संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षष्ठषष्टितमः पटलः| शाकिनी पूजाविधि ३ षष्ठषष्टितमः पटलः शाकिनी पूजाविधि १ शाकिनी पूजाविधि २ शाकिनी पूजाविधि ३ षष्ठषष्टितमः पटलः - शाकिनी पूजाविधि ३ शाकिणीयजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शाकिनी पूजाविधि ३ Translation - भाषांतर पीठपूजनम्ध्यात्वा तद्गतमध्ये तु पीठचक्रं प्रपूजयेत् ।मूलाधारे कामरुपं कामचक्रं त्रिलक्षणम् ॥८२॥पीठाय नम उच्चार्य चाद्यतारकमुच्चरेत् ।ह्रदि जालन्धरं पीठं सिद्धपीठं त्रिचक्रकम् ॥८३॥ललाटे पूर्णगिर्याख्य हिङगुलादं सुपीठकम् ।उड्डियानं तदूर्ध्व तु मेघकुञ्जं स्वपीठकम् ॥८४॥महापीठं भ्रुवोर्मध्ये वाराणसीञ्च लिङुकम् ।लोचनत्रयमध्ये तु ज्वलन्तीसिद्धपीठकम् ॥८५॥ज्वालामुखी त्रिवेणी च पीठत्रयमुदाह्रतम् ।त्रिलोचने त्रिपीठं मे अवश्यं परिपूजयेत् ॥८६॥मुखाम्बुजे पूजयेद् वै मायारतिं सुभद्रिकाम् ।कम्पिल्लनगरं वंशनगर कामभञ्जनम् ॥८७॥हिरण्यनगर तत्र एकदन्तारसायनाम् ।कपालपीठं ताल्वाख्यं फणिपीठं मुखे यजेत् ॥८८॥कण्ठे मधुपुरीपीठं सुधापीठं तदन्तिके ।आहलादपीठं श्रीपीठं शून्यपीठं प्रियाञ्जलम् ॥८९॥पुरञ्जनाख्यं भद्राख्यं कण्ठे अम्भपुरी मम ।नाभौ महापीठराजमयोध्याभवपीठकम् ॥९०॥लक्ष्मीपीठं ब्रह्मपीठं लाङुलीपीठमेव च ।मानपीठं ज्ञानपीठं रुद्रपीठं तदन्तिके ॥९१॥लाकिनी कुलपापीठं वलाकापीठमेव च ।रौद्रपभामहापीठं म्लेच्छवासिसुपीठकम् ॥९२॥मक्कासिद्धकरीपीठं निरञ्जनस्वपीठकम् ब्राह्मीपीठं दत्तपीठभयापीठमेव च ॥९३॥रंगिणीपीठमेवं हि फेत्कारीपीठमर्चयेत् ।गर्गरीसिद्धपीठं च चन्द्रशेखरशैलकम् ॥९४॥हरिद्वाराख्यपीठं तु समुद्रपीठमर्चयेत् ।कट्यां सङ्केतपीठं च काञ्चीपीठं त्रिघर्घरम् ॥९५॥शूलिनीपीठमभ्यर्च्य लङ्कापीठं समर्चयेत् ।वारुणीपीठञ्च वज्रपीठं समरयेत् ॥९६॥सिद्धकटाहपीठञ्च महासंहारपीठकम् ।षट्पीठं द्राविडापीठं विष्णुपीठं रसान्वितम् ॥९७॥दलपीठं तथा राधापीठं पञ्चनलाख्यकम् ।कुण्डलीचक्रपीठं तु कामपीठं समर्चयेत् ॥९८॥महावाय्वाकाशपीठं त्रिकालचक्रपीठकम् ।ब्रह्मपीठं धरापीठं शत्रुपीठं समर्चयेत् ॥९९॥कुञ्जराख्यं महापीठं कालधर्माख्यपीठकम् ।तद्वामे डाकिनीपीठं गर्भपीठं तदन्तिके ॥१००॥मयूरपीठमभ्यर्च्य गारुडीपीठमर्चयेत् ।प्रणवं पूर्वमुच्चार्य चात्र पीठस्थितान् स्वरान् ॥१०१॥पूजयामि पद्मपुष्पैः प्रसन्नाः प्रभवस्तु ते ।पूजयित्वा पीठलोकं शिवलोकं समर्चयेत् ॥१०२॥क्षेत्रपाललोकमेवं धूम्रलोकं त्रिलोककम् ।पूजयेत् सागरान् सप्त भुवनानि चतुर्दश ॥१०३॥तारग्रहणक्रान्तलोकपालयुतानि च ।पूजयित्वा तद्बाह्ये च शक्तिविद्याः प्रपूजयेत् ॥१०४॥डाकिनी राकिणी पूज्या लाकिनी काकिनी तथा ।शाकिनी हाकिनी पश्चात् प्रभा नीला च बोधिनी ॥१०५॥उन्मनी भाविनी चिन्ता प्रियाङी मानसेश्वरी ।उल्कामुख्री क्रोधमुखी विप्रचित्ता सुभद्रिका ॥१०६॥नागिनी नागमाला च पृथिवीतीर्थवासिनी ।अकलङ्का जाहनवी च स्वर्गगङा मनोन्मनी ॥१०७॥सं सत्वस्था रं रजः स्था तं तमः स्था प्रपूजयेत् ।सर्वां देवीं पूजयेद् वै प्रणवादिनमोऽन्तिकाम् ॥१०८॥धूपदीपौ स्वमूलेन दद्यात् साधकयोगिराट् ।नैवेद्यं शोधयित्वा च दद्यात् पानार्थकं प्रभो ॥१०९॥विशेषबलि अर्पणाम्पुनराचमनं दत्वा विशेषबलिमर्पयेत् ।पूर्वोक्तस्तु मामानेन पञ्चतत्त्वक्रियादिभिः ॥११०॥अनेन मनुना दद्यात् बलित्रयमनुत्तमम् ।प्रणवं कालयायेऽन्ते सर्वपीठनिवासिनि ॥१११॥तदन्ते कालिकाबीजं स्वबीजं तदनन्तरम् ।आकाशवाहिनीत्यन्ते बलिं गृहण ततः परम ॥११२॥पञ्चतत्त्वादिमिलितं कपाले तदनन्तरम् ।परिगृहणयुगं पश्चात् शब्दबीजं ततो द्विजः ॥११३॥अनेन मनुना दद्याद् बलित्रयमनुत्तमम् ।सर्वत्र मान्सैर्योगी ददाति पूजनं बलिम् ॥११४॥जपकथनम्प्राणायामं त्रिधा कृत्वा जपेन्मन्त्रं यथाविधि ।सहस्त्रं वा शतं वापि चाष्टोत्तरसमान्वितम् ॥११५॥दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत् ।जपं समर्पयेद् देव्या वामहस्ते तु मन्त्रकैः ॥११६॥गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।सिद्धिर्भवतु मे देवि त्वत्प्रसादात् सुरेश्वरि ॥११७॥प्राणायामं त्रिषट्कृत्वा वन्दनं च प्रदक्षिणम् ।संवन्दे वरदे देवि त्रैलोक्यकुलपावनि ॥११८॥सर्वसिद्धिप्रदे देवि शाकिनी त्वां नमाम्यहम् ।वेदविद्याप्रकाशे त्वं नानाविद्याविनोदिनि ॥११९॥भवानि सिद्धिदे देवि वरदा भव सर्वदा ।सर्वदानवहन्त्री त्वं मम शत्रून् विनाशय ॥१२०॥अकालमृत्युहरणं कुलकौमारिशाकिनि ।सदाशिवयुते नित्ये सदाशिवविहारिणि ॥१२१॥अमरत्वं सदा देहि भक्तिं मुक्तिं प्रयच्छ मे ।शाकिनी प्राणदे देवि देवानां प्राणरक्षिणि ॥१२२॥शाकम्भरि नमस्तेऽस्तु मम देहं समाश्रय ।वाञ्छाकल्पतरोर्मूले स्थायिनि प्रेमदायिनि ॥१२३॥सर्वलोकर्चिते सिद्धिकण्ठपद्मे स्थिरा भव ॥१२४॥कण्ठाम्भोरुहमण्डले सुविमले वाञ्छाफले ज्वालिनी कामाख्ये प्रणमामि शाकिनि पदं मातर्हि शाकम्भरि ।देवानां जगतां हिताय विनये सम्यग्वश्रीप्रदे स्थित्यादिक्रमसंस्थिता भव महाकाशप्रभाचञ्चले ॥१२५॥इति प्रणम्य भावेन भुक्तिमुक्ती लभेद् ध्रुवम् ।पूजाफलमवाप्नोति प्रदक्षिणरतो नरः ॥१२६॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवसंवादे शाकिनीयजनं नाम षष्ठष्टितमः पटलः ॥६६॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP