संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|वेतालपञ्चविंशति| कथा ११ वेतालपञ्चविंशति सूत्र कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ कथा १२ कथा १३ कथा १४ कथा १५ कथा १६ कथा १७ कथा १८ कथा १९ कथा २० कथा २१ कथा २२ कथा २३ कथा २४ कथा २५ वेतालपञ्चविंशति - कथा ११ `बेताल पचीसी' पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं । Tags : storyvetal panchavishiकथाबेताल पच्चीसीवेताळ पंचविशीसंस्कृत कथा ११ Translation - भाषांतर ततः गत्वा पुनः प्राप्य शिंशपातः अग्रहीत् नृपः ।सः त्रिविक्रमसेनः अंसे वेतालम् तम् चचाल च ॥१॥आयान्तम् च तम् अंसस्थः वेतालः सः अब्रवीत् नृपम् ।राजन् विचित्राम् एकाम् ते वर्णयामि कथाम् शृणु ॥२॥उज्जयिन्याम् अभूत् पूर्वम् नाम्ना धर्मध्वजः नृपः ।तिस्रः तस्य आभवन् भार्याः राजपुत्र्यः अतिवल्लभाः ॥३॥एका तासु इन्दुलेखा इति तारावली अपरा तथा ।नाम्ना मृगाङ्कवती अन्या निःसामान्यवपुःगुणाः ॥४॥ताभिः सः विहरन् राजा राज्ञीभिः तिसृभिः सह ।आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥५॥एकदा तत्र संप्राप्ते वसन्तसमयौत्सवे ।प्रियाभिः सहितः ताभिः उद्यानम् क्रीडितुम् ययौ ॥६॥तत्र अलिमालामौर्वीकाः पश्यन् पुष्प- आनताः लताः ।चापयष्टीः अनङ्गस्य मधुना सज्जिताः इव ॥७॥शृण्वन् च तत्द्रुमाग्रस्थकोकिलौदीरिताम् गिरम् ।सम्भोगएकरसस्य आज्ञाम् इव मानसजन्मनः ॥८॥सिषेवे अन्तःपुरैः साकम् सः राजा वासवौपमः ।पानम् मदस्य कंदर्पजीवितस्य अपि जीवितम् ॥९॥तत्निःश्वाससुगन्धीनि तत्बिम्बओष्ठरुचीनि च ।प्रियापीतावशेषाणि पिबन् रेमे मधूनि सः ॥१०॥तत्र तस्य इन्दुलेखाया राज्ञः केलिकचग्रहात् ।तस्याः पपात कर्णाग्रात् उत्सङ्गे त्वङ्गद् उत्पलम् ॥११॥तेन ऊरुपृष्ठे सहसा क्षते जाते अभिघातजे ।अभिजाता महादेवी हा हा इति उक्त्वा मुमूर्च्छ सा ॥१२॥तत् दृष्ट्वा विह्वलेन आर्त्या राज्ञा परिजनेन च ।समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः ॥१३॥ततः नीत्वा सः राजा ताम् राजधानीम् भिषक्कृतैः ।प्रियाम् उपाचरत् दिव्यैः आमुक्तव्रणपट्टिकाम् ॥१४॥रात्रौ च सुस्थिताम् दृष्ट्वा ताम् सः राजा द्वितीयया ।तारावल्या सह आरोहत् चन्द्रप्रासादम् ईश्वरः ॥१५॥तत्र तस्य अङ्कसुप्तायाः राज्ञः तस्याः हिमत्विषः ।कराः जालपथैः पेतुः अङ्गे चलितवाससि ॥१६॥ततः क्षणात् प्रबुद्धा सा हा दग्धा- अस्मि इति वादिनी ।शयनात् सहसा उत्तस्थौ ततङ्गपरिमर्शिनी ॥१७॥किम् एतत् इति संभ्रान्तः प्रबुद्धः अथ ददर्श सः ।उत्थाय राजा विस्फोटान् अङ्गे तस्याः विनिर्गतान् ॥१८॥पृच्छन्तम् सा च तम् प्राह राज्ञी तारावली तदा ।नग्नाङ्गे पतितैः इन्दोः करैः एतत् कृतम् मम ॥१९॥इति उक्तवत्याः क्रन्दन्त्याः स- आर्तिः आह्वयति स्म सः ।तस्याः परिजनम् राजा विह्वल- आकुलधावितम् ॥२०॥तेन अस्याः कारयामास सजलैः नलिनीदलैः ।शय्याम् अदापयत् च अङ्गे श्रीखण्ड- आर्द्रविलेपनम् ॥२१॥तावत् बुद्ध्वा तृतीया अस्य सा मृगाङ्कवती प्रिया ।तत्पार्श्वम् आगन्तुमनाः निर्ययौ निजमन्दिरात् ॥२२॥निर्गता सा आशृणोत् क्व अपि गृहे धान्यावघातजम् ।निःशब्दायाम् निशि व्यक्तम् विदूरे मुसलध्वनिम् ॥२३॥श्रुत्वा एव हा मृता- अस्मि इति ब्रुवाणा धुन्वती करौ ।उपाविशत् व्यथा- आक्रान्ता मार्गे सा मृगलोचना ॥२४॥ततः प्रतिनिवृत्य एव नीत्वा परिजनेन सा ।स्वम् एव अन्तःपुरम् बालाः रुदती शयने अपतत् ॥२५॥ददर्श तत्र तस्याः च चिन्वन् साश्रुः परिच्छदः ।आलीनभ्रमरौ पद्मौ इव हस्तौ किणाङ्कितौ ॥२६॥गत्वा च सः अब्रवीत् राज्ञे राजा अपि आगत्य विह्वलः ।किम् एतत् इति पप्रच्छ सः अथ धर्मध्वजः प्रियाम् ॥२७॥सा अपि प्रदर्श्य हस्तौ तम् इति उवाच रुजा- अन्विता ।श्रुते मुसलशब्दे मे जतौ एतौ किणाङ्कितौ ॥२८॥ततः सः दाहशमनम् दापयामास हस्तयोः ।तस्याः चन्दनलेप- आदि राजा अद्भुतविषादवान् ॥२९॥एकस्याः उत्पलेन अपि पतता क्षतम् आहितम् ।द्वितीयस्याः पुनः दग्धम् अङ्गम् शशिकरैः अपि ॥३०॥एकस्याः तु तृतीयस्याः श्रुतेन अपि विनिर्गताः ।कष्टम् मुसलशब्देन हस्तयोः ईदृशाः किणाः ॥३१॥अहो युगपत् एतासाम् प्रेयसीनाम् मम अधुना ।गुणः अपि अत्यभिजातत्वम् जातः दोषाय दैवतः ॥३२॥इति चिन्तयतः तस्य भ्रमतः अन्तःपुरेषु च ।त्रियामा शतयाम इव कृच्छ्रात् सा नृपतेः ययौ ॥३३॥प्रातः च सः भिषक्षल्यहर्तृभिः सह संव्यधात् ।तथा यथा अभूत् अचिरात् स्वस्थान्तःपुरनिर्वृत्तः ॥३४॥एवम् एताम् कथाम् उक्त्वा वेतालः अत्यद्भुताम् तदा ।सः त्रिविक्रमसेनम् तम् पप्रच्छ अंसस्थितः नृपम् ॥३५॥अभिजाततरा एतासु राजन् राज्ञीषु का वद ।पूर्वौक्तः सः अस्तु शापः ते जानन् यदि न जल्पसि ॥३६॥तत् श्रुत्वा सः अब्रवीत् राजा सुकुमारतरा अत्र सा ।अस्पृष्टे मुसले यस्याः शब्देन एव उद्गताः किणाः ॥३७॥उत्पलैन्दुकरैः स्पर्शे वृत्ते तु इतरयोः द्वयोः ।संजाताः व्रणविस्फोटाः तेन तस्याः न ते समे ॥३८॥इति तस्य उक्तवतः अंसात् राज्ञः भूयः जगाम सः स्वपदम् ।वेतालः सः च राजा तथा एव तम् सुदृढनिश्चयः अनुययौ ॥३९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP