संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षष्ठषष्टितमः पटलः| शाकिनी पूजाविधि १ षष्ठषष्टितमः पटलः शाकिनी पूजाविधि १ शाकिनी पूजाविधि २ शाकिनी पूजाविधि ३ षष्ठषष्टितमः पटलः - शाकिनी पूजाविधि १ शाकिणीयजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शाकिनी पूजाविधि १ Translation - भाषांतर श्रीआनन्दभैरवी उवाचकैलासशिखरारुढ पञ्चवक्त्र त्रिलोचन ।सर्वभूताप्रपूज्याथ शाकिनीयजनं श्रृणु ॥१॥त्रिविधपूजाकथनम्पूजनं त्रिविधं प्रोक्तं मनः साक्षाद्वचोमयम् ।मानसं योगिनां प्रोक्तं साक्षात् पूजागृहं प्रभो ॥२॥वाचामयं तामसानां नृपाणां कामिनां प्रभो ।एका पूजा च त्रिविधा कथिता परमेश्वर ॥३॥सा पूजा सिद्धिदा काले त्रिकाले सर्वकालके ।काले सिद्धिर्गृहस्थानां त्रिकाले ब्रह्मचारिणाम् ॥४॥योगिनां सर्वकालेऽपि विफला दुष्तचेतसाम् ।भावत्रयं हि पूजानां रजः सत्त्वतमोमयम् ॥५॥त्रिशक्तिपूजनं नाथ सर्वत्र परिकीर्तितम् ।ब्रह्माणीं वैष्णवी तत्र पूजयेत् तां महेश्वरीम् ॥६॥त्रिभावेन पूजयित्वा शक्तिं ब्रह्मत्रयेण च ।पशुरुपवीररुपदिव्यरुपेण पूजयेत् ॥७॥बलिदानं हि सर्वत्र परं मोक्षाय केवलम् ।क्रमेण श्रूणु योगेश सर्वाविद्यादिपूजनम् ॥८॥सर्वाविद्यादिपूजाविधिकथनम्यत्कृत्वा सम्भवेद् योगी परं ब्रह्ममयोऽचिरात् ॥९॥स्थानं वीक्ष्य महेन्द्र कोटिसदृशं श्रीलक्षणैर्लक्षितदेवानां दिवि वीरनाथ रुचिरं पुण्यं पवित्रं सुखम् ।रम्यं देवगृहान्वितं परजलैर्व्याप्तं तरुच्छाययासौगन्धादिषु मान्यशैलपवनं काले वसन्तेऽपि वा ॥१०॥शून्ये देवगृहे तले वरतरोश्चित्तार्पितात्मा यतिश्चाम्भोजासनसंस्थितो मृदुकटे व्याघ्रजिने वारणे ।आदौ पादयुगं भुवि स्थितमिति व्याशोध्य हस्तौ तथानीरं निर्मलगन्धराजमिलितं संक्षाल्य पद्मासनः ॥११॥जलशोधनमन्त्रस्तु श्रूततां परमेश्वर ।प्रणवं स्ताणप्रान्ते वज्रोदकमतः परम् ॥१२॥शोधयामि ततः स्वाहा जलमन्त्र उदाह्रतः ।प्रक्षिपेत्तज्जलं भिन्नजले भैरवशङ्कर ॥१३॥हस्तौ पादौ तज्जलेन क्षालयेत् काममायया ।विग्रहं मूलमन्त्रेण चाचमने द्वे उदाह्रते ॥१४॥शिखाबन्धनमन्त्रस्तु श्रृणून्मत्तकुमारक ।अप्रकाश्यं महामन्त्रं शिखाबन्धनमासनम् ॥१५॥शोधयेत् त्रिपुरानाथ कालाग्निशिखयोज्ज्वल ।आसनं शोधयाम्यद्य द्वारपालो भवनिशम् ॥१६॥प्रणवाद्यैर्नमोऽन्तेन शोधयेत् परमेश्वर ।शोधयेत् त्रिपुरानाथ कालाग्निशिखयोज्ज्वल ॥१७॥शिखाग्रं बन्धयाम्यद्य द्वारपालो भवनिशम् ।ततोऽर्घ्य स्थापयेद् विद्वान् शङ्काधारे मनोरमे ॥१८॥मूलमन्त्रेण संक्षाल्य ततो मूलेन पूरयेत् ।रक्तचन्दनयुक्तेन जलेन चन्दनेन च ॥१९॥ततो दूर्वार्घ्यं पुष्पाणि साधारे दापयेत् सुधीः ।दशधा मूलमन्त्रं तु तत्र सुधामयम् ॥२०॥धेनुमुद्रां मत्स्यमुद्रां योनिमुद्रां प्रदशयेत् ।जपेत् तत्र सारमन्त्रमाच्छाद्य मत्स्यमुद्रया ॥२१॥आत्मानं प्रोक्षयेदादौ ततो द्रव्याणि प्रोक्षयेत् ।ततः पीठं सुनिर्माय ताम्रे हेमशलाकया ॥२२॥नवकोण विलिख्याथ षट्कोणञ्च तदन्तरे ।बाह्ये च मण्डलद्वन्द्वं षोडशार्णं ततो लिखेत् ॥२३॥तद्बाह्ये च चतुर्द्वारं भूबिम्बद्वितयं पुनः ।एवं पीठ विनिर्माय दलेऽर्णान् विलिखेत्ततः ॥२४॥ॐ सुरेखायै नमः स्वाहा मन्त्रेण परिलेखयेत् ।प्रण्वञ्च महारेखाशब्दान्ते शोधयामि युक् ॥२५॥वहिनबीजायादिमनून् शोधयेत् पीठचक्रकम् ।पीठपूजा ततः कुर्यात् प्रणवादिनमोऽन्तकैः ॥२६॥सांपदं पूर्वमुच्चार्य ह्रदयाय नमस्ततः ।षड्दीर्घभाजा बीजेन पूजयेद् वामतः सुधीः ॥२७॥पूर्वादीशानपर्यन्तं चतुर्दिक्षु च मध्यके ।पूजयित्वा च तन्मध्ये वर्णोच्चारनपूर्वकैः ॥२८॥पीठशक्तिं पूजयित्वा पीठनायकमर्चयेत् ।प्रणवादिनमोऽन्तेन सर्वत्र प्रतिपूजयेत् ॥२९॥पीठशक्तिं शाकिनी तु तथा शाकम्भरीं शिवाम् ।लक्ष्मीं सरस्वतीं दुर्गां चण्डिकां गणनायिकाम् ॥३०॥भद्रकालीं विशालाक्षीं श्रद्धां मायां दयां कलाम् ।रणचण्डां मधुमतीं प्रसन्नां रत्नमालिनीम् ॥३१॥हिरण्यवर्णां कौमारीं वाग्देवी त्रिजटां महीम् ।त्रिशूलिनीं वेदमातां सिद्धाद्यां मधुनायिकाम् ॥३२॥मधुपुरेश्वरीं कुब्जां तथा मधुमतीं यजेत् ।शाकाख्या शाकचक्षाञ्च वरहस्तां हसन्मुखीम् ॥३३॥कपालिनीं खड्गहस्तां वनमालाञ्च माधवीम् ।विचित्राङी ललज्जिहवां चेकितानां प्रभामयीम् ॥३४॥सर्वां सर्वाकर्षिणीञ्च बहुरुपां सुरां सुधाम् ।सर्वमयीं वर्णमयीं मुण्डमालां त्रिकालिकाम् ॥३५॥विश्वेश्वरीं विश्वमातां महाविद्यां सनातनीम् ।एता विद्याः पूजनीयाः प्रणवादिनमोऽन्तिकाः ॥३६॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP