संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तशीतितमः पटलः| परनाथाअष्टोत्तरसहस्त्रनामा्नि ३ सप्तशीतितमः पटलः परनाथाअष्टोत्तरसहस्त्रनामा्नि १ परनाथाअष्टोत्तरसहस्त्रनामा्नि २ परनाथाअष्टोत्तरसहस्त्रनामा्नि ३ सप्तशीतितमः पटलः - परनाथाअष्टोत्तरसहस्त्रनामा्नि ३ परनाथाअष्टोत्तरसहस्त्रनामा्नि Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल परनाथाअष्टोत्तरसहस्त्रनामा्नि ३ Translation - भाषांतर युक्तो योगपतिः श्रद्धापालको भूतशङ्करः ।भूताध्यक्षो भूतनाथो भूतपालतत्परः ॥८१॥विभूतिदाता भूतिश्च महाभूतिविवर्धनः ।महालक्ष्मीश्वरः कान्तः कमनीयः कलाधरः ॥८२॥कमलाकान्त ईशानो यमोऽमरो मनोजवः ।मनयोगी मानयोगी मानभङो निरुपणः ॥८३॥अव्यक्तानन्दनिरतो व्यक्ताव्यक्तनिरुपितः ।आत्मारामपतिः कृष्णपालको रामपालकः ॥८४॥लक्षणेशो लक्षभर्ता भावतीशः प्रजाभवः ।भरताख्यो भारतश्च शत्रुघ्नो हनुमान् कपिः ॥८५॥कपिचूडामणिः क्षेत्रपालेशो दिक्करान्तरः ।दिशांपतिर्दिशीशश्च दिक्पालो हि दिगम्बरः ॥८६॥अनन्तरत्नचूडाढ्यो नानारत्नासनस्थितः ।संविदानन्दनिरतो विजयो विजयात्मजः ॥८७॥जयाजयविचारश्च भावचूडामणीश्वरः ।मुण्डमालाधरस्तन्त्री सारतन्त्रप्रचारकः ॥८८॥संसाररक्षकः प्राणी पञ्चप्राणो महाशयः ।गरुडध्वजपूज्यश्च गरुडध्वजविग्रहः ॥८९॥गारुडीशो मन्त्रिणीशो मैत्रप्राणहिताकरः ।सिद्धिमित्रो मित्रदेवो जगन्नाथो नरेश्वरः ॥९०॥नरेन्द्रश्वरभावस्थो विद्याभावप्रचारवित् ।कालाग्निरुद्रो भगवान् प्रचण्डेश्वरभूपतिः ॥९१॥अलक्ष्मीहारकः क्रुद्धो रिपूणां क्षयकारकः ।सदानन्दमयो वृद्धो धर्मसाक्षी सुधांशुधृक् ॥९२॥साक्षरो रिपुवर्गस्थो दैत्यहा मुण्डधारकः ।कपाली रुण्डमालाढ्यो महाबीजप्रकाशकः ॥९३॥अजेयोग्रपतिः स्वाहावल्लभो हेतुवल्लभः ।हेतुप्रियानन्ददाता हेतुबीजप्रकाशकः ॥९४॥श्रुतिक्षिप्रमणिरतो ब्रह्मसूत्रप्रबोधकः ।ब्रह्मानन्दो जयानन्दो विजयानन्द एव च ॥९५॥सुधानन्दो बुधानन्दो विद्यानन्दो बलीपतिः ।ज्ञानानन्दो विभानन्दो भावानन्दो नृपासनः ॥९६॥सर्वासनोग्रानश्च जगदानन्ददायकः ।पूर्णानन्दो भवानन्दो ह्यम्रुतानन्द एव च ॥९७॥शीतलोऽशीतिवर्षस्थो व्यवस्थापरिचायकः ।शीलाढ्यश्च सुशीलश्च शीलानन्दो पराश्रयः ॥९८॥सुलभो मधुरानन्दो मधुरामोदमादनः ।अभेद्यो मूत्रसञ्चारी कलहाख्यो विषङ्कटः ॥९९॥वाशभाढ्यः परानन्दो विसमानन्द उल्बणः ।अधिपो वारुणीमत्तो मत्तगन्धर्वशासनः ॥१००॥शतकोटिशरुश्रीदो वीरकोटिसमप्रभः ।अजाविभावरीनाथो विषमापूष्णिपूजितः ॥१०१॥विद्यापतिर्वेदपतिप्रमेयपराक्रमः ।रक्षोपतिर्महावीरपतिः प्रेमोपकारकः ॥१०२॥वारनाविप्रियानन्दो वारणेशो विभुस्थितः ।रणचण्डो रशेश्च रणरामप्रियः प्रभुः ॥१०३॥रणनाथी रणाहलादः संग्रामप्रेतविग्रहः ।देवीभक्तो देवदेवो दिवि दारुणतत्परः ॥१०४॥खड्गी च कवची सिद्धः शूली धूलिस्त्रिशूलधृक् ।धनुष्मान् धर्मचित्तेशोऽचिन्ननागसुमाल्यधृक् ॥१०५॥अर्थोऽनर्थप्रियोऽप्रायो मलातीतोऽतिसुन्दरः ।काञ्चनाढ्यो हेममाली काञ्चनश्रृङुशासनः ॥१०६॥कन्दर्पजेता पुरुषः कपित्थेशोऽर्कशेखरः ।पद्मगन्धोऽतिसद्गन्धश्चचन्द्रशेखरभृत् सुखी ॥१०७॥पवित्राधारनिलयो विद्यावद्वरबीजभृत् ।कन्दर्पसदृशाकारो मायाजिद् व्याघ्रर्मधृक् ॥१०८॥अतिसौन्दर्यचूडाढ्यो नागचित्रमणिप्रियः ।अतिगण्डः कुभकर्णः कुरुजेता कवीश्वरः ॥१०९॥एकमुखो द्वितुण्डश्च द्विविधो वेदशासनः ।आत्माश्रया गुरुमयो गुरुमन्त्रप्रदायकः ॥११०॥शौरीनाथो ज्ञानमार्गी सिद्धमार्गी प्रचण्डगः ।नामगः क्षेत्रगः क्षेत्रो गगनग्रन्थिभेदकः ॥१११॥गाणपत्यवसाच्छन्नो गानपत्यवसादवः ।गम्भीरोऽतिसुसूक्ष्मश्च गीतवाद्यप्रियंवदः ॥११२॥आहलादोद्रेककारी च सदाहलादी मनोगतिः ।शिवशक्तिप्रियः श्यामवर्णः परमबान्धवः ॥११३॥अतिथिप्रियकरो नित्यो गोविन्देशो हरीश्वरः ।सर्वेशो भाविनीनाथो विद्यागर्भो विभाण्डकः ॥११४॥ब्रह्माण्डरुपकर्ता च ब्रह्मण्डधर्मधारकः ।धर्मार्णवो धर्ममार्गी धर्मचिन्तासुसिद्धिदः ॥११५॥अस्थास्थितो ह्यास्तिकश्च स्वस्तिस्वच्छवाचकः ।अन्नरुपी अन्नकस्थो मानदाता महामनाः ॥११६॥आद्याशक्तिप्रभुर्मातृवर्नजालप्रचारकः ।मातृकामन्त्रपूज्यश्च मातृकामन्त्रसिद्धिदः ॥११७॥मातृप्रियो मातृपूज्यो मातृकामण्डलेश्वरः ।भ्रान्तिहन्ता भ्रान्तिदाता भ्रान्तस्थो भ्रान्तिवल्लभः ॥११८॥इत्येतत् कथितं नाथ सहस्त्रनाममङुलम् ।अष्टोत्तरं महापुण्यं स्वर्गीयं भुवि दुर्लभम् ॥११९॥यस्य श्रवणमात्रेण नरो नारायणी भवेत् ।अप्रकाश्यं महागुह्यं देवामप्यगोचरम् ॥१२०॥फलं कोटिवर्षशतैर्वक्तुं न शक्त्यते बुधैः ।यस्य स्मरणमाकृत्य योगिनीयोगपारगः ॥१२१॥सोक्षणः सर्वसिद्धीनां त्रैलोक्ये सचराचरे ।देवाश्च बहवः सन्ति योगिनस्तत्त्वचिन्तका ॥१२२॥पठनाद्धारणाज्ज्ञानी महापातकनाशकः ।आयुरारोग्यसम्पत्तिबृहितो भवति ध्रुवम् ॥१२३॥संग्रामे ग्रहभीतौ च महारण्ये जले भये ।वारमेकं पठेद्यस्तु स भवेद् देववल्लभः ॥१२४॥सर्वेषां मानसम्भङी योगिराड् भवति क्षणात् ।पूजां कृत्वा विशेषेण यः पठेन्नियतः शुचिः ॥१२५॥स सर्वलोकनाथः स्यात् परमानन्दमाप्नुयात् ।एकपीठे जपेद्यस्तु कामरुपे विशेषतः ॥१२६॥त्रिकालं वाथ षट्कालं पठित्वा योगिराड् भवेत् ।आकाशगामिनीं सिद्धिं गुटिकासिद्धिमेव च ॥१२७॥प्राप्नोति साधकेन्द्रस्तु राजत्वं हि दिने दिने ।सर्वदा यः पठेन्नित्यं सर्वज्ञः सुकुशाग्रधीः ॥१२८॥अवश्य योगिनां श्रेष्ठः कामजेता महीतले ।अज्ञानी ज्ञानवान् सद्योऽधनी च धनवान् भवेत् ॥१२९॥सर्वदा राजसम्मानं पञ्चत्वं नास्ति तस्य हि ।गले दक्षिणबाहौ च धारयेद्यस्तु भक्तितः ॥१३०॥अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ।अवधूतश्वरो भूत्वा राजते नात्र संशयः ॥१३१॥रक्तचन्दनयुक्तेन हरिद्राकुड्कुमेन च ।सेफालिकापुष्पदण्डैर्दलसङ्कुलवर्जितैः ॥१३२॥मिलित्वा यो लिखेत् स्तोत्रं केवलं चन्दनाम्भसा ।स भवेत् पार्वतीपुत्रः क्षणाद्वा द्वादशाहनि ॥१३३॥एकमासं द्विमासं वा त्रिमासं वर्षमेव च ।जीवन्मुक्तो धारयित्वा सहस्त्रनामकीर्तनम् ॥१३४॥पठित्वा तद्द्विगुणशः पुण्यं कोटिगुणं लभेत् ।किमन्यं कथयिष्यामि सार्वभौमेश्वरो भवेत् ॥१३५॥त्रिभुवनगणनाथो योगिनीशो धनाढ्यो मतिसुविमलभावो दीर्घकालं वसेत् सः ।इह पठति भवानीवल्लभः स्तोत्रसारंदशशतभिधेयं ज्ञानमष्टोत्तरं च ॥१३६॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्कोणप्रकाशे भ्रूपद्मभेदविन्यासे भैरवीभैरवसंवादे परशिवहाकिनीश्वराष्टोत्तर सहस्त्रनामपाठे सप्तानामपाठे सप्ताशीतितमः पटलः ॥८७॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP