संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|वेतालपञ्चविंशति| सूत्र वेतालपञ्चविंशति सूत्र कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ कथा १२ कथा १३ कथा १४ कथा १५ कथा १६ कथा १७ कथा १८ कथा १९ कथा २० कथा २१ कथा २२ कथा २३ कथा २४ कथा २५ वेतालपञ्चविंशति - सूत्र बेताल पचीसी पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं । Tags : storyvetal panchavishiकथाबेताल पच्चीसीवेताळ पंचविशीसंस्कृत सूत्र Translation - भाषांतर तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ॥२१॥प्राक् त्रिविक्रमसेन- आख्यः ख्यातकीर्तिः अभूत् नृपः ।प्रतिष्ठान अभिधानः अस्ति देशः गोदावरी तटे ॥२२॥तस्य प्रति- अहम् आस्थानगतस्य उपेत्य भूपतेः ।सेवा- अर्थम् क्षान्तिशील- आख्यः भिक्षुः फलम् उपानयत् ॥२३॥सः अपि राजा तत् आदाय फलम् आसन्नवर्तिनः ।हस्ते ददौ प्रतिदिनम् कोषागाराधिकारिणः ॥२४॥इत्थम् गतेषु वर्षेषु दशसु अत्र किल एकदा ।दत्त्वा राज्ञे फलम् तस्मै भिक्षौ आस्थानतः गते ॥२५॥सः राजा तत् फलम् प्रादात् प्रविष्टाय अत्र दैवतः ।क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥२६॥सः मर्कटः तत् अश्नाति यावत् तावत् फलात् ततः ।विभिन्नमध्यात् निरगात् अनर्घम् रत्नम् उत्तमम् ॥२७॥तत् दृष्ट्वा आदाय पप्रच्छ तम् भाण्डागारिकम् नृपः ।भिक्षूपनीतानि मया यानि नित्यम् फलानि ते ॥२८॥हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।तत् श्रुत्वा तम् सः सभयः कोषाध्यक्षः व्यजिज्ञपत् ॥२९॥क्षिप्तानि तानि अनुद्घाट्य मया गञ्जे गवाक्षतः ।यदि आदिशसि तत् देव तम् उद्घाट्य गवेषये ॥३०॥इति ऊचिवान् अनुमतः रज्ञा गत्वा क्षणेन सः ।कोषाध्यक्षः समागत्य प्रभुम् व्यज्ञापयत् पुनः ॥३१॥शीर्णानि न अत्र पश्यामि कोषे तानि फलानि अहम् ।रत्नराशिम् तु पश्यामि रश्मिज्वाल- आकुलम् विभो ॥३२॥तत् श्रुत्वा तान् मनीन् दत्त्वा तुष्टः अस्मै कोषरक्षिणे ।राजा अन्येद्युः पृच्छत् सः भिक्षुम् तम् प्राक्वत् आगतम् ॥३३॥भिक्षो धनव्ययेन एवम् सेवसे माम् किम् अनुअहम् ।न इदानीम् ते ग्रहीष्यामि फलम् यावत् न वक्ष्यसि ॥३४॥इति उक्तवन्तम् राजानम् भिक्षुः तम् विजने अब्रवीत् ।वीरसाचिव्यसापेक्षम् मन्त्रसाधनम् अस्ति मे ॥३५॥तत्र वीरैन्द्र साहाय्यम् क्रियमानम् त्वया अर्थये ।तत् श्रुत्वा प्रतिपेदे तत् तथा इति अस्य सः भूपतिः ॥३६॥ततः सः श्रमणः तुष्टः नृपम् पुनः उवाच तम् ।तर्हि कृष्णचतुर्दश्याम् आगामिन्याम् निशा- आगमे ॥३७॥इतः महाश्मशानान्तःवटस्य अधः स्थितस्य मे ।आगन्तव्यम् त्वया देव प्रतिपालयतः अन्तिकम् ॥३८॥बाढम् एवम् करिष्यामि इति उक्ते तेन महीभुजा ।सः क्षान्तिशीलः श्रमणः ह्र्ष्टः स्वनिलयम् ययौ ॥३९॥अथ ताम् सः महासत्त्वः प्राप्य कृष्णचतुर्दशीम् ।प्रार्थनाम् प्रतिपन्नाम् ताम् भिक्षोः तस्य नृपः स्मरन् ॥४०॥प्रदोषे नीलवसनः तमालकृतशेखरः ।निर्ययौ राजधानीतः खड्गपाणिः अलक्षितः ॥४१॥ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् ।चितानलौग्रनयनज्वालादारुणदर्शनम् ॥४२॥असंख्यनरकङ्कालकपालास्थिविशङ्कटम् ।हृष्यत्संनिहितौत्तालभूतवेतालवेष्टितम् ॥४३॥भैरवस्य अपरम् रूपम् इव गम्भीरभीषणम् ।स्फूर्जत् महाशिवारावम् श्मशानम् तत् अविह्वलः ॥४४॥विचित्य च अत्र तम् प्राप्य भिक्षुम् वटतरोः अधः ।कुर्वाणम् मण्डलन्यासम् उपसृत्य जगाद सः ॥४५॥एषः अहम् आगतः भिक्षो ब्रूहि किम् करवाणि ते ।तत् श्रुत्वा सः नृपम् दृष्ट्वा हृष्टः भिक्षुः उवाच तम् ॥४६॥राजन् कृतः प्रसादः चेत् तत् इतः दक्षिणामुखम् ।गत्वा विदूरम् एकाकी विद्यते शिंशपातरुः ॥४७॥तस्मिन् उल्लम्बितमृतः कः अपि एकः पुरुषः स्थितः ।तम् इह आनय गत्वा त्वम् सानाथ्यम् कुरु वीर मे ॥४८॥तत् शृउत्वा एव तथा इति उक्त्वा सः राजा सत्यसंगरः ।दक्षिणाम् दिशम् आलम्ब्य प्रवीरः प्रययौ ततः ॥४९॥आत्तदीप्तचिता- अलातलक्षितेन पथा अत्र सः ।गत्वा तमसि तम् प्राप कथंचित् शिंशपातरुम् ॥५०॥तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः ।सः अपश्यत् लम्बमानम् तम् भूतस्य इव शवम् तरोः ॥५१॥आरुह्य च अत्र भूमौ तम् छिन्न रज्जुम् अपातयत् ।पतितः च अत्र सः अकस्मात् चक्रन्द व्यथितः यथा ॥५२॥ततः अवरुह्य कृपया जीव- आशङ्की सः तस्य यत् ।राजा अङ्गम् प्रामृशत् तेन सः अट्टहासम् व्यधात् शवः ॥५३॥ततः सः राजा मत्वा तम् वेतालाधिष्ठितम् तदा ।किम् हससि एहि गच्छाव इति यावत् अकम्पितः ॥५४॥वक्ति तावत् न भूमौ सवेतालम् शवम् ऐक्षत ।ऐक्षत अत्र एव वृक्षे तु लम्बमानम् स्थितम् पुनः ॥५५॥ततः अधिरुह्य भूयः अपि तम् अवातारयत् ततः ।वज्रात् अपि हि वीराणाम् चित्तरत्नम् अखण्डितम् ॥५६॥आरोप्य च सवेतालम् स्कन्धे मौनेन तम् शवम् ।सः त्रिविक्रमसेनः अथ राजा गन्तुम् प्रचक्रमे ॥५७॥यान्तम् च तम् शवान्तःस्थः वेतालः अंसस्थितः अब्रवीत् ।राजन् अध्वविनोदाय कथाम् आख्यामि ते शृणु ॥५८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP