संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चशीतितमः पटलः| हाकिनीसहस्त्रनामविन्यासः २ पञ्चशीतितमः पटलः हाकिनीसहस्त्रनामविन्यासः १ हाकिनीसहस्त्रनामविन्यासः २ हाकिनीसहस्त्रनामविन्यासः ३ हाकिनीसहस्त्रनामविन्यासः ४ हाकिनीसहस्त्रनामविन्यासः ५ पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः २ हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीसहस्त्रनामविन्यासः २ Translation - भाषांतर प्रहलादस्था प्रफुल्लाब्जमुखी परमसुन्दरी ।पररामा परारामा पार्वणी पार्वणप्रिया ॥४१॥प्रियङ्करी पूर्वमाता पालनाख्या परासरा ।पराशनसुभाग्यस्था परकान्तिनितम्बिनी ॥४२॥परश्मशानगम्या च प्रियचन्द्रमुखीपला ।पलसानकरी प्लक्षा प्लवङुगनपूजिता ॥४३॥प्लक्षस्था पल्लवस्था च पङ्केरुहमुखी पटा ।पटाकास्थिता पाठ्या पवित्रलोकदायिनी ॥४४॥पवित्रमन्त्रजाप्यस्था पवित्रस्थानवासिनी ।पवित्रालङ्कृताङी च पवित्रदेहधारिणी ॥४५॥त्रिपुरा परमैश्वर्यपूजिता सर्वपूजिता ।पललप्रियह्रद्या च पलालचर्वणप्रिया ॥४६॥परगोगणगोप्या च प्रभुस्त्रीरौद्रतैजसी ।प्रफुल्लाम्भोजवदना प्रफुल्लपद्ममालिनी ॥४७॥पुष्पप्रिया पुष्पकुला कुलपुष्पप्रियाकुला ।पुष्पस्था पुष्पसङ्काशा पुष्पकोमलविग्रहा ॥४८॥पौष्पी पानरता पुष्पमधुपानरता प्रचा ।प्रतीची प्रचयाहलादी प्राचानाख्या च प्राञ्चिका ॥४९॥परोदरे गुणानन्दा परौदार्यगुणप्रिया ।पारा कोटिध्वनिरता पद्मसूत्रपभोधिनी ॥५०॥प्रियबोधनिरता प्रचण्डनादमोहिनी ।पीवरा पीवरग्रन्थिभेदा प्रलयापहा ॥५१॥प्रलया प्रलयानन्दा प्रलयस्था प्रयोगिनी ।प्रयोगकुशला पक्षा पक्षभेदप्रकाशिनी ॥५२॥एकपक्षा द्विपक्षा च पञ्चपक्षप्रसिद्धिदा ।पलाशकुसुमानन्दा पलाशपुष्पमालिनी ॥५३॥पलाशपुष्पहोमस्था पलाशच्छदसंस्थिता।पात्रपक्षा पीतवस्त्रा पीतवर्णाप्रकाशिनी ॥५४॥नीपितकालकूटी च पीतसंसारसागरा ।पद्मपत्रजलस्था च पद्मपत्रनिवासिनी ॥५५॥पद्ममाला पापहरा पट्टाम्बरधरा परा ।परनिर्वाणदात्री च पराशा परशासना ॥५६॥अप्रियविनिहन्त्री च परसंस्कारपालिनी ।प्रतिष्ठा पूजिता सिद्धा प्रसिद्धप्रभुवादिनी ॥५७॥प्रयासिद्धिदा क्षुब्धा प्रपञ्चगुणनाशिनी ।प्रणिपत्या प्राणिशिष्या प्रतिष्ठिततनूप्रिया ॥५८॥अप्रतिष्ठा निहन्त्री च पादपद्मद्वयान्विता ।पादाम्बुजप्रेमभक्तिपूज्यप्राणप्रदायिनी ॥५९॥पैशाची च प्रक्षपिता पितृश्रद्धा पितामही ।प्रपितामहपूज्या च पितृलोकस्वधापरा ॥६०॥पुनर्भवा पुनर्जीवा पौनःपुन्यगतिस्थिता ।प्रधानबलिभक्षासुप्रिया प्रियसाक्षिणी ॥६१॥पतङुकोटिजीवाख्या पावकस्था च पावनी ।परज्ञानार्थदात्री च परतन्त्रार्थसाधिनी ॥६२॥प्रत्यज्योतिः स्वरुपा च प्रथमाप्रथमारुणा ।प्रातःसन्ध्या पार्थसन्ध्या परसन्ध्यस्वरुपिणी ॥६३॥प्रधानवरदा प्राणज्ञाननिर्णयकारिणी ।प्रभञ्जना प्राञ्जनेशी प्रयोगोद्रेककारिणी ॥६४॥प्रफुल्लपददात्री च प्रसमाया पुरोदया ।पर्वतप्राणरक्षत्री पर्वताधारसाक्षिणी ॥६५॥पर्वतप्राणशोभा च पर्वतच्छत्रकारिणी ।पर्वता ज्ञानहर्त्री च प्रलयोदयसाक्षिणी ॥६६॥प्रारब्धजननी काली प्रद्युमनजननी सुरा ।प्राक्सुरेश्वरपत्नी च परवीरकुलापहा ॥६७॥परवीरनियन्त्री च परप्रणवमालिनी ।प्रणवेशी प्रणवगा प्रणवाद्याक्षरप्रिया ॥६८॥प्रणवार्णजपप्रीता प्राणमृत्युञ्जयप्रदा ।प्रणवालङ्कृता व्यूढा पशुभक्षणतर्पणा ॥६९॥पशुदोषहरा पाशुपतास्त्रकोटिधारिणी ।प्रवेशिनी प्रवेशाख्या पद्मपत्रत्रिलोचना ॥७०॥पशुमांसासवानन्दा पशुकोटिबलिप्रिया ।पशुधर्मक्षया प्रार्या पशुतर्पणकारिणी ॥७१॥पशुश्रद्धाकरी पूज्या पशुमुण्डसुमालिनी ।परवीरयोगशिक्षा परसिद्धान्तयोगिनी ॥७२॥परशुक्रोधमुख्यास्त्रा परशुप्रलयप्रदा ।पद्मरागमालधरा पद्मरागासनस्थिता ॥७३॥पद्मरागमणिश्रेणीहारालङ्कारशोभिता ।परमधूलिसौन्दर्यमञ्जीरपादुकाम्बुजा ॥७४॥हर्त्री समस्तदुःखानां हिरण्यहारशोभिता ।हरिणाक्षी हरिस्था च हरा हारावती हिरा ॥७५॥हारकुण्डलशोभाढ्या हारकेयूरमण्डिता ।हरणस्था हाकिनी च होमकर्मप्रकाशिनी ॥७६॥हरिद्रा हरिपूज्या च हरमाला हरेश्वरी ।हरातीता हरसिद्धा ह्रींकारी हंसमालिनी ॥७७॥हंसमन्त्रस्वरुपा च हंसमण्डलभेदिनी ।हंसः सोऽहं मणिकरां हंसराजोपरिस्थिता ॥७८॥हीरकाभा हीरकसूकधारिनी हरमेखला ।हरकुण्डमेखला च होमदण्डसुमेखला ॥७९॥हरधरप्रियानन्दा हलीशानी हरोदया ।हरपत्नी हररता संहारविग्रहोज्ज्वला ॥८०॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP