संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तशीतितमः पटलः| परनाथाअष्टोत्तरसहस्त्रनामा्नि १ सप्तशीतितमः पटलः परनाथाअष्टोत्तरसहस्त्रनामा्नि १ परनाथाअष्टोत्तरसहस्त्रनामा्नि २ परनाथाअष्टोत्तरसहस्त्रनामा्नि ३ सप्तशीतितमः पटलः - परनाथाअष्टोत्तरसहस्त्रनामा्नि १ परनाथाअष्टोत्तरसहस्त्रनामा्नि Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल परनाथाअष्टोत्तरसहस्त्रनामा्नि १ Translation - भाषांतर श्रीआनन्दभैरव उवाचआनन्दभैरवि प्राणवल्लभे जगदीश्वरि ।तव प्रसादवाक्येन श्रुतं नामसहस्त्रकम् ॥१॥हाकिन्याः कुलयोगिन्याः परमाद्भुतमङुलम् ।इदानीं श्रोतुमिच्छामि परनाथस्य वाञ्छितम् ॥२॥सहस्त्रनामयोगाङुमष्टोत्तरसमाकुलम् ।भ्रूपद्मभेदनार्थाय हाकिनीयोगसिद्धये ॥३॥परनाथक्य योगाधिसिद्धये कुलभैरवि ।कृपया वद मे प्रीता धर्मसिद्धिनिबन्धनात् ॥४॥मम देहरक्षणाय पातिव्रात्यप्रसिद्धये ।महाविषहरे शीघ्रं वद योगिनि विस्तरात् ॥५॥त्वत्प्रसादात् खेचराणां भैरवानां हि योगिनाम् ।नाथोऽहं जगतीखण्डे सुधाखण्डे वद प्रिये ॥६॥पुनः पुनः स्तौमि नित्ये त्वमेव सुप्रिया भव ।श्रीआनन्दभैरवी उवाचअथ योगेश्वर प्राणनाथ योगेन्द्र सिद्धद ॥७॥इदानीं कथये तेऽहं निजदेहसुदिद्धये ।सर्वदा हि पठस्व त्वं कालमृत्युं वशं नय ॥८॥कृपया तव नाथस्य स्नेहपाशनियन्त्रिता ।तवाज्ञापालनार्थाय कालकूटविनाशनात् ॥९॥भुक्तिमुक्तिक्रियाभक्तिसिद्धये तच्छृणु प्रभो ।नित्यामृतखण्डसोल्लासनामसहस्त्रकम् ॥१०॥अष्टोत्तर्म प्रयत्नेन योगिनां हि हिताय च ।कथयामि सिद्धनामज्ञाननिर्णयसाधनम् ॥११॥अस्य श्रीपरनाथमहादेवमात्मनोऽष्टोत्तरशस्त्रनाम्नः स्तोत्रस्य सदाशिव ऋषिरुष्णिक्छन्दः श्रीपरनाथमहापुरुषपरमात्मा देवता हसौं बीजं सां शक्तिः प्रचण्डपरनाथमूलकीलकं चतुर्वहाकिनी परयोगसिद्धर्थे जपे विनियोगः ॐ हसौं सां परेश्वश्च पराशक्तिः प्रियेश्वरः ।शिवः परः पारिभद्रः परेशो निर्मलोऽद्वयः ॥१२॥स्वयंज्योतिरनाद्यन्तो निर्विकारः परात्परः ।परमात्मा पराकाशोऽपरोऽप्यपराजितः ॥१३॥पार्वतीवल्लभः श्रीमान् दीनबन्धुस्त्रिलोचनः ।योगात्मा योगदः सिद्धेश्वरो वीरः स्वरान्तकः ॥१४॥कपिलेशो गुरुर्गीतः स्वप्रियो गीतमोहनः ।गभीरो गाधनस्थश्च गीतवाद्यप्रियङ्करः ॥१५॥गुरुगीतापवित्रश्च गानसम्मानतोज्झितः ।गयानाथो दत्तनाथो दत्तात्रेयपतिः शिवः ॥१६॥आकाशवाहको नीलो नीलाञ्जनशरीरधृक् ।खगरुपी खेचरश्च गगनात्मा गभीरगः ॥१७॥गोकोटिदानकर्त्ता च गोकोटिदुग्धभोजनः ।अभयावल्लभः श्रीमान् परमात्मा निराकृतिः ॥१८॥सङ्ख्याधारी निराकारी निराकरणवल्लभः ।वाय्वाहारी वायुरुपी वायुगन्ता स्ववायुपाः ॥१९॥वातघ्नो वातसम्पत्तिर्वाताजीर्णो वसन्तवित् ।वासनीशो व्यासनाथो नारददिमुनीश्वरः ॥२०॥नारायणप्रियान्दो नारायणनिराकृतिः ।नावमालो नावकर्ता नावसंज्ञानधारकः ॥२१॥जलाधारो ज्ञेय इन्द्रो निरिन्द्रियगुणोदयः ।तेजोरुपी चण्डभीमो तेजोमालाधरः कुलः ॥२२॥कुलतेजा कुलानन्दः शोभाढ्यो वेदरश्मिधृक् ।किरणात्मा कारणात्मा कल्पच्छायापतिः शशी ॥२३॥परज्ञानी परानन्ददायको धर्मजित्प्रभुः ।त्रिलोचनाम्भोजराजो दीर्घनेत्रो मनोहरः ॥२४॥चामुण्डेशः प्रचण्डेशः पारिभद्रेश्वरो हरः ।गोपिता मोहितो गोप्ता गुप्तिस्थो गोपपूजितः ॥२५॥गोपनाख्यो गोधनेशश्च चारुवक्त्रो दिगम्बरः ।पञ्चाननः पञ्चमीशो विशालो गरुडेश्वरः ॥२६॥अर्धनारीश्वरोशश्च नायिकेशः कुलान्तकः ।संहारविग्रहः प्रेतभूतकोटिपरायणः ॥२७॥अनन्तेशोऽप्यनन्तात्मा मणिचूडो विभावसुः ।कालानलः कालरुपी वेदधर्मेश्वरः कविः ॥२८॥भर्गः स्मरहरः शम्भुः स्वयम्भुः पीतकुण्डलः ।जायापतिर्याजजूको विलाशीशः शिखपतिः ॥२९॥पर्वतेशः पार्वणाख्यः क्षेत्रपालो महीश्वरः ।वाराणसीपतिर्मान्यो धन्यो वृषसुवाहनः ॥३०॥अमृतानन्दितो मुग्धो वनमालीश्वरः प्रियः ।काशीपतिः प्राणपतिः कालकण्ठो महेश्वरः ॥३१॥कम्बुकण्ठः क्रान्तिवर्गो वर्गात्मा जलशासनः ।जलबुद्बुदवक्षश्च जलरेखामयः पृथुः ॥३२॥पार्थिवेशो महीकर्ता पृथिवीपरिपालकः ।भूमिस्थो भूमिपूज्यश्च क्षौणीवृन्दारकर्चितः ॥३३॥शूलपाणिः शक्तिहस्तो पद्मगर्भो हिरण्यभूत् ।भूगतसंस्थितो योगी योगसम्भवविग्रहः ॥३४॥पातालमूलकर्ता च पातालकुलपालकः ।पातालनागमालाढ्यो दानकर्ता निराकुलः ॥३५॥भ्रूणहन्ता पापराधिनागकः कालनायकः ।कपिलोग्रतपःप्रीतो लोकोपकारकृन्नृपः ॥३६॥नृपार्चितो नृपार्थस्थो नृपार्थकोटिदायकः ।पार्थिवार्चनसन्तुष्टो महावेगी परेश्वरः ॥३७॥परापारापारतरो महातरुनिवासकः ।तरुमूलस्थितो रुद्रो रुद्रनामफलोदयः ॥३८॥रौद्रीशक्तिपतिः क्रोधी कोपनष्टो विरोचनः ।असंख्ययाख्ययुक्तश्च परिणामविवर्जितः ॥३९॥प्रतापी पवनाधारः प्रशंस्यः सर्वनिर्णयः ।वेदजापी मन्त्रजापी देवता गुरुरीश्वरः ॥४०॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP