर्माणम् अवधीत् नृपम् एककम् ॥१९॥गृहीत- आभरणे याते दस्युसैन्ये विलोक्य तम् ।भर्तारम् निहतम् दूरात् वनगुल्मान्तरस्थिता ॥२०॥राज्ञी चन्द्रवती सा अत्र दुहित्रा सह विह्वला ।पलायमाना गहनम् दूरम् अन्वक् अगात् वनम् ॥२१॥तत्र मध्याह्नताप- आर्तासु इव मूलानि शाखिनाम् ।छायासु अपि प्रविष्टासु शिशिराणि सह अध्वगैः ॥२२॥एकदेशे अब्जसरसः तीरे अशोकतरोः तले ।शोक- आर्ता रुदती श्रान्ता ससुता समुपाविशत् ॥२३॥तावत् तत् वनम् अभ्यर्णनिवासी मृगयाकृते ।महामनुष्यः कः अपि आगात् अश्व- आरूढः सपुत्रकः ॥२४॥सः चण्डसिंहनामा तम् पुत्रम् सिंहपराक्रमम् ।उवाच दृष्ट्वा अत्र तयोः पांसूत्थे पदपद्धती ॥२५॥एते सुरेखे सुभगे अनुसृत्य आप्नुवः यदि ।स्त्रीयौ ते तत् तयोः एकाम् स्वीकुरुष्व यथारुचि ॥२६॥इति उक्तवन्तम् तम् स्म आह पुत्रः सिंहपराक्रमः ।यस्याः सूक्ष्मौ इमौ पादौ सा भार्या प्रतिभाति मे ॥२७॥सा हि स्वल्पवयाः नूनम् जाने समुचिता मम ।बृहत्पादा तु योग्या इयम् एतत्ज्येष्ठवयाः तव ॥२८॥इति सूनोः वचः श्रुत्वा चण्डसिंहः जगाद तम् ।का एषा कथा भवत्माता प्रत्यग्रम् हि गता दिवम् ॥२९॥तादृशे सुकलत्रे च गते का अन्यत्र वासना ।तत् श्रुत्वा सः अपि पुत्रः तम् चण्डसिंहम् अभाषत ॥३०॥तात मा एवम् अभार्यम् हि शून्यम् गृहपतेः गृहम् ।अन्यत् च मूलदेवौक्ता गाथा किम् न श्रुता त्वया ॥३१॥यत्र घनस्तनजघना न आस्ते मार्गावलोकिनी कान्ता ।अजडः कः तत् अनिगडम् प्रविशति गृहसंज्ञकम् दुर्गम् ॥३२॥तत् जीवितेन मे तात शापितः असि न ताम् यदि ।द्वितीयाम् मदभीष्टायाम् भार्या- अर्थे स्वीकरीष्यसि ॥३३॥एतत् पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः ।सः चण्डसिंहः अनुसरन् पदपङ्क्तिम् शनैः ययौ ॥३४॥प्राप्य तत् च सरःस्थानम् मुक्तातारा- ओघमण्डिताम् ।श्यामाम् चण्द्रवतीम् राज्ञीम् ताम् ददर्श अवभासिताम् ॥३५॥लावण्यवत्या सुतया ज्योत्स्नया इव अवदातया ।नैशीम् द्याम् इव मध्याह्ने तरुच्छायाम् उपाश्रिताम् ॥३६॥उपाययौ च पुत्रेण साकम् ताम् सः सकौतुकः ।सा अपि दृष्ट्वा तम् उत्तस्थौ वित्रस्ता चौरशङ्किनी ॥३७॥अलम् त्रासेन न अम्भ एतौ चौरौ सौम्य- आकृती इमौ ।सुवेषौ कौचित् आखेटकृते नूनम् इह आगतौ ॥३८॥इति उक्ता सुतया राज्ञी यावत् दोलायते अत्र सा ।तावत् अश्वावतीर्णः ते चण्डसिंःअः अब्रवीत् उभे ॥३९॥किम् संभ्रमेण वाम् आवाम् प्रणयात् द्रष्टुम् आगतौ ।तत् विस्वस्य निःआतङ्के वदतम् के युवाम् इति ॥४०॥हरनेत्रानलज्वालादग्धमन्मथदुःस्थिते ।रतिप्रीती इव अरण्यम् इदम् एवम् उपागते ॥४१॥प्रविष्टे स्थः कथम् च इह बत निःमानुषे वने ।रत्नप्रासादवासार्हम् इदम् हि युवयोः वपुः ॥४२॥कथम् वराङ्गना- उत्सङ्गयोग्यौ कण्टकिनीम् इमाम् ।भुवम् वाम् चरणौ भ्रान्तौ इति नौ मनसि व्यथा ॥४३॥एषा च चित्रम् युवयोः पतन्ती धूलिः आनने ।वातौद्धूता हतछायम् आवयोः कुरुते मुखम् ॥४४॥भवत्योः एषः च अङ्गे अस्मिन् निपतन् पुष्पपेशले ।किरणौष्मा दहति अस्मान् उच्चण्डः चण्डदीधितेः ॥४५॥तत् ब्रूतम् आत्मवृत्तान्तम् दूयते हृदयम् हि नः ।द्रष्टुम् न शक्नुमः अरण्ये स्थितिम् वाम् स्वापद- आवृते ॥४६॥इति उक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः ।लज्जाशोक- आकुला तस्मै स्वम् वृत्तान्तम् अवर्णयत् ॥४७॥ततः निःस्वामिकाम् मत्वा ताम् आश्वास्य च स- आत्मजाम् ।स्वीचक्रे मधुरैः वाक्यैः चण्डसिंहः अनुरञ्जयन् ॥४८॥आरोप्य च अस्वयोः पृष्ठम् सपुत्रः ताम् सपुत्रिकाम् ।निनाय वित्तपपुरीसमृद्धाम् वसतिम् निजाम् ॥४९॥सा अपि जन्मान्तरगता इव अवशा अङ्गीचकार तम् ।अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् ॥५०॥ततः ताम् सूक्ष्मपादत्वात् राज्ञीम् सिंहपराक्रमः ।चण्डसिंहसुतः तत्र भार्याम् चण्द्रवतीम् व्यधात् ॥५१॥तत्सुताम् ताम् च लावण्यवतीम् नृपतिकन्यकाम् ।बृहत्त्वात् पादयोः भार्याम् चण्डसिंहः चकार सः ॥५२॥प्राख़् हि सूक्ष्मबृहत्पादमुद्रापङ्क्तिद्वय- ईक्षणात् ।प्रतिपन्नम् तथा ताभ्याम् सत्यम् कः च अतिवर्तते ॥५३॥एवम् पादविपर्यासात् ते पितापुत्रयोः तयोः ।दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥५४॥कालेन च तयोः ताभ्याम् भर्तृभ्याम् जज्ञिरे द्वयोः ।पुत्राः दुहितरः च एव तेषाम् अन्ये अपि अथ क्रमात् ॥५५॥इत्थम् संप्राप्य तौ चण्डसिंहसिंहपराक्रमौ ।तस्थतुः तत्र लावण्यवतीम् चन्द्रवतीम् च ते ॥५६॥इति व्यावर्ण्य वेतालः तदा पथि कथाम् निशि ।सः त्रिविक्रमसेनम् तम् पप्रच्छ नृपतिम् पुनः ॥५७॥तयोः मातादुहित्रोः ये पुत्रपित्रोः तयोः नृप ।सकाशात् जन्तवः जाताः क्रमात् उभयपक्षयोः ॥५८॥ज्ञात्वा इदम् ब्रूहि मे तेषाम् अन्यःअन्यम् के भवन्ति ते ।पूर्वौक्तः सः अत्र शापः ते जानानः चेत् न वक्ष्यसि ॥५९॥एतत् वेतालतः श्रुत्वा विमृशन् बहुधा अपि सः ।न अज्ञासीत् तत् यदा राजा तूष्णीकः प्रययौ तदा ॥६०॥ततः ततंसकूटस्थः वेतालः विहसन् हृदि ।मृतपूरुषदेहान्तः निविष्टः समचिन्तयत् ॥६१॥न अयम् राजा महाप्रश्ने वेत्ति अस्मिन् दातुम् उत्तरम् ।तेन तूष्णीम् व्रजति एषः हृष्टः अतिचतुरैः पदैः ॥६२॥न च वञ्चयितुम् शक्यः सत्त्वराशिः अयम् परम् ।क्रीडन् भिक्षुः सः च अस्माभिः इयता एव न शाम्यति ॥६३॥तत् अद्य वञ्चयित्वा तम् दुरात्मानम् उपायतः ।तत्सिद्धिम् भाविकल्याणे राजनि अस्मिन् निवेशये ॥६४॥इति आलोच्य सः वेतालः नृपम् तम् अवदत् तदा ।राजन् कृष्णनिशाघोरे स्मशाने अस्मिन् गत- आगतैः ॥६५॥एतैः क्लिष्टः सुखार्हः त्वम् न विकल्पः च कः अपि ते ।तत् आश्चर्येण धैर्येण तुष्टः अहम् अमुना तव ॥६६॥शवम् एतम् नय इदानीम् निर्गच्छामि अमुतः हि अहम् ।इदम् तु श्र्णु यत् वच्मि हितम् तव कुरुष्व च ॥६७॥आनीतम् एतत् भवता यस्य अर्थे नृकलेवरम् ।कुभिक्षुः सः अद्य माम् अस्मिन् समाहूय अर्चयिष्यति ॥६८॥उपहारीचिकीर्षुः च त्वाम् एव सः शठः ततः ।भूमौ प्रणामम् अष्टाभिः अङ्गैः कुरु इति वक्ष्यति ॥६९॥त्वम् प्राक् दर्शय तावत् मे करिष्ये अहम् तथा एव तत् ।इति सः अपि महाराज वक्तव्यह् श्रमणः त्वया ॥७०॥ततः निपत्य भूतौ सः प्रणामम् यावत् एव ते ।दर्शय्ष्यति तावत् त्वम् छिन्द्याः तस्य असिना शिरः ॥७१॥ततः विद्याधराइश्वर्यसिद्धिः या तस्य वाञ्छिता ।ताम् त्वम् प्राप्स्यसि भुङ्क्ष्वा इमम् भुवम् ततुपहारतः ॥७२॥अन्यथा तु सः भिक्षुः त्वाम् उपहारीकरिष्यति ।एततर्थम् कृतः विघ्नः तव अत्र इयत् चिरम् मया ॥७३॥तत् सिद्धिः अस्तु ते गच्छ इति उक्त्वा तस्य अंसपृष्ठगात् ।निर्गत्य सः ययौ तस्मात् वेतालः प्रेतकायतः ॥७४॥अथ सः नरपतिः तम् प्रीतवेतालवाक्यात् श्रमणम् अहितम् एव क्षान्तिशीलम् विचिन्त्य ।वटविटपितलम् तत् तस्य पार्श्वम् प्रतस्थे मृतपुरुषशरीरम् तत् गृहीत्वा प्रहृष्टः ॥७५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP