संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तशीतितमः पटलः| परनाथाअष्टोत्तरसहस्त्रनामा्नि २ सप्तशीतितमः पटलः परनाथाअष्टोत्तरसहस्त्रनामा्नि १ परनाथाअष्टोत्तरसहस्त्रनामा्नि २ परनाथाअष्टोत्तरसहस्त्रनामा्नि ३ सप्तशीतितमः पटलः - परनाथाअष्टोत्तरसहस्त्रनामा्नि २ परनाथाअष्टोत्तरसहस्त्रनामा्नि Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल परनाथाअष्टोत्तरसहस्त्रनामा्नि २ Translation - भाषांतर श्रीनाथो गुरुदेवश्च परनाथो गुरुः प्रभुः ।परापरगुरुर्ज्ञाने तन्त्रज्ञोऽर्कशतप्रभाः ॥४१॥तार्क्ष्यो गमनकारी च कालभावी निरञ्जनः ।कालकूटानलः श्रोतः पुञ्जपानपरायणः ॥४२॥परिवारगनाढ्यश्च पाराशाषिसुतस्थितः ।स्थितिस्थापकरुपश्च रुपातीतोऽमलापतिः ॥४३॥पतीशो भागुरिश्चैव काल्श्चैव हरिस्तथा ।वैष्णवः प्रेमसिन्धुश्च तरलो वातवित्तहा ॥४४॥भावस्वरुपो भगवान् निराकाशः सनातनः ।अव्ययः पुरुषः साक्षी चाच्युतो मन्दराश्रयः॥४५॥मन्दराद्रिक्रियानन्दो वृन्दावनतनूद्धवः ।वाच्यावाच्यस्वरुपश्च निर्मलाख्यो विवादहा ॥४६॥वैद्यो वेदपरो ग्रन्थो वेदशास्त्रप्रकाशकः।स्मृतिमूलो वेदयुक्तिः प्रत्यक्षकुलदेवता ॥४७॥परीक्षको वारणाख्यो महाशैलनिषेवितः ।विरिञ्चप्रेमदाता च जन्याल्लासकरः प्रियः ॥४८॥प्रयागधारी पयोऽर्थी गाङगङधरः स्मरः ।गङाबुद्धिप्रियो देवो गङास्नाननिषेवितः ॥४९॥गङासलिलसंस्थो हि गङाप्रत्यक्षसाधकः ।गिरो गङामणिमरो मल्लिकामालधारकः ॥५०॥मल्लिकागन्धसुप्रेमो मल्लिकापुष्पधारकः ।महाद्रुमो महावीरो महाशिरो महोरगः ॥५१॥महातुष्टिर्महापुष्टिर्महालक्ष्मीशुभङ्करः ।महाश्रमी महाध्यानी महाचण्डेश्वरो महान् ॥५२॥महादेवो महाहलादो महाबुद्धिप्रकाशकः ।महाभक्तो महाशक्तो महाबुद्धिप्रकाशकः ।महाभक्तो महाशक्तो महाधूर्तो महामतिः ॥५३॥महाच्छत्रधरो धारोधरकोटिगतप्रभा ।अद्वैतनन्दवादी च मुक्तो भङुप्रियोऽप्रियः ॥५४॥अतिगन्धश्चातिमात्रो निर्णितान्तः परन्तपः ।निर्णितोऽनिलधारी च सूक्ष्मनिलनिरुपकः ॥५५॥महाभयङ्करो गोलो महाविवेकभूषणः ।सुधानन्दः पीठसंस्थो हिङुलादेश्वरः सुरः ॥५६॥नरो नागपतिः क्रूरो भक्तानां कामदः प्रभुः ।नागमालाधरो धर्मी नित्यकर्मी कुलीनकृत् ॥५७॥शिशुपालेश्वरः कीर्तिविकारी लिङुधारकः ।तृप्तानन्दो ह्रषीकेशेश्वरः पाञ्चालवाल्लभः ॥५८॥अक्रूरेशः पतिः प्रीतिवर्धको लोकवर्धकः ।अतिपूज्यो वामदेवो दारुणो रतिसुन्दरः ॥५९॥महाकालः प्रियाहलादी विनोदी पञ्चचूडधृक् ।आद्याशक्तिपतिः पान्तो विभाधारी प्रभाकरः ॥६०॥अनायासगतिर्बुद्धिप्रफुल्लो नन्दिपूजितः ।शिलामूर्तिस्थितो रत्नमालामण्डितविग्रहः ॥६१॥बुधश्रीदो बुधानन्दो विबुधो बोधवर्धनः ।अघोरः कालहर्ता च निष्कलङो निराश्रयः ॥६२॥पीठशक्तिपतिः प्रेमधारको मोहकारकः ।असमो विसमो भावोऽभावो भावो निरिन्दियः ॥६३॥निरालोकी बिलानन्दो बिलस्थो विषभुक्पतिः ।दुर्गापतिर्दर्गहर्ता दीर्घसिद्धान्तपूजितः ॥६४॥सर्वो दुर्गपतिर्विप्रो विप्रपूजानारायणः ।ब्राह्मणानन्दनिरतो ब्रह्मकर्मसमाधिवित् ॥६५॥विश्वात्मा विश्वभर्ता च विश्वविज्ञानपूरकः ।विश्वान्तःकरणस्थश्च विश्वसंज्ञाप्रतिष्ठितः ॥६६॥विश्वाधारो विश्वपूज्यो विश्वस्थोऽर्चित इन्द्रहा ।अलाबुभक्षणः क्षान्तिक्षो रक्षानिवारणः ॥६७॥तितिक्षारहितो हूतिः पुरुहूतप्रियङ्करः ।पुरुषः पुरुषश्रेष्ठो विलालस्थः कुलालहा ॥६८॥कुटिलस्थो विधिप्राणो विषयानन्दपारगः ।ब्रह्मज्ञानप्रदो ब्रह्मज्ञानी ब्रह्मगुणान्तरः ॥६९॥पालकेशो विराजश्च वज्रदण्डो महास्त्रधृक् ।सर्वास्त्ररक्षकः श्रीदो विधिबुद्धिप्रपूरणः ॥७०॥आर्यापुत्रो देवराजपूजितो मुनिपूजितः ।गन्धर्वपूजितः पूज्यो दानवज्ञाननाशनः ॥७१॥अप्सरोगणपूज्यश्च मर्त्यलोकसुपूजितः ।मृत्युजिद्रिपुजित् प्लक्षो मृत्युञ्जय इषुप्रियः ॥७२॥त्रिबीजात्मा नीलकण्ठः क्षितीशो रोगनाशनः ।जितारिः प्रेमसेव्यश्च भक्तिगम्यो निरुद्यमः ॥७३॥निरीहो निरयाहलादः कुमारो रिपुपूजितः ।अजो देवात्मजो धर्मोऽसन्तो मन्दमासनः ॥७४॥मन्दहासो मन्दनष्टो मन्दगन्धसुवासितः ।माणिक्यहारनिलयो मुक्ताहारविभूषितः ॥७५॥मुक्तिदो भक्तिदश्चैव निर्वाणपददानदः ।निर्विकल्पो मोदधारी निरातङ्को महाजनः ॥७६॥मुक्तविद्रुममालाढ्यो मुक्तादामलसत्कटिः ॥७७॥रत्नेश्वरो धनेशश्च धनेशप्राणवल्लभः ।धनजीवी कर्मजीवी संहारविग्रहोज्ज्वलः ॥७८॥संङ्केतार्थज्ञानशून्यो महासङ्केतपण्डितः ।सुपण्डितः क्षेमदाता भवदाता भवान्वयः ॥७९॥किङ्करेशो विधाता च विधातुः प्रियवल्लभः ।कर्ता हर्ता कारयिता योजनायोजनाश्रयः ॥८०॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP